"सम्भवनाथः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{infobox
| above = सम्भवनाथः
| abovestyle = background-color: Goldenrod
| subheader = तृतीयः जैन[[तीर्थंकरः]]
| image1 = [[File:Lord Sumatinath and Laord Sambhavnath at Ranthambore.jpg|220px]]
| caption1 = '''सम्भवनाथस्य प्रतिमा'''
| headerstyle = background-color: Goldenrod
| header1 = विवरणम्
| label2 = '''ऐतिहासिककालः'''
| data2 =
| header20 = परिवारः
| label21 = '''पिता'''
| data21 = राजा जितारिः
| label22 = '''माता'''
| data22 = सेनादेवी
| label23 = '''वंशः'''
| data23 = इक्ष्वाकुः
| header30 = स्थानम्
| label31 = '''जन्म'''
| data31 = [[श्रावस्ती]]
| label32 = '''निर्वाणम्'''
| data32 = [[सम्मेदशिखरम्]]
| header40 = लक्षणम्
| label41 = '''वर्णः'''
| data41 = स्वर्णः
| label42 = '''चिह्नम्'''
| data42 = [[अश्वः]]
| label43 = '''औन्नत्यम्'''
| data43 = ४०० धनुर्मात्रात्मकम् (१२०० मीटर्)
| label44 = '''आयुः'''
| data44 = ६०,००,००० पूर्व
| header50 = शासकदेवः
| label51 = '''यक्षः'''
| data51 = त्रिमुखः
| label52 = '''यक्षिणी'''
| data52 = दुरितारि
| below =
}}
{{Infobox Jainism}}
'''सम्भवनाथः'''({{IPA audio link|सम्भवनाथः.ogg}}) ({{lang-hi|सम्भवनाथ}},{{lang-en|Sambhavanatha}}) [[जैनधर्म]]<nowiki/>स्य चतुर्विंशति[[जैनतीर्थङ्कराः|तीर्थङ्करेषु]] तृतीयः तीर्थङ्करः वर्तते । भगवतः सम्भवनाथस्य चिह्नम् [[अश्वः]] अस्ति ।
 
==जन्म, परिवारश्च==
({{IPA audio link|सम्भवनाथः.ogg}})
 
भरतक्षेत्रस्य सावत्थीनगर्यां [[मार्गशीर्ष]]<nowiki/>-मासस्य शुक्लपक्षस्य [[चतुर्दशी|चतुर्दश्यां]] तिथौ रात्रौ भगवतः सम्भवनाथस्य जन्म अभवत् । तस्य पिता राजा जितारिः, माता सेनादेवी च आसीत् ।
{{PAGENAME}} एकः जैन धर्मस्य तीर्थंकरः अस्ति।
 
एकस्यां रात्रौ सेनादेव्या तीर्थङ्करत्वसूचकाः चतुर्दश स्वप्नाः दृष्टाः । तस्मिन् समये एव राज्ञ्या राजा जितारिः उत्थापितः । राज्ञी सर्वे स्वप्नाः राजानं श्रावितवती । तदैव राजा अजानत् यत् – “समयान्तरे कश्चन तीर्थङ्करः भविष्यति” इति |
 
आगामिदिने स्वप्नशास्त्रिणां साहाय्येन सर्वेषां स्वप्नानां निष्कर्षः प्राप्तः । स्वप्नशास्त्रिभिः उक्तं यत् – “सेनादेव्याः कुक्ष्याः पुत्ररत्नः समुद्भविष्यति । सः जनानाम् उद्धारं करिष्यति” । स्वप्नशास्त्रिणां वचांसि श्रुत्वा राज्यजनाः प्रफुल्लिताः अभवन् ।
[[वर्गः:जैनतीर्थङ्कराः|जी, सम्भवनाथः]]
 
भगवतः जन्मानन्तरं चतुष्षष्ठी [[इन्द्रः|इन्द्राः]] समुपस्थिताः । इन्द्रैः जन्मोत्सवः आचरितः । राज्ये एकादशदिवसात्मकः उत्सवः जातः ।
 
