"कावेरीनदी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १७:
=== द्वितीयाकथा ===
 
अन्यकथानुसारं सः प्रदेशः जलविहीनः आसीत् । जलक्षामस्य दूरीकरणार्थं अगस्त्यमुनिः ब्रह्मणः आशिषा, [[शिवः|शिवेन]] पवित्रजलं कमण्डलौ स्वीकृत्य तत्र आगतवान् । तदा नद्याः निर्माणार्थम् उचितस्थानस्य अन्वेषणे रतः सः दक्षिणभागं प्रति प्रवासं कुर्वन् कोडगुप्रदेशस्य गिरिभागम् आगतवान् । मार्गे गमनसमये कञ्चन बालकं दृष्टवान् । सः वस्तुतः वेषान्तरितः गणेशः आसीत् । देहबाधापीडितः अगस्त्यः शौचार्थं स्थानं पश्यन् आसीत् । अतः सः तं बालकम् अवदत्, कमण्डलुं बालकस्य हस्ते दत्त्वा तस्य रक्षणं कर्तुम् उक्त्वा शौचार्थं गतवान् । गणेशः ’ मुनिः नद्याः उद्गमार्थं स्थानस्य अन्वेषणे रतः इति ज्ञातवान् आसीत् । गणेशः चिन्तितवान् एष एव प्रदेशः उचितः इति अतः सः कमडुलं भूमौ स्थापितवान् । तत्र एव उड्डयन् कश्चन काकः कमण्डलुं स्पृष्ट्वा उपाविशत् । तदा तत्र आगतः अगस्यमुनिः काकं दृष्ट्वा शीघ्रं तं धावयितुं प्रयत्तवान् । परन्तु कमण्डलुजलं निरस्यत् । लघुप्रमाणकं जलं धारारूपेण नदी भूत्वा प्रावहत् । [[तलकावेरी|तलकावेरी]] पवित्रं स्थानमस्ति । तत्र प्रतिदिनं पूजादिकं प्रचलति । [[महाभारतम्|महाभारत]]स्य आदिपर्वणि [[अर्जुनः]] तीर्थयात्राप्रसङ्गे अत्र आगत्य स्नातवान् इति उल्लिखितम् अस्ति । [[राजसूययागः|राजसूययागसमये]] [[नकुलः]] अत्र आगत्य जलं स्वीकृत्य गतवान् इति सभापर्वणि[[सभापर्व|सभापर्व]]णि निरूपितम् अस्ति ।
 
=== नदीपात्रम् ===
"https://sa.wikipedia.org/wiki/कावेरीनदी" इत्यस्माद् प्रतिप्राप्तम्