"विशाखपट्टणमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) →‎Navbox
पङ्क्तिः ५६:
 
== इतिहासः ==
विश्वविख्यातसिंहाचलपुण्यक्षेत्रं विद्यते अस्मिन् मण्डले विशाखपट्टणम् । एतत् यावद्भारतदेशे बृहन्मण्डलम् आसीत् स्वातन्त्र्यात् पूर्वम् । [[मौर्यसाम्राज्यम्|मौर्याः]], [[सातवाहनसाम्राज्यम्|शातवाहनाः]], विष्णुकुण्डिनः, [[चालुक्याः]] गजपतयः विजयनगराधीशाः, गोल्कोण्डसाम्राज्याधीशाः इत्यादीनां परिपालनानन्तरं ब्रिटिषाधिपत्यं गतम् । [[१८७९]] काले वीरय्यदोराध्वर्यवे रम्पाविप्लवम्, [[१९२२]] वर्षे गिरिजनैः सवरविप्लवं समजनि। ब्रिटिष्परिपालनविरोधिनः अल्लूरिसीतारामराजादीनां नायकत्वे नर्सीपट्टनं, रम्पचोडवरप्रान्तेषु वनवासिनः उद्यमं कृतवन्तः। किन्तु ब्रिटिष् सर्वकारः तान् उद्यमनायकान् पाशविकरीत्या मारितवान् । स्वातन्त्र्यानन्तरम् एतस्य मण्डलस्य द्विवारं विभजनं जातम् । ततः केचन प्रान्ताः श्रीकाकुले, केचन प्रान्ताः विजयनगरे च सम्मिलिताः । भौगोलिकम् अस्य सीमायां प्राग्दिशि बङ्गालाखातसमुद्रः, पश्चिमदिशि [[ओरिस्साराज्यम्]], उत्तरदिशि [[विजयनगरमण्डलम्|विजयनगरमण्डलं]], दक्षिणदिशि [[पूर्वगोदावरीमण्डलम्|पूर्वगोदावरीमण्डलं]] च वर्तन्ते । अस्य मण्डलस्य भूभागे ४२% अरण्यं वर्तते । ५ सङ्ख्याख्यः राजमार्गः अस्मिन् मण्डले १६९ कि.मी. मिते दूरे विस्तृतः ।
 
== कृषिः वाणिज्यं च ==
"https://sa.wikipedia.org/wiki/विशाखपट्टणमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्