"कुसुमकन्दरराष्ट्रियोद्यानम्" इत्यस्य संस्करणे भेदः

प्राप्यते
No edit summary
पङ्क्तिः १६:
}}
 
'''कुसुमकन्दरराष्ट्रियोद्यानं ''' (Valley of Flowers National Park) [[भारतम्|भारतस्य]] [[उत्तराखण्डराज्यम्|उत्तराखण्डराज्यस्य]] राष्ट्रियोद्यानम् । हिमालयस्य पश्चिमभागस्य उन्नतप्रदेशे विद्यमानम् एतत् उद्यानं प्राकृतिकसौन्दर्यस्य स्थानम् । अत्र शताधिकजातीयानां कुसुमानां सहजोद्यानम् अस्ति । जीववैविध्यस्य आवासस्थाने कुसुमकन्दरोद्याने कृष्णभल्लूकाः, हिमचित्रकाः, पिङ्गलभल्लूकाः, निलमेषाः इत्यादयः निवसन्ति । उद्यानस्य उन्नतभूप्रदेशः निबिडं दरियुक्तं नास्ति । अस्य राष्ट्रियोद्यानस्य विस्तीर्णं ८७.५० च.की.मी. अस्ति । कुसुमकन्दरराष्ट्रियोद्यानं पश्चिमहिमालयस्यपश्चिम[[हिमालयः|हिमालयस्य]] जीवसङ्कुलस्य प्रतिनिधिः अन्ताराष्ट्रियस्तरे महत्वपूर्णम् अस्ति । अत्र विद्यमानेषु जीवसङ्कुलेषु बहवः विनाशपथे सन्ति । अत्र विद्यमानाः काश्चन जातयः [[उत्तराखण्डराज्यम्|उत्तराखाण्डराज्यस्य]] अन्यस्थानेषु [[नन्दादेवी-उद्यानम्|नन्दादेवीराष्ट्रियोद्याने]] वा न दृश्यन्ते । [[हिमालयः|हिमालयस्य]] अन्यप्रदेशेषु लभ्यमानानाम् औषधमूलानाम् अपेक्षया अत्र अधिकानि लभ्यन्ते । सप्तजातीनां पक्षयः अत्र व्याप्ताः । कुसुमकन्दरोद्यानं क्रि.श. [[१९८२]]तमे वर्षे राष्ट्रियोद्यानम् इति उद्घुष्टम् । [[उत्तराखण्डराज्यम्|उत्तराखण्डराज्यस्य]] [[गढवाल् हिमालयः|गडवालप्रदेशेस्य]] उन्नतस्थाने विद्यमानम् एतत् उद्यानं वर्षे सर्वदा गन्तुं न शक्यते । अस्य उद्यानस्य अत्युन्नतं स्थानं नाम ६७१९मी. उन्नतः गौरी पर्वतः । कुसुमकन्दरोद्याने न कापि जनवसतिः विद्यते । पालितपशूनां चारणं तत्र निषिद्धम् । जून्मासतः अक्टोबर्मासपर्यन्तम् अयं प्रदेशः हिमेन आवृतः भवति ।
 
==पर्वतारोहणम्==
"https://sa.wikipedia.org/wiki/कुसुमकन्दरराष्ट्रियोद्यानम्" इत्यस्माद् प्रतिप्राप्तम्