"केनोपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Om buttom.svg|thumb|]]
'''केनोपनिषत्''' (Kenopanishat) प्राचीनासु दशसु उपनिषत्सु अन्यतमा । अस्यां ३४ मन्त्राः विद्यन्ते । अस्याः [[उपनिषद्|उपनिषदः]] प्रमुखः विषयः भवति [[ब्रह्मविद्या-उपनिषत्|ब्रह्मविद्या]] । परब्रह्मस्वरूपः परमात्मा इन्द्रियातीतः[[इन्द्रियाणि|इन्द्रिया]]तीतः, सः एव सर्वप्रेरकः इत्ययं विषयः समीचीनतया वर्णितः वर्तते । ब्रह्मज्ञानिनः लक्षणानि कानि इत्येतं विषयं मनोरञ्जकरीत्या विरोधाभासयुक्तैः वचनैः वर्णितवन्तः सन्ति । कापि देवता न स्वतन्त्रा, सर्वाः देवताः परब्रह्मणा प्रेरिताः इत्ययं सिद्धान्तः अत्र प्रदर्शितः अस्ति । 'एकं सद्विप्रा बहुधा वदन्ति' इत्यस्य वा 'एकमेवाद्वितीयम्' इत्यस्य श्रुतिवाक्यस्य मनोहरं व्याख्यानरूपं वर्तते केनोपनिषत् । परमसत्यम् एकमेव विद्यते, तच्च अतीन्द्रियं विद्यते इत्येतत् तत्त्वद्वयमेव अत्र कविभिः चर्चितः प्रमुखः विषयः ।
 
द्वितीयं खण्डं चतुर्थखण्डस्य द्वित्रान् श्लोकान् विहाय अवशिष्टभागेषु भाषा अतीव सरला विद्यते । द्वितीयखण्डस्य क्लेशस्य हेतुः भवति तत्र उपयुक्ता सङ्क्षेपपद्धतिः । चतुर्थखण्डस्य क्लेशस्य मूलं भवति तत्र उपयुक्तानि पारिभाषिकपदानि ।
पङ्क्तिः १८:
 
==प्रथमखण्डः==
इयमुपनिषत् सामवेदीयतलवकारब्राह्मणे[[सामवेदः|सामवेदी]यतलवकारब्राह्मणे नवमाध्यायान्तर्गता । अस्यां परब्रह्मतत्त्वचिन्तनं गुरुशिष्ययोः प्रश्नप्रतिवचनद्वारा क्रियते । केन इति प्रश्नपूर्वकम् आरभ्यते इति कारणात् इदं नाम । इह जिज्ञासुः शिष्यः गुरुं पृच्छति, केनेषितं पतति इत्यनेन मनुष्यस्य यानि जडरूपाणि कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि च उभयविधानि भवन्ति, एतेषां शब्दादिविषयेषु नियोगः केन क्रियते ? तदा गुरुः प्रत्युत्तरति – यः सर्वज्ञः सर्वव्यापी परमात्मा एव अत्र सर्वाणि इन्द्रियाणि नियुङ्क्ते तत्तद्विषयेषु सः एव श्रोत्रस्य श्रोत्रम्, मनसो मनः इत्यादिना सर्वजगतः मूलरुपः । एतत् तत्त्वं विदित्वा धीराः अमृताः भवन्ति ।
==द्वितीयखण्डः==
द्वितीयखण्डे तावत् आदौ शिष्यस्य अहं ब्रह्म सुवेद इत्याकारकदुरभिमानस्य निवारणार्थं यदि मन्यसे इत्यादिना आरभ्यते । यतः ब्रह्मणः पूर्णज्ञानमस्यां संसारदशायां न भवति । यदा च त्रिपुटिलयः भवति तदा एव । यः मतमिति वदति तस्य निश्चयेन अमतं ब्रह्म । सर्वबौद्धप्रत्ययेषु अनुस्यूतं ब्रह्मतत्त्वं यः वेत्ति सः अमृतत्वं प्राप्नोति । इह चेदवेदीत् इत्यनेन ब्रह्मजिज्ञासाकर्तव्यता मानवे जन्मनि एव इति निश्चीयते ।
"https://sa.wikipedia.org/wiki/केनोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्