"तिरुवनन्तपुरम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ९९:
वलियतुरायाम् ।
 
'''तिरुवनन्तपुरम्''' [[केरळम्|केरळ]]राज्यस्‍य राजधानी अस्‍ति । इदम् एकं सुरम्‍यं नगरम् अस्‍ति । अत्र अनन्तशायिनः श्रीविष्‍णोः मन्दिरम् अत्यन्तं प्रसिद्धम् अस्ति ।
अत्रत्य जनसंख्या ९००,००० परिमिता अस्‍ति । केरलराज्यस्य राजधानी तिरुवनन्तपुरजनपदस्य आस्थानं च भवति तिरुवनन्तपुरम् । भारतस्य पश्चिमतीरे दक्षिणाग्रे इदं नगरं विराजते । उन्नतावनतभूम्या अतिवेगयुक्तमार्गैः अनलसवाणिज्यमेखलया च सम्पन्नं भवतीयं सुन्दरनगरी । अस्माकं राष्ट्रपतिमहाभागेन महात्मागान्धिवर्येण '''नित्यहरितनगरम्''' इति तिरुवनन्तपुरमुद्दिश्य कथितम् । २०११ तमवर्षस्य गणनानुसारम् अस्मिन् नगरे १०००००० जना: वसन्ति । केरलराज्यस्य अत्यधिकजनसान्द्रतायुक्तनगरम् इदमेव ।
==तिरुवनन्तपुरस्य विशेषा (०४७१)==
केरळराज्यस्य राजधानीस्थाने स्थितम् एतत् नगरम् त्रिवेण्ड्रम् इत्यपि ख्यातम् अस्ति । भारते दक्षिणपूर्वप्रदेशे अरब्बीसागरपश्चिमघट्टयोः मध्ये सप्तपर्वतानाम् उपरि विद्यमानम् एतत् नगरं रमणीयम् अस्ति । अस्य पौराणिकं नाम शयना नन्दूरपुरमिति ।
"https://sa.wikipedia.org/wiki/तिरुवनन्तपुरम्" इत्यस्माद् प्रतिप्राप्तम्