"युधिष्ठिरः" इत्यस्य संस्करणे भेदः

धर्मराजः
No edit summary
पङ्क्तिः १:
{{Merge from|युधिष्ठिरः|}}
'''युधिष्ठिरः''' पञ्चपाण्डवेषु ज्येष्ठः । [[पाण्डुः|पाण्डु]]महाराजस्य पुत्रः । [[कुन्ती]] अस्य माता । [[भीमः]], [[अर्जुनः]] च युधिष्ठिरस्य अनुजौ । [[नकुलः]] [[सहदेवः]] च युधिष्ठिरस्य विमातुः [[माद्री|माद्र्याः]] पुत्रौ । अयं युधिष्ठिरः [[यमः|यम]]धर्मराजस्य वरेण जन्म प्राप्नोत् । [[महाभारतम्|महाभारतस्य]] प्रमुखेषु पात्रेषु अन्यतमम् अस्ति युधिष्ठिरस्य पात्रम् । जीवने सर्वदा धर्माचरणं कुर्वन् युधिष्ठिरः "धर्मराजः" इत्येव प्रसिद्धः ।
महाराज: युधिष्ठिर: अपि भीष्म: इव अत्यन्तम् उच्चस्तरीय: महापुरुष: आसीत् । एष: साक्षात् धर्मस्य अंशत: जन्म प्राप्य मूर्तिमान् धर्मः इव आसीत् । अत: एव जना: एतं ‘धर्मराजः ’ इति आह्वयन्ति । एतस्मिन् धैर्यं, स्थिरता, सहिष्णुता, नम्रता, दयापरता अचलप्रीति: इत्यादय: अनेके अलौकिकगुणा: आसन् । एष: स्वस्य शीलस्य, सदाचारस्य, विचारशीलताया: च कारणत: बाल्ये एव अतीवलोकप्रिय: अभवत् । यदा एष: इतोऽपि लघुबाल: आसीत् तदा एव एतस्य पिता [[पाण्डु:]] स्वर्गस्थ: अभवत् । तदारभ्य एव एष: स्वस्य ज्येष्ठपितृव्यं धृतराष्ट्रं पिता इव बहु गौरवेण पश्यति स्म । तस्य कस्यापि आज्ञामपि न उल्लङ्घयति स्म । किन्तु [[धृतराष्ट्र:]] स्वस्य कुटिलस्वभावस्य कारणत: एतस्य गुणानां प्रशंसां श्रुत्वा श्रुत्वा मनसि एव करोति स्म । धृतराष्ट्रस्य पुत्र: [[दुर्योधन:]] एवं चिन्तितवान् ’ कथञ्चित् कतिपयदिनानि यावत् पाण्डवान् हस्तिनापुरत: दूरं प्रेषयाम: चेत् तेषाम् अनुपस्थितौ पित्रार्जित- अधिकारं स्वीकृत्य अहमेव राजा भविष्यामि’ इति । स: स्वस्य अन्धस्य, पितु: अङ्गीकारं प्राप्तवान् । धृतरष्ट्रः पाण्डवान् आहूय उत्सवदर्शनार्थं तान् वारणावताय प्रेषणस्य प्रस्तावं कृतवान् । एषा तस्य आज्ञा इति मत्वा आक्षेपं विना मात्रा कुन्त्या सह पञ्चसहोदरा: अपि वारणावतं गतवन्त: । तत्र एतेषां दहनं कर्तुं दुर्योधन: एकस्य लाक्षागृहस्य निर्माणं कृतवान् आसीत् । तस्मिन् एव गृहे ते निवसन्तु इति आग्रहः अपि कृतः । कनिष्ठपितृव्यस्य [[विदुरः|विदुरस्य]] साहाय्येन एते कथञ्चित् प्राणान् रक्षयित्वा तत: पलायितवन्तः । एते मृता: इति मत्वा कौरवा: हस्तिनापुरे अधिकारं गृहीतवन्तः । कतिपय- दिनानन्तरं [[द्रौपदी|द्रौपद्या:]] स्वयंवरे पाण्डवानां रहस्यस्य स्फोटनमभवत् । कौरवा: ज्ञातवन्तः यत् पाण्डवा: इतोऽपि जीवन्ति इति । तदा धृतराष्टः विदुरं प्रेषयित्वा पाण्डवान् हस्तिनापुरं प्रति आहूतवान् । स्वपुत्रै: सह तेषां कलहस्य निर्मूलनाय अर्धं राज्यं स्वीकृत्य खाण्डवप्रस्थे पाण्डवा: तिष्ठन्तु इत्येतं प्रस्तावं तेषां पुरत: उपस्थापितवान् । युधिष्ठिर: एतं प्रस्तावम् अपि अङ्गीकृतवान् । स: स्वसहोदरै: सह खाण्डवप्रस्थं गतवान् । तत्र ते इब्द्रप्रस्थनामिकां एकां पृथक् राजधानीं कृत्वा शासनम् आरब्धवन्तः । तत्रैव राजसूययज्ञमपि कृतवन्त: । ज्येष्ठा: राजान: आगत्य यज्ञे भागं गृहीत्वा अमूल्यानि उपायनानि दत्तवन्त: । युधिष्ठिरमेव चक्रवर्ति: इति अङ्गीकृतवन्त:।
"https://sa.wikipedia.org/wiki/युधिष्ठिरः" इत्यस्माद् प्रतिप्राप्तम्