"अल्बर्ट् ऐन्स्टैन्" इत्यस्य संस्करणे भेदः

(लघु) ↓ Sudarshanhs इत्यनेन अल्बर्ट् ऐन्स्टायिन् इति पृष्ठम् अल्बर्ट् ऐन्स्टैन् इत्येतत् प्रति चालितं,...
त्त्व
पङ्क्तिः ७४:
 
==अध्ययनम् , उध्योगञ्च==
अस्य पिता कालान्तरे म्यूनिक् नगरे यन्त्रागारं स्थापितवान् । अस्मिन् समये पुत्रं क्याथोलिक् शालायाम् अध्ययनार्थं प्रेशितवान् । अत्रत्यनां कठिणनियमपालने अनासक्तः। अतः शालां गन्तुम् इच्छा एव न भवति स्म । पुत्राय विद्यायाः महत्वम्महत्त्वम् एवं अस्याः आवश्यकताञ्च बोधितवान् । पितृव्यस्य प्रोत्साहः अस्य अध्ययने बहुमुख्यम् आसीत् । एतेन अध्ययने अभिरुचिरागतः । अस्य माता 'पिटिलु’ वाद्यं पाठितवती । शालासु भाषाविषयेषु अनासक्तः, विज्ञाने, [[गणितम्|गणीते]] च आसक्तिः आसीत् । तत्रापि यूक्लिडस्य रेखागणीते अतीवासक्तिः आसीत् । अस्य प्रश्नाः शालासु अध्यापकान् पीडयन्ति स्म । अतीव सूक्ष्माः कठिणाश्च प्रश्नाः भवन्ति स्म । अस्मै अत्रत्य पाठनव्यवस्था न रोचते स्म । अतः [[स्विट्झर्ल्याण्ड्]]देशस्य [[आका]]नगरस्य प्रसिद्धां शालां प्रविष्टवान् । अत्रत्या पाठनशैली आकर्शिता । उत्तमशिक्षणं प्राप्य, जूरिच्नगरस्य पालिटेक्निक् कलाशालां प्रविष्टवान् । अस्मिन् समये भौतविज्ञानस्यैव अध्ययनं कर्तव्यमिति निर्धारं स्वीकृतवान् । अपेक्षितान् [[गणितम्|गणीतशास्त्र]]नियमान् अधीतवान् । अध्ययनानन्तरं उद्योगावकाशाः न प्राप्ताः । एषु दिनेषु बालेभ्यः पाठयति स्म । जूरच् विश्वविद्यालयस्य डाक्टरेट् पदवीं प्राप्तवान् । अस्मिन्नेव विश्वविद्यालये एव [[१९०९]] तमे संवत्सरे प्राध्यापकपदवीं प्राप्तवान् । [[१९१२]] तमे संवत्सरे जूरिच् पालिटेक्निक् विद्यालये सहप्राध्यापकत्वेन कार्यं कृतवान् । [[१९१३]] तमे संवत्सरे बर्लिन् विश्वविद्यालये प्राध्यापकत्वेन कार्यं कृतवान् । कैसर् विल् हेल्म् इन्स्टिट्यूट संस्थायाः विंशतिवर्षाणि यावत् निदेशकः आसीत् ।
 
==वैय्यक्तिकजीवनम्==
"https://sa.wikipedia.org/wiki/अल्बर्ट्_ऐन्स्टैन्" इत्यस्माद् प्रतिप्राप्तम्