"रावणः" इत्यस्य संस्करणे भेदः

शिरश्छेदः
त्त्वा
पङ्क्तिः १४:
 
==शङ्करेण दशाननगर्वभङ्गः==
अधिकारमदेन रावणः देवताभ्यः ऋषिभ्यः यक्षेभ्यः गन्धर्वेभ्यः च विविधाः पीडाः दातुम् आरब्धवान् । कदाचित् कुबेरम् आक्रम्य युद्धे पराजितम् अकरोत् । स्वस्य विजयस्य प्रतीकरूपेण कुबेरस्य मनोवेगगमनं पुष्पकविमानं बलात्कारेण स्वीकृतवान् । पुष्पकविमानम् उपविष्टवताम् इच्छानुगुणं लघु अथवा बृहत् भवति स्म । एतादृशे विमाने उपविश्य कदाचित् रावणः शरवणनामकस्य प्रसिद्धवनस्य उपरि सञ्चरन् आसीत् । तदा भगवतः शिवस्य वाहनं नन्दीश्वरः रावणम् अवरुध्य अवदत् ’ हे दशग्रीव, अस्मिन् वने विद्यमाने पर्वते भगवान् शङ्करः क्रीडति । अत्र सुरासुरयक्षादीनाम् आगमनं निषिद्धम् । नन्दीश्वरस्य वचांसि श्रुत्वा क्रुद्धः रावणः विमानात् अवतीर्य शङ्करस्य निकटम् अगच्छत् । तं निवारयितुं नन्दीश्वरः हस्ते त्रिशूलं गृहीत्वा अपरः शिवः इव पुरतः अतिष्ठत् । तस्य मुखं वानरः इव अस्ति इति दृष्ट्वा रावणः अट्टहासम् अकरोत् । अनेन परिहासेन कुपितः [[नन्दी]] 'मम वानरमुखस्य अवहेलनं कृतवतः भवतः नाशम् अपि मादृशः पराक्रमी महाकपिः एव करिष्यति इति ' रावणम् अशपत् । नन्देः वचनम् अवगणयन् रावणः अवदत् । यः पर्वतः मम विमानप्रवासे विघ्नं करोति तं छेदयामि । इति वदन् रावणः पर्वतस्य मूले हस्तं स्थापयित्वा उन्नेतुं प्रयत्नम् अकरोत् । यदा पर्वतः कम्पयितुम् अरब्धः तदा उपरि उपविष्टवान् परमेश्वरः स्वपादाङ्गुष्टेन पर्वतं निपीडितवान् । अनेन रावणस्य करः अपलपितम् । रावणः उच्चैराक्रोशत् । कथञ्चिदपि सः हस्तं पर्वतछेदात् परित्रातुं न शक्तवान् । तदा क्रन्दन् एव रावणः शिवस्य स्तुतिं कुर्वन् क्षमाप्रार्थनां कृतवान् । शङ्करः तस्मै क्षमां दत्वादत्त्वा तस्य प्रार्थनानुगुणं चन्द्रहासः इति खड्गं वररूपेण अनुगृहीतवान् ।
 
==रावणस्य दुराचारः==
"https://sa.wikipedia.org/wiki/रावणः" इत्यस्माद् प्रतिप्राप्तम्