"सत्येन्द्रनाथ बसु" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १९:
<br />
<br />
'''सत्येन्द्रनाथबसुवर्य''': एक: [[भारतम्|भारतीय:]] भौतिकगणितशास्त्रयोः तज्ञ:, यश्च: बसु-[[अल्बर्ट् ऐन्स्टैन्|ऐन्स्टैन्]] साङ्खिकाया: संशोधने प्रसिद्ध: जात: अस्ति |
 
== आरम्भिकजीवनं, तथा पठनम् ==
बसुवर्य: कोलकातानगरे [[कोलकाता|कोलकाता]]नगरे १८९४ तमवर्षस्य जनवरीमासस्य प्रथमे दिनाङ्के जात: | स: सुरेन्द्रनाथबसुवर्यस्य सप्त पुत्रेषु ज्येष्ठपुत्र: | तस्य पिता 'ईस्ट् इण्डिया रेल्वे कम्पनि' इत्यस्या: संस्थाया: 'एन्जिनियरिङ्ग्' विभागे कार्यं वहति स्म | बसुवर्य: कोलकातानगरे विद्यमानायां हिन्दुशालायां स्वस्य प्राथमिकशिक्षणं प्राप्य तदनन्तरं 'प्रेसिडेन्सी' कलाशालायां मेघनादसाहामहोदयेन सह पठितवान् | तत्र [[जगदीश चन्द्र बसु|जगदीशचन्द्रबसु:]], [[प्रफुल्लचन्द्र राय|प्रफ़ुल्लचन्द्रराय:]], इत्यादय: महान्त: आचार्या: तौ प्रेरितवन्त: | प्रौढशालायाम् अपि च कलाशालायां स: उत्तमान् अङ्कान् प्राप्तवान् | १९१६त: १९२१ पर्यन्तं स: कोलकाता- विश्वविद्यालयस्य भौतिकशास्त्रविभागे पाठितवान् | तदा तस्य मित्रेण [[मेघनाद साहा|'मेघनाद साहा']] महभागेन सह [[जर्मन् भाषा|जर्मन्-भाषां]] पठित्वा ऐन्स्टैन् महोदयस्य 'सापेक्षता सिद्धान्तस्य'(The theory of relativity) जगति प्रथमाङ्ग्लानुवादम् कृतवान् । १९२१ तमे वर्षे इदानीं [[बाङ्गलादेशः|बाङ्ग्लादेशे]] विद्यमाने, तदानीन्तननूतने ढाकाविश्वविद्यालये[[ढाका|ढाका]]विश्वविद्यालये भौतिकशास्त्रविभागे[[भौतिकशास्त्रम्|भौतिकशास्त्र]]विभागे कार्यम् ऊढवान् |
 
१९२४ तमे वर्षे, यदा बसुवर्य: ढाकाविश्वविद्यालयस्य भौतिकशास्त्रविभागे 'रीडर्' स्थाने कार्यं कुर्वन् आसीत्, तदा स: प्लाङ्क् सिद्धान्तस्य प्राचीनभौतिकस्य सिद्धान्तानाम् उपयोगं विना केवलं कणानाम् अवस्थानां गणनाया: एकां नूतनां विधिम् उपयुज्य, व्युत्पत्तिम् विवृण्वन् एकं लेखं लिलेख | किन्तु वैज्ञानिकपत्रिकासु अस्य प्रकाशने असफल: स: तं लेखं [[अल्बर्ट आइन्स्टाइन]] प्रति प्रेषयामास | ऐन्स्टैन्वर्य: तल्लेखस्य प्रामुख्यं ज्ञात्वा स्वयं तस्य जर्मन् भाषया अनुवादं कृत्वा 'ज़ाइट् श्रिफ़्ट् फ़्यूर् फुज़ीक्' अबिधे अतिश्रीलभौतिकशास्त्रपत्रिकायां बसुवर्यस्य नाम्ना प्रकाशयामास । तदनन्तरं बसुमहाभगस्य तत् नूतनं गणनविधानं 'बसु-ऐन्स्टैन् शकलसंख्याशास्त्रम् '(Bose-Einstein quantum statistics) इत्येव प्रख्यातम् अभवत् | अनया प्रत्यभिज्ञतया बसुवर्य: प्रथमवारं भारतात् बहि: गन्तुं शक्त: भूत्वा, वर्षद्वयं यूरोप् मध्ये लूयि डि ब्राय्, मेरी क्यूरी, [[अल्बर्ट आइन्स्टाइन]] इत्यादि-प्रमुखवैज्ञानिकै: सह संशोधनं चकार |
"https://sa.wikipedia.org/wiki/सत्येन्द्रनाथ_बसु" इत्यस्माद् प्रतिप्राप्तम्