"मीमांसादर्शनम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[चित्रम्:Yajna1.jpg|thumb|यज्ञप्रक्रिया]]
'''मीमांसादर्शनं''' (Mīmāṃsā) [[भारतीयदर्शनशास्त्रम्|भारतीयदर्शनेषु]] अन्यतमम् । इदं दर्शनं मूलतः अनीश्वरवादि दर्शनमस्ति । यद्यपि कतिपये विचारका मीमांसादर्शनं दर्शनरूपेण स्वीकर्तुं विवदन्ति तथापि वेदानां कर्मपरतां व्याख्यां धर्मस्वरूपविचारं च दृष्ट्वाऽमुष्यदर्शनस्वरूपे आपत्तिर्नास्ति । इतरदर्शनेष्विव मीमांसादर्शनेऽपि आत्मतत्त्वस्य विचारो विहितः । अतो यथा उत्तरमीमांसायाम् अर्थात् वेदान्ते आत्मेश्वरयोः प्रतिपादनात् दार्शनिकता स्थिरीक्रियते तथा पूर्वमीमांसायामपि तादृशविवेचनात् दार्शनिकताऽवश्यमेव स्वीकार्या ।
 
''मन्'' धातोर्निष्पन्नो ''मीमांसा'' शब्दः पूज्यविचार-यथार्थवस्तुरूप-अनुसन्धानादिषु अर्थेषु गृह्यते । [[वेदः|वेदस्य]] कर्मसिद्धान्तानुगतव्याख्या मीमांसादर्शनस्य प्रधानलक्ष्यमस्ति । दर्शनशास्त्रे वेदस्य रूपद्वयं प्रसिद्धमस्ति –कर्मकाण्डः ज्ञानकाण्डश्चेति । ज्ञानकाण्डः उत्तरमीमांसाया विषयोऽस्ति, यत्र वेदस्य ज्ञानपरकं विश्लेषणं कृतम् । किन्तु कर्मकाण्डः पूर्वमीमांसायाः विषयो वर्तते, अतः '''पूर्वमीमांसा''' एव कर्ममीमांसा इत्यपि कथ्यते ।
"https://sa.wikipedia.org/wiki/मीमांसादर्शनम्" इत्यस्माद् प्रतिप्राप्तम्