"विश्व रेड्क्रास दिनम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २४:
| footnotes =
}}
प्रतिवर्षं विश्वे मेमासस्य अष्टमे दिने '''विश्व रेड्क्रास् दिनम्''' आचरन्ति । मानवानां वेदनां पीडां, दुः खं निवारयितुं कृतसङ्कल्पं विश्वसंस्थाविभागः एव अन्ताराष्ट्रिय रेडक्रास् । दुःखमिवारणंदुःखनिवारणं, शान्ति स्थापनं च अस्याः संस्थायाः प्रमुखं कार्यमस्ति ।
 
[[चित्रम्:Flag of the Red Cross.svg|100px|right|border]]
 
१८५९ तमे वर्षे जून मासे जीन् हेन्री डुनाण्ट् इति स्विझरलैण्डदेशस्य एकः वाणिजकः फ्रान्स् देशं आगतवान् । तस्यागमनोद्देश फ्रान्सदेशे तृतीयनेपोलियन्महाभागेन सन्दर्शनम् आसीत् । तदा अस्स्ट्रियन् जनानां फेञ्चफ्रेञ्च सार्डिनियन् जनानां मध्ये युध्दं समाप्तमासीत् । डुनान्ट् महोदयः इटलीदेशस्य साल्नेरिवेन नगरं प्रविष्टवान् । सर्वत्र सैनिकाः क्षतहताः वेदनाम् अनुभवन्तः दृष्टाः स्त्रियः सैनिकानां सेवायां निरताः आसन् । डुनण्ट् महोदयः अपि बहु दुःखितः सैनिकानां सेवां कर्तुं प्रविष्टवान् । सर्वेषां सैनिकानां प्रथमचिकित्सार्थं योग्यं वस्त्रं पूरयितुं सूचितवान् । जलसेवनस्य अनुकूलतां कल्पितवान् । सैनिकानां क्षतानाम् उपचारं कृतवान् । पञ्चवारेषु नगरे स्थितिः उत्तमा सञ्जाता । सैनिकाः व्रणमुक्ताः अभवन् । तदा डुनाण्टो महोदयस्य मनसि “ युध्दं भवति चेत् एतत् दुःखं सामान्यमेव । एतादृशे प्रसङ्गे उपकारकः उपायः चिन्तनीयः । पीडितानां दुःखितानां क्षतहतानां साहाय्याय एका सस्थ अनिवार्यास्ति” । इति चिन्तितवान् । स्वस्य अनुभवं ‘ए मेनोटि आफ साल्छेटिनो” इति पुस्तके प्रकटनं कृतवान् ।
 
युरोप्[[यूरोप्|यूरोप्]] खण्डे एतत् पुस्तकम् अतीव प्रभावपूर्णं कार्यामकरोत् । [[जिनीवा|जिनेवा]] नगरस्य एकःन्यायवादी गुस्तेव मोयदीद् डुनाण्ट महोदयस्य कार्ये मिलितवान् । अनेन १८६३ तमे वर्षे शाश्वततया अन्ताराष्ट्रिय रेडक्रास् संस्थां स्थापितवन्तौ । स्विझरलैण्डदेशः[[स्विट्झर्ल्याण्ड्|स्विझरलैण्ड]]देशः युध्दप्रियः नासीत् । तटस्थदेशः आसीत् । अस्याः संस्थायाः मुख्योद्देशः युध्देन पीडितानां कष्टनिवारणं साहाय्यदानं चासीत् । १८६४ तमे वर्षे अन्ताराष्ट्रियसभया सर्व सैनिकानां क्षतहतानां साहाय्यदानार्थं अनुमतिः दत्ता स्वीय संस्थायाः सदस्य देशानां जनानामपि सैनिकानां सेवायै अवकाशः कल्पितः अभवत् । संस्था स्वकीयं ‘+’ चिह्नं च स्वीकृतवती । अन्ताराष्ट्रिय संस्थायाः ‘रेडक्रास् सोसाइटी’ इति नाम अभवत् । क्रमेण विश्वे अनेके देशाः रेडक्रासअन्ताराष्ट्रिय समित्याः सदस्याः अभवन् । द्वयोः महायुध्दयोः अस्याः संस्थायाः कार्येषु अनेके देशाः अपि सम्मिलिताः अभवन् ।युध्दे बन्धितानां वस्त्रं आहारं च एषा संस्था पूरणं अकरोत् । सैनिकानां परिवार जनानां वार्ता प्रेषण कार्यमपि अकरोत् । इदानीमपि रेडक्रास् संस्था शान्तिस्थापनार्थं नैसर्गिकविपत्तिषु भूकम्पप्रवाहचण्डमारुतदुर्घटनादिषु प्रवृत्तासु सम्पूर्णतया साहाय्यं करोति ।
 
पर्षियादेशे[[ईरान|पर्षिया]]देशे स्थिता रेड्लयन्संस्था मातुः शिशोः च क्षेमरक्षणकार्यं करोति । प्रकृतिविकोपः विश्वे कुत्रापि भवतु रेडक्रास् संस्था तत्रोत्तमं कार्यं करोति । अस्याः सस्थायाः साहाय्यार्थम् अनेकदेशाः धनराशिं ददति । अन्ताराष्ट्रियाः अन्यसंस्थाः अपि साहाय्यं यच्छन्ति । इदानीन्तन काले ग्रामेषु नगरेषु च आकस्मिकः अपघातः, अग्निदाहः, अधिकवर्षेण प्रवाहभीतिः इत्यादिप्रसङ्गेषु दुःखितानां चिकित्सार्थं चिकित्सालयाः स्थापिताः सन्ति । बालानां च प्रथमचिकित्साज्ञानार्थं प्रशिक्षणदानं च करोति । वाहननिर्वाहकानां चालकानां शिक्षकाणां स्काड्ट् स्कौट् गाइड् .एन्. सी.सी. सङ्घटनायां स्थितानां च प्रयमचिकित्साविषये रेडक्रास् संस्था प्रशिक्षणं ददाति ।
 
उदात्तोद्देशेन डुनाण्ट्महोदयेन स्थापिता संस्था आधुनिककाले समाजस्य उत्तमसेवाकार्यं सततं करोति । जनाः अपि एतादृशप्रसङ्गे निस्वार्थतया सेवारुपेण कार्यं कर्तुम् आगच्छन्ति ।
"https://sa.wikipedia.org/wiki/विश्व_रेड्क्रास_दिनम्" इत्यस्माद् प्रतिप्राप्तम्