"सत्येन्द्रनाथ बसु" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २६:
१९२४ तमे वर्षे, यदा बसुवर्य: ढाकाविश्वविद्यालयस्य भौतिकशास्त्रविभागे 'रीडर्' स्थाने कार्यं कुर्वन् आसीत्, तदा स: प्लाङ्क् सिद्धान्तस्य प्राचीनभौतिकस्य सिद्धान्तानाम् उपयोगं विना केवलं कणानाम् अवस्थानां गणनाया: एकां नूतनां विधिम् उपयुज्य, व्युत्पत्तिम् विवृण्वन् एकं लेखं लिलेख | किन्तु वैज्ञानिकपत्रिकासु अस्य प्रकाशने असफल: स: तं लेखं [[अल्बर्ट आइन्स्टाइन]] प्रति प्रेषयामास | ऐन्स्टैन्वर्य: तल्लेखस्य प्रामुख्यं ज्ञात्वा स्वयं तस्य जर्मन् भाषया अनुवादं कृत्वा 'ज़ाइट् श्रिफ़्ट् फ़्यूर् फुज़ीक्' अबिधे अतिश्रीलभौतिकशास्त्रपत्रिकायां बसुवर्यस्य नाम्ना प्रकाशयामास । तदनन्तरं बसुमहाभगस्य तत् नूतनं गणनविधानं 'बसु-ऐन्स्टैन् शकलसंख्याशास्त्रम् '(Bose-Einstein quantum statistics) इत्येव प्रख्यातम् अभवत् | अनया प्रत्यभिज्ञतया बसुवर्य: प्रथमवारं भारतात् बहि: गन्तुं शक्त: भूत्वा, वर्षद्वयं यूरोप् मध्ये लूयि डि ब्राय्, मेरी क्यूरी, [[अल्बर्ट आइन्स्टाइन]] इत्यादि-प्रमुखवैज्ञानिकै: सह संशोधनं चकार |
 
तद्वर्षद्वयानन्तरं १९२६ तमे वर्षे ढाकां प्रत्यागम्य ढाकाविश्वविद्यानिलये प्राध्यापक:, भौतिकशास्त्रविभागस्य अध्यक्ष: च अभवत् | १९४५ पर्यन्तं स: तस्मिन्नेव विश्वविद्यानिलये पाठितवान् | स: तद्विश्वविद्यानिलयस्य विज्ञानविभागस्य प्राध्यक्षस्य पदवीं चिरकालम् ऊढवान् | यदा भारतस्य विभजनं अनिवार्यम् अभवत्, तदा स: कोलकातां प्रत्यागम्य १९५६ पर्यन्तं पाठितवान्, यदनन्तरं स: सेवानिवृतिं प्राप्य 'प्रोफ़ेसर् ऐमेरिटस्' अभवत् | सः प्रान्तीयबाङ्ग्लाभाषया विज्ञानप्रचारं कर्तुं अपि प्रायतत। तस्य संस्कृतभाषाज्ञानमपि अतिव सम्यक् आसीत्। सः स्वस्य द्वादशवर्षे एव कालिदासस्य 'मेघदूतम्' अपठत् । बसुमहोदयः लन्डौ महाभागस्य 'क्रियाशीलता मापनसूचके'(Landau's scale) [[ऐसाक् न्यूटन्|न्यूट्न्]], वैनर् महाभागाभ्यां सह प्रथमश्रेणीं प्राप्तवान्। सः 'ऐस्राज्' नामक सङ्गीतवाद्यम् ज्ञातवान् ,अति सुश्राव्यं वादितवान् अपि।
एषः महोदयः १८७४ तमवर्षस्य फेब्रवरिमासस्य चतुर्थे दिनाङ्के दिवङ्गतः ।
 
"https://sa.wikipedia.org/wiki/सत्येन्द्रनाथ_बसु" इत्यस्माद् प्रतिप्राप्तम्