"विशिष्टाद्वैतवेदान्तः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३:
 
==इतिहासः==
विशिष्टाद्वैतस्य सिद्धान्तस्य समर्थने त्रयः आचार्याः मुख्याः । ते क्रमशः [[नाथमुनिः]], [[यामुनमुनिः]], [[रामानुजाचार्यः]] च भवन्ति । नाथमुनेः कालः क्रि.श.९ शतमानस्य उत्तरार्धम् इति । अनेन रचिताः ग्रन्थाः नैवोपलभ्यन्ते । यमनमुनिः क्रि.श. १०५० तमे संवत्सरे आसीत् । अयं नाथमुनेः पौत्रः भवति । अस्य सिद्धान्तस्य निर्दिष्टस्वरूपम् एषः एव दत्तवान् । आगमप्रामाण्यम्, सिद्धित्रयम्, गीतार्थसङ्ग्रहः, स्तोत्ररत्नादयः ग्रन्थाः अनेनैव रचिताः । अस्य समनन्तरं रामानुजाचार्यः अस्य मतस्य प्रचारं सुस्थापनञ्च कृतवान् । अस्य कालः क्रि.श. १०१७-११३७ (शतकमिति) भवति। अनेन रचिताः ग्रन्थाः श्रीभाष्यम्, वेदान्तसारः, वेदान्तदीपम्, वेदार्थसङ्ग्रहः, भगवद्गीताभाष्यादयः भवन्ति । एतैः ग्रन्थैः स्वोपदेशेन च एनं सिद्धानतं समर्थितवान् अस्ति [[रामानुजाचार्यः]] । अनेन यशोऽपि प्राप्तः । अतः अस्यैव सिद्धान्तस्य नाम ’रामानुजदर्शनम्’ इत्यपि ख्यातिः अस्ति ।अस्य मतानुसारेण चेतनाचेतनात्मकं जगत् परमात्मनः शरीरं भवति,परमात्मनः चिदचिदो च '''शरीरात्मभावः'''सम्बन्धः भवति ।'''जगत् सर्वं शरीरं ते''' (१)इति शास्त्रकथनेन सर्वस्यापि परमात्मा शरीरमस्ति इति युज्यते। रामानुजाचार्यस्य समनन्तरं नैके दर्शनिकाः ग्रन्थान् रचितवन्तः । केचन ग्रन्थाः न प्राप्ताः। तथापि केचन विशिष्ठाः ग्रन्थाः उपलभ्यन्ते । ग्रन्थरचयितारः प्रसिद्धाः दार्शनिकाः च एते भवन्ति,
 
{| class="wikitable"
"https://sa.wikipedia.org/wiki/विशिष्टाद्वैतवेदान्तः" इत्यस्माद् प्रतिप्राप्तम्