"सरस्वती देवी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १९:
{{हिन्दूधर्मः}}
 
[[ऋग्वेदः|ऋग्वेदे]] उल्लिखिता काचित् नदी एषा । '''सरः(जलम्) अस्त्यस्याः''' इति '''सरस्वती''' । सरणशीला एषा । सरणशीला इत्यनेन साङ्केतिकरीत्या '''वाक्''' उक्ता भवति । संस्कृता वाग् यत्र तत्र ऐश्वर्यं बुद्धिमत्ता च भवत्येव । सरस्वत्याः नामान्तराणि [[शारदा]], [[वागीश्वरी]], [[ब्राह्मी]], [[महाविद्या]] इत्यादीनि । सृष्टिकर्तुः [[ब्रह्मा|ब्रह्मणः]] पत्नी एषा। सृष्टिकार्याय ज्ञानम् आवश्यकम् । ब्रह्मणः सरस्वत्या विवाहः तस्य तज्ज्ञानप्राप्तिं सूचयतीव । पद्मे स्थिता एषा एकेन हस्तेन पुस्तकं द्वितीयेन पद्मम् अक्षमालां च धरति । तृतीयेन चतुर्थेन च वीणां वादयति च । पद्मं सत्यस्य द्योतकम् । अतः एषा सत्ये प्रतिष्ठिता । हस्ते गृहीतेन पद्मेन एषा ‘मानवेन प्राप्तव्यम् आत्मज्ञानम्’ इति सूचयति इव । अक्षमाला तपसः, योगस्य, जपस्य च द्योतिका भवति ।
 
== ज्ञानदात्री ==
एषा देवी सर्वस्य ज्ञानस्य, [[कलाः|कलानां]], [[विज्ञानम्|विज्ञानस्य]] च मूर्तं रूपम् उच्यते । अज्ञानम् अन्धकार इव कृष्णवर्णं ज्ञानं तु शुक्लवर्णम् । ज्ञानदायिनी सरस्वती शुक्लवर्णा शुक्लवस्त्रधारिणी च । अस्याः वाहनद्वयं [[हंसः]] मयूरश्च[[मयूरः|मयूर]]श्च । चित्रेण पिच्छकलापेन [[मयूरः]] विचित्राणि प्रापञ्चिकसुखानि मानवं कथं मुक्तिपथात् दूरं विकृष्य अविद्यायाः कारणं भवेयुः इति सूचयतीव । नीरक्षीरविवेकवान् हंसस्तु परविद्यया एव [[मोक्षः]] इति वदतीव । परमात्मप्राप्तये स्वतन्त्रौ द्वौ मार्गौ स्तः – ‘[[ज्ञानमार्गः]]’ ‘[[भक्तिमार्गः]]’ चेति । अनयोः हस्तेन धृतेन पुस्तकेन ज्ञानमार्गं दर्शयति देवी । तथैव च वीणया भक्तिमार्गं दर्शयति । भक्तिमार्गेण आत्मदर्शनं भवति । भजनेन कीर्तनेन वा एकाग्रभक्तिः जायते तद्द्वारा परमात्मनि लीनो भवति पुरुषः ।
 
== आराधनफलम् ==
"https://sa.wikipedia.org/wiki/सरस्वती_देवी" इत्यस्माद् प्रतिप्राप्तम्