"मध्वाचार्यः" इत्यस्य संस्करणे भेदः

No edit summary
त्त्वा
पङ्क्तिः २५:
सुमध्वविजयः इति नारायणपण्डिताचार्यस्य महाकाव्यं मध्वाचार्यस्य जीवनचरित्रं, वैशिष्ट्यं च वर्णयति । 'अयं मध्वाचार्यः [[हनुमान्|हनुमत्]]-[[भीमः|भीम]]-अवतारयोः परं वायुदेवस्य तृतीयः अवतारः' इति तस्य प्रख्यातिः । एतस्य पिता नडिल्लाय (मध्यगेह) नारायण भट्टः । माता वेदवती । एकदा अनन्तेश्वरदेवालयस्य उत्सवे कश्चित् मानवः एकस्य दीर्घस्तम्भस्य उपरि आरुह्य सर्वान् उद्दिश्य उवाच 'लोके शास्त्रसंरक्षणार्थं जीवोत्तमः वायुदेवः पाजकक्षेत्रे सद्यकाले अवतारं प्राप्नोति' इति । तदनुसारेण क्रि.श.१२३८ तमे वर्षे पाजकक्षेत्रे मध्यगेहभट्टस्य निरन्तरभगवत्सेवया एव एतस्य जन्म अभवत् । एतस्य पूर्वाश्रमस्य नाम वासुदेव इति । बाल्यावस्थायामेव अनेकचमत्कारान् प्रदर्श्य वायुदेवस्य अवतारत्वं अप्रकटयत् । शास्त्रसंरक्षणार्थं भुवि आगतः सः एकादशे वयसि अच्युतप्रज्ञात् संन्यासदीक्षां स्वीकृत्य पूर्णप्रज्ञः इति नामं प्राप्तवान् ।
 
त्रयोदशे (१३) शतमाने प्रचलितायां बृहत्सभायां नैकविद्वद्वरेण्यै: पृष्टानां प्रश्नानां सुललिततया उत्तरं दत्वादत्त्वा सर्वज्ञसूरिः इति उपाधिं प्राप्नोति । स्पष्ट-सुललित-व्याख्यानमेव मध्वाचार्यस्य पाण्डित्यस्य वैशिष्ट्यम् । एवं वेदस्य अर्थत्रयं, [[महाभारतम्|महाभारतस्य]] दशार्थं, विष्णुसहस्रनामस्य शतार्थं प्रदर्श्य एषः केरळे 'विश्वम्' इति पदस्य पञ्चाशदधिकार्थान् प्रतिपादितवान् इति तु मध्वाचार्यस्य पाण्डित्यं द्योतयति ।
 
==[[मध्वसिद्धान्तः]]==
"https://sa.wikipedia.org/wiki/मध्वाचार्यः" इत्यस्माद् प्रतिप्राप्तम्