"महादेवभाई देसाई" इत्यस्य संस्करणे भेदः

स्मारक
त्त्वा
पङ्क्तिः ३४:
१९१५ तमस्य वर्षस्य 'जुलाई'-मासस्य चतुर्थे (४) दिनाङ्के प्रेमाभाई सभागृहे गान्धि-महादेवयोः प्रप्रथमः परिचयः अभूत् । ततः [[मोहनदासकरमचन्दगान्धिः|महात्मनः]] सान्निध्यं सम्प्राप्य महादेवः देशसेवायै सम्पूर्णं जीवनम् अयच्छत् । सः बहुषु आन्दोलनेषु प्रतिनिधित्वेन कार्यमकरोत् । परन्तु [[मोहनदासकरमचन्दगान्धिः|महात्मनः]] सचिवत्वेन सः स्मर्यते । सः [[मोहनदासकरमचन्दगान्धिः|महात्म]]ना स्थापिते आश्रमे एव निवसति स्म । [[मोहनदासकरमचन्दगान्धिः|महात्मना]] निर्धारितान् आश्रमसम्बद्धनियमान् सर्वे आश्रमवासिनः पालयेयुः तत् दायित्वं महादेवस्यैव आसीत् । [[मोहनदासकरमचन्दगान्धिः|महात्मनः]] सूचनानां पालनं महादेवः निष्ठया करोति इति आश्रमवासिभिः बहुवारम् अनुभूतम् ।
 
एतादृशी एका घटना श्रूयते । एकवारं [[मोहनदासकरमचन्दगान्धिः|महात्मा]] आदिशत, “देशभक्ताः आश्रमाय यावतां फलानां दानं कुर्वन्ति, तावत्सु अवशिष्टानां फलानां वितरणं बालेषु, रुग्णेषु च भवतु” इति । [[मोहनदासकरमचन्दगान्धिः|महात्मना]] उक्तम् आसीदतः एका सेविका महादेवं पृष्टवती यत्, “भ्रातः ! देशभक्ताः फलानि प्रेषयिष्यन्ति इति सूचना अस्ति । देशभक्तैः यानि फलानि प्रेषितानि आसन्, तेषु बहूनि फलानि अवशिष्टानि सन्ति । तेषु कानिचन फलानि विगलितानि अपि सन्ति । किम् अहं तानि सर्वाणि अवशिष्टानि फलानि [[गुजरातविद्यापीठ]]स्य विद्यार्थिभ्यः प्रेषयामि” ? । महादेवः उग्रस्वरेण पृष्टवान्, “तानि फलानि समीचीनानि तु सन्ति न वा ? वयं भोक्तुं शक्नुमः खलु ?” सेविकायाः मुखे भयं दृष्ट्वा महादेवः शान्त्या, स्पष्टतया च [[मोहनदासकरमचन्दगान्धिः|महात्मनः]] आदेशस्य हार्दं सेविकाम् अबोधयत् । सः उक्तवान्, “यानि फलानि विगलितानि सन्ति, तानि अस्मभ्यं स्थापयतु । देशभक्ताः यानि फलानि प्रेषयिष्यन्ति, तानि विद्यार्थिभ्यः प्रेषयिष्यामः । [[मोहनदासकरमचन्दगान्धिः|महात्मा]] बालेषु, रुग्णेषु च फलवितरणं कुर्वन्तु इति आदिशत । किन्तु सः विगलितानि फलानि ददतु इति नोक्तवान् खलु ? सः तु इष्टतमानि फलानि अन्यस्मै दत्वादत्त्वा आनन्दम् अनुभवति । अत्रापि तस्य तदेव कथनमासीत्” । एवं [[मोहनदासकरमचन्दगान्धिः|महात्मनः]] आदर्शविचारान् श्रद्धया अनुसरन् जीवनं व्यापयत् सः ।
 
== महादेवस्य मृत्युः ==
"https://sa.wikipedia.org/wiki/महादेवभाई_देसाई" इत्यस्माद् प्रतिप्राप्तम्