"कबीरदासः" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १:
{{सिखमतम्}}
[[File:Kabir004.jpg|thumb|right|कबीरदासः भक्तेन सह]]
सन्तः श्रेष्ठः कविः निर्गुणब्रह्मोपासकः '''कबीरदासमहोदयः''' सर्वधर्मसमताम् उपदिष्टवान् उत्तरभारते साधुभिः सह वसन्
==बाल्यजीवनं पृष्ठभूमिका च==
कबीरदासस्य जन्म
काचित् कथा श्रूयते यत् वर्षस्य कस्मिंश्चित् विशिष्टदिने यः कोपि गुरोः शिष्यः भवितुम् अर्हति यदि गुरुः तमुद्दिश्य देवस्य नाम कथयेत् ।
हिन्दुमुस्लिंधर्मयोः धर्मतत्वानि ज्ञात्वा कबीरः साधुभिः सदा आध्यात्मिकधार्मिकचर्चां करोति स्म । कबीरस्य पत्न्याः नाम लोई इत्यासीत् । जीवननिर्वहणार्थं तन्तुवायवृत्तिमेव कबीरदासः आश्रितवान् । कबीरदासः सद्भिः साकमेव व्यवहारज्ञानम् आध्यात्मिकज्ञानं च प्राप्तवान् । स्वमिरामानन्दात् सन्यासदीक्षां स्वीकृत्य कवितारचनासु च प्रतिभां प्रदर्शितवान् । प्रथमं निर्गुणोपासकः कबीरदासः अनन्तरं
''दोहा'' इति द्विपादात्मकेषु काव्येषु अति सुन्दरतया व्यवहारज्ञानं नीतिमुक्तवान् । गुरोः स्थानम् अतीवमहत्त्वपूर्णमस्ति । गुरुः भगवान् एकदैव पुरतः आगच्छन्ति चेत् अहं गुरुमेव प्रथमं पूजयामि यतः गुरुः एव भगवन्तमपि दर्शितवान् इति कबीरदासः उक्तवान् ।
पङ्क्तिः १२:
'साई इतना दीणि ए. जा मे कुटुम्ब समाय । मै भी भूखा न रहूं साधुभी भूखा न जाय' एवम् अधिकं धनं कबीरदासस्य अस्ति । तस्य उपदेशेषु सुविचाराः अन्धविश्वासनिरासः मार्गदर्शनव्यवहाराः सम्यक् निरुपिताः सन्ति । (‘स्वामी एतावद् ददाति येन मम कुटुम्बं सम्भाल्यते । अहमपि न बुभुक्षितोऽस्मि साधवोऽपि न बुभुक्षिताः स्युः’॥)भक्तिः, ज्ञानं, गुरुपूजा, संसारत्यागः, कर्तव्यनिर्वहणादिविषये अनेकानि सुन्दराणि पद्यानि अपि कबीरदासः रचितवान् । ''कहत कबीर सुनो भाई साधो'' एतत् वाक्यं कबीरदासस्य पद्येषु भवति ।
कबीरदासस्य जातिविचाराः उच्चनीयभावनिरासः सम्प्रदायविरोधिभावनाः जनेभ्यः इष्टाः न आसन् । कबीरदासः भक्तिनटनां कटुशब्दैः निन्दितवान् । स्वीये वृध्दाप्ये कबीरदासः [[गोरखपुरम्|गोरखपुरे]] वासं कृतवान् । तत्रैव क्रिस्तशके १५०८ तमे वर्षे दिवङ्गतः । भारतदेशे [[कबीरदासजयन्ती]] महोत्सवं जूनमासे आचरन्ति ।
==अत्रापि अवलोक्यताम्==
|