"कारैक्काल् अम्बा" इत्यस्य संस्करणे भेदः
Content deleted Content added
आश्चर्य |
त्त्वा |
||
पङ्क्तिः ६:
चोळराज्ये समुद्रतीरस्थं वाणिज्यक्षेत्रम् अस्ति "कारैक्काल् “ । तत्र धनदत्तः नाम कश्चित् वणिक् आसीत् । तस्य अतिसौन्दर्यवती एका पुत्री आसीत् । तपोफलेन प्राप्तायाः तस्याः कृते 'पुनीतवती' इति नामकरणं कृतवान् धनदत्तः । पुनीतवती बाल्यकाले एव नितरां शिवस्य चिन्तनं कुर्वती आसीत् । सा शिवभक्तान् सर्वानपि शिवः एव इति मत्वा तेषां सेवां करोति स्म । सा विवाहवयस्का अभवत् ।
==गृहस्थाश्रमः==
नागपट्टिनं नाम एकस्मिन् नगरे "निधिपतिः“ नाम कश्चन वणिक् आसीत् । तस्य पुत्रः आसीत् "परमदत्तः“ । तेन साकं पुनीतवत्याः विवाहः जातः । धनदत्तस्य पुनीतवती अनन्या पुत्री । अतः सः तस्यै गृहस्थाश्रमप्रवर्तनार्थं तत्रैव सर्वविधसौलभ्यानि कल्पितवान् । तयोः कृते कारैक्काल् प्रदेशे एव पृथक् गृहं , प्रभूतं धनञ्च व्यस्थापितवान् । परमदत्तः तत् धनम् उपयुज्य वाणिज्यं कृत्वा सम्पादयन् आसीत् । तस्य पत्नी अपि सुगुणवती आसीत् । सा शिवम् स्मरन्ती शिवभक्तेभ्यः भोजनं, धनं इत्यादीनि
==आम्रफलप्राप्तिः==
तदा कदाचित् कश्चन परमदत्ताय आम्रफलद्वयं दत्तवान् । परमदत्तः ते गृहम्प्रति प्रेषितवान् । पुनीतवती अपि ते फले स्वीकृत्य स्थापितवती । तस्मिन् अवसरे शिवभक्तः एकः बुभुक्षया पीडितस्सन् तत्र आगतः । तस्य स्थितिम् अवगत्य पुनीतवती भोजनं दातुं चिन्तितवती । किन्तु तस्मिन् समये गृहे अन्नं केवलं सिद्धम् आसीत् । व्यञ्जनादिकं तु न सिद्धम् । किन्तु सा बुभुक्षितस्य शिवभक्तस्य प्रतीक्षां कारयितुं न इष्टवती । तत् केवलं न शिवभक्ताय भोजनदानं तस्याः सौभाग्यम् इति सा चिन्तितवती । अतः सा परमदत्तेन प्रेषितयोः आम्रफलयोः एकं कर्तयित्वा भोजनेन साकं परिवेषितवती । तस्य बुभुक्षामपि निवारितवती । शिवभक्तः अपि आतृप्ति भुक्त्वा सन्तोषेण ततः निर्गतः ।
पङ्क्तिः ३२:
ईश्वरः पुनितवतीं "एतावत् पर्यन्तम् आगतं त्वया । किं वरं अपेक्षते "इति अपृच्छत् । सा "हे करुणासिन्धो ! सर्वदा तव पादारविन्दयोः एव मम मतिः भवतु । पुनः मम जननमेव न भवेत् । विधिवशेन भवति चेदपि तव स्मरणेन एव भवितव्यम् । तव आनन्दतान्डवसम्ये पादयोः अधः भूत्वा सर्वदा तव नाट्यं द्रष्टव्यं मया“ इति सम्प्रार्थितवती ।
अम्बा यद्यत् प्रार्थितवती तत् सर्वम्
कैलासपर्वतात् निर्गत्य शिरसा एव गत्वा तिरुवालङ्काडुं प्राप्तवती अम्बा । शिवेन "अम्बा“ इति आहूता इति कारणेन, ”कारैक्काल्“ प्रदेशस्था इति कारणेन च तस्याः नाम "कारैक्काल् अम्बा“ इति जातम् । अद्यापि तिरुवालङ्काडुप्रदेशे शिवस्य समीपे एव कारैक्काल् अम्बायाः मूर्तिः अस्ति ।
|