===पूर्वजन्म===
 
एकस्मिन् जन्मनि कोऽपि महापुरुषः भवितुं न शक्नोति । बहूनां जन्मनां साधनया महापुरुषपदं प्राप्यते । भगवतः सम्भवनाथेन अपि अनेकेषु जन्मसु साधना कृता आसीत् । साधनया मानवीयगुणानां विकासः अभवत् । तत्परिणामेन सः तीर्थङ्करपदं प्रापत् ।
 
पूर्वजन्मनि सम्भवनाथः घातकीखण्डनामकस्य द्वीपस्य ऐरावतक्षेत्रे क्षेमपुरीनगर्याः विपुलवाहननामकः राजा आसीत् <ref> तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 55</ref>। तस्य राज्ये भयङ्करदुष्कालस्य स्थितिः समुद्भूता । तदा राज्ञा स्वस्य अन्नभाण्डाराणि सर्वेभ्यः उद्घाटितानि । भाण्डारेभ्यः कोऽपि जनः अन्नं स्वीकर्तुं शक्यते स्म ।
 
राज्ञा आदिष्टं यत् – “राज्यस्य कोऽपि जनः बुभुक्षितः मा स्यात्” इति । राज्ञा अन्यस्मात् राज्यात् खाद्यानि आनीतानि । राज्ये यानि विकासकार्याणि प्रचलन्ति आसन्, तेषां कार्याणां गतिविधिः अपि परीक्षिता । राज्ञः एतादृशेन व्यवहारेण प्रजाजनानां मनसि एकात्मता समुद्भूता ।
 
दुष्कालकारणात् बहवः साधवः अन्यानि जनपदानि गतवन्तः आसन् । किन्तु केचित् मुनयः राज्ये एव निवसन्तः आसन् । ते मुनयः कदाचित् शुद्धाहारं प्राप्नुवन्ति स्म, कदाचित् न प्राप्नुवन्ति स्म । अयं सन्देशः राज्ञा प्राप्तः । तदा राजा स्वयमेव मुनीनां समीपे गत्वा भोजनाय निमन्त्रणं प्रदत्तवान् ।
 
मुनयः राजप्रासादात् यथावश्यकं भोजनं खाद्यं वा सम्प्राप्तवन्तः । समयान्तरे वृष्टिः जाता । तया वृष्ट्या अन्नं समभवत् । तेन कारणेन राज्यस्थितिः पूर्ववत् अभवत् ।
 
एकदा सम्भवनाथः आकाशे पश्यन् आसीत्, तदा तेन मेघानां स्थितिः दृष्टा । मेघाः वायुना प्रवाहेण परस्परं सम्मिलन्ति, अपयान्ति च । इदं दृश्यं दृष्ट्वा सः स्वस्य परिवारस्य मेघवत् स्वरूपं चिन्तितवान् । अनेन कारणेन सः भौतिकजीवनात् विरक्तिं सम्प्रापत् । ततः परं सः स्वयंप्रभाचार्यात् दीक्षां प्राप्तवान् । अनन्तरं सः अध्यात्मे लीनः जातः । अन्ते सः समाधिपूर्वकं आराधकपदं प्राप्य नवमं देवलोकं गतः । “तिलोयपन्नति” इत्यादिषु ग्रन्थेषु अपि अस्य उल्लेखं प्राप्यते ।
 
===[[नामकरणसंस्कारः|नामकरणम्]]===
 
पुत्रस्य नामकरणोत्सवे सर्वे कौटुम्बिकाः समुपस्थिताः आसन् । इतः परं राज्यस्य प्रतिष्ठिताः नगरजनाः अपि समुपस्थिताः । उपस्थितैः सर्वैः जनैः बालकाय आशीर्वादाः प्रदत्ताः ।
 
नामविषयिक्यां चर्चायां राजा जितारिः उवाच यत् – “अस्मिन् वर्षे राज्यस्य अर्थागमः सर्वाधिकः वर्तते । अस्मिन् वर्षे सस्यानि अपि राज्यस्येतिहासे सर्वाधिकानि जातानि । मन्ये यत् – अनेन बालकेन एव एतत्सर्वं सम्भवम् अभवत् । अतः अस्य नाम सम्भवनाथः योग्यः” इति । नामचयने सर्वेषां सम्मतिः आसीत् । तदा बालकस्य सम्भवनाथः इति नामकरणम् अभवत् <ref> तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 57</ref>।
 
मुनि श्रीजयानन्द विजय इत्याख्येन विरचिते पुस्तके भिन्नमतं प्राप्यते यत् – “यदा भगवान् गर्भे आसीत्, तदा राज्ये शिम्बाः (मुद्गाः, बीजगुप्तिका, नुद्गाः च ) अधिकमात्रायां समुद्भविताः आसन् । अतः सम्भनाथः इति नाम कृतम् <ref> तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 53</ref>।
 
===[[विवाहसंस्कारः|विवाहः]]===
 
यदा सम्भवनाथेन यौवनत्वं सम्प्राप्तं, तदा राजा जितारिः सुयोग्यकन्याभिः सह तस्य [[विवाहसंस्कारः|विवाहम्]] अकारयत् । अनन्तरं जितारिणा तस्मै राज्यस्य दायित्वमदीयत । अनन्तरं जितारिणा शासनात् निवृत्तिः सम्प्राप्ता ।
 
==राज्यम्==
 
युवावस्थायां राजशासनं प्राप्ते सत्यपि भगवान् अजितनाथः अनासक्तः आसन् । सः केवलं कर्त्तव्यभावनया एव राज्यस्य सञ्चालनं करोति स्म । तस्य शासनकाले राज्ये सर्वत्र शान्तिः आसीत् । कस्यापि वस्तुनः अभावः नासीत् । प्रजा अपि सुखेन जीवनं यापयति स्म । चतुर्दिक्षु समृद्धिः दृश्यमाना भवति स्म । सम्भवनाथः ४४ लक्षं वर्षाणि पूर्वं यावत् शासनं कृतवान् आसीत् <ref> तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 53</ref>।
 
===राजत्यागः, दीक्षा च===
 
सम्भवनाथेन स्वस्मै पुत्राय सम्पूर्णराज्यस्य दायित्वम् अदीयत । अनन्तरं सः वार्षिकीदानाय तत्परः अभवत् । भगवतः अभिनिष्क्रमणस्य सन्देशं प्राप्य बहवः राजानः, राजकुमाराः च विरक्ताः अभवन् । ते अपि गृहं त्यक्तुं सज्जाः अभवन् ।
 
भोगावलिकर्मणां समाप्त्यनन्तरं भगवता वार्षिकीदानस्य आरम्भः कृतः । सम्पूर्णराज्यस्य जनाः दानं स्वीकर्तुं गच्छन्ति स्म । एकवर्षं यावत् भगवान् सम्भवनाथः दानं कृतवान् आसीत् ।
 
[[मार्गशीर्ष]]<nowiki/>-मासस्य शुक्लपक्षस्य [[पौर्णिमा]]<nowiki/>यां तिथौ एकसहस्रराजभिः, राजकुमारैः च सह सम्भवनाथः सहस्राम्रनामकं वनम् अगच्छत्<ref> तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 47</ref> । तस्मै चतुर्थः मनःपर्यवज्ञानस्य प्राप्तिः अभवत् । प्रत्येकस्मै तीर्थङ्कराय दीक्षया सह चतुर्थः मनःपर्यवज्ञानस्य प्राप्तिर्भवति एव । इदं ज्ञानमुपयुज्य सर्वेषां जीवानां मनोभावाः ज्ञातुं शक्यते ।
 
दीक्षायाः दिने भगवतः चौविहारषष्ठयाः तपः प्रचलन् आसीत् । भगवान् सम्भवनाथः चतुर्दशवर्षाणि यावत् मुनेः अवस्थायाम् एव भ्रमन् आसीत् । तेन सर्वाणि इन्द्रियाणि जितानि । भ्रमन् भ्रमन् सः अन्ते पुनः सावत्थीनगरीं सम्प्राप्तवान् ।
 
सावत्थीनगर्यामेव तेन छद्मस्थकालस्य अन्तिमः चातुर्मासः कृतः । आश्विन-मासस्य कृष्णपक्षस्य पञ्चम्यां तिथौ सम्भवनाथेन केवलज्ञानं प्राप्तम्<ref> तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 58</ref> ।
 
इन्द्रादयः देवाः अपि तत्र समुपस्थिताः । सर्वैः देवैः केवलमहोत्सवः आचरितः । यदा जनैः भगवतः सर्वज्ञतायाः सन्देशः प्राप्तः, तदा सर्वे जनाः भगवतः दर्शनार्थम् उद्यानम् आगतवन्तः । भगवान् सम्भवनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविका च) स्थापनाञ्चकार <ref> तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 58</ref>।
 
===धार्मिकः परिवारः===
 
यदा भगवान् चतुर्विधसङ्घस्य स्थापनां कृतवान्, तदा तेन तस्य धार्मिकपरिवारः अपि सर्जितः <ref> तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 54</ref>।
# १०२ गणधराः
# १५,००० केवलज्ञानिनः
# १२,१५० मनःपर्यवज्ञानिनः
# ९,६०० अवधिज्ञानिनः
# १९,८०० अवैक्रियलब्धिधारिणः
# २,१५० चतुर्दशपूर्विणः
# १२,००० चर्चावादिनः
# २,००,००० साधवः
# ३,३६,००० साध्व्यः
# २,९३,००० श्रावकाः
# ६,३६,००० श्राविका
==निर्वाणम्==
 
भगवान् सम्भवनाथः आर्यजनपदि दीर्घकालं यावत् विचरणं कृतम् । तस्मिन् अन्तराले भगवता लक्षाधिकानां जनानाम् उद्धारः कृतः । यदा स्वस्य महाप्रयाणस्य ज्ञानम् अभवत्, तदा सम्भवनाथेन सहस्रसाधुभिः सह सम्मेदशिखरे जलान्नत्यागः कृतः । शुक्लध्यानस्य चतुर्थचरणं सम्प्राप्य तेन क्रियामात्रस्य विच्छेदं कृतम् । अन्ते सः सिद्धत्वं प्रापत् ।
 
[[चैत्र]]<nowiki/>-मासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ भगवतः सम्भवनाथस्य निर्वाणम् अभवत्<ref> तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 58</ref> ।
 
==अधिकवाचनाय==
 
* [http://hi.encyclopediaofjainism.com/index.php?title=%E0%A5%A6%E0%A5%A9._%E0%A4%B8%E0%A4%82%E0%A4%AD%E0%A4%B5%E0%A4%A8%E0%A4%BE%E0%A4%A5_%E0%A4%AD%E0%A4%97%E0%A4%B5%E0%A4%BE%E0%A4%A8_%E0%A4%95%E0%A4%BE_%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%9A%E0%A4%AF श्री संभवनाथ भगवान]
 
{{जैनतीर्थङ्कराः}}
 
==सम्बद्धाः लेखाः==
 
# [[जैनधर्मः]]
# [[दिगम्बरः सम्प्रदायः]]
# [[श्वेताम्बरः सम्प्रदायः]]
# [[भिक्षुः आचार्यः]]
# [[पुराणानि]]
 
==बाह्यसम्पर्कतन्तुः==
 
* [http://hi.bharatdiscovery.org/india/%E0%A4%B8%E0%A4%82%E0%A4%AD%E0%A4%B5%E0%A4%A8%E0%A4%BE%E0%A4%A5 भारत डिस्कवरी - संभवनाथ]
* [http://hindi.webdunia.com/jain-religion/%E0%A4%9A%E0%A5%8C%E0%A4%AC%E0%A5%80%E0%A4%B8-%E0%A4%A4%E0%A5%80%E0%A4%B0%E0%A5%8D%E0%A4%A5%E0%A4%82%E0%A4%95%E0%A4%B0-%E0%A4%94%E0%A4%B0-%E0%A4%89%E0%A4%A8%E0%A4%95%E0%A5%87-%E0%A4%9A%E0%A4%BF%E0%A4%B9%E0%A5%8D%E0%A4%A8-112092100011_1.htm चौबीस तीर्थङ्कर ]
* [http://www.jaindharmonline.com/hindi/htirthan/htirthan_index.htm तीर्थङ्कर]
* [http://hi.encyclopediaofjainism.com/index.php?title=%E0%A4%B8%E0%A4%82%E0%A4%AD%E0%A4%B5%E0%A4%A8%E0%A4%BE%E0%A4%A5 सम्भवनाथ]
 
==सन्दर्भाः==
 
{{Reflist}}
 
[[वर्गः:जैनतीर्थङ्कराः]]
"https://sa.wikipedia.org/wiki/सम्भवनाथः" इत्यस्माद् प्रतिप्राप्तम्