"सुमतिनाथः" इत्यस्य संस्करणे भेदः

No edit summary
परिष्कारः
पङ्क्तिः १:
{{ infobox
| above = सुमतिनाथः
| abovestyle = background-color: Goldenrod
| subheader = पञ्चमः जैन[[तीर्थंकरःतीर्थङ्करः]]
| image1 = [[File:Sumatinath.jpg|220px]]
| caption1 = '''सुमतिनाथस्य प्रतिमा'''
पङ्क्तिः ३८:
}}
{{Infobox Jainism}}
'''सुमतिनाथः'''({{IPA audio link|सुमतिनाथः.ogg}}) ({{lang-hi|सुमतिनाथ}},{{lang-en|Sumatinatha}}) [[जैनधर्म]]<nowiki/>स्य चतुर्विंशति[[जैनतीर्थङ्कराः|तीर्थङ्करेषु]] पञ्चमतीर्थङ्करः अस्ति । सुमतिनाथस्य वर्णः सुवर्णः, चिह्नं क्रौञ्चः च अस्ति । कौमारावस्थायां सुमतिनाथस्य शरीरस्य औन्नत्यं त्रिशतंत्रिशत (३००) धनुर्मात्रात्मकम् आसीत् ।
 
==जन्म, परिवारश्च==
पङ्क्तिः ४४:
[[अयोध्या]]<nowiki/>नगर्यां [[वैशाख]]<nowiki/>-मासस्य शुक्लपक्षस्य [[अष्टमी|अष्टम्यां]] तिथौ मध्यरात्रौ [[मघा]]<nowiki/>नक्षत्रे भगवतः सुमतिनाथस्य जन्म अभवत् <ref> तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 65</ref>। सः काश्यपगोत्रीयः आसीत् ।
 
सुमतिनाथस्य पिता मेघः, माता मङ्गलावती च आसीत् । एकस्यां रात्रौ मङ्गलावत्या तीर्थङ्करसंकेतकाः चतुर्दश स्वप्नाः दृष्टाः । स्वप्नशास्त्रिभिः स्वप्नानां फलादेशः उक्तः यत् – “मङ्गलावत्याः कुक्ष्याः एकस्य तीर्थङ्करस्य जन्म भविष्यति” इति । स्वप्नशास्त्रीणांस्वप्नशास्त्रिणां वचनं श्रुत्वा सर्वे प्रसन्नाः अभवन् ।
 
गर्भकालस्य समाप्त्यनन्तरं भगवतः सुमतिनाथस्य जन्म अभवत् । चतुष्षष्ठीचतुष्षष्टिः इन्द्राः अपि जन्मोत्सवम् आचरितुं समागताः आसन् । राज्ञा मेघेन सम्पूर्णेराज्येसम्पूर्णे राज्ये दानं कृतम् । सम्पूर्णे राज्ये पुत्रजन्मनः उत्सवम्उत्सवः आचरितम्आचरितः आसीत् ।
 
===पूर्वजन्म===
 
पूर्वजन्मनि जम्बूद्वीपस्य पुष्कलावतीविजये भगवतः सुमतिनाथस्य जन्म अभवत् । तस्य पिता राजा विजयसेनविजयसेनः, माता सुदर्शना च आसीत् । राज्ञः विजयसेनस्य गृहे सन्ततिः नासीत् । तेन राज्ञी सुदर्शना चिन्ताग्रस्ता आसीत् ।
 
एकदा तौ अटितुम् उपवनं गतवन्तौ आस्ताम् । उपवने ताभ्यांताभ्याम् एका स्त्री दृष्टा । तस्याः स्त्रियः अष्टपुत्रवधवःअष्टपुत्रवध्वः आसन् । तद्द्रष्ट्वा सुदर्शना पुनः विषादग्रस्ता जाता । सा राजप्रासादं प्राप्य रुदन्तीक्रन्दन्ती आसीत् । राज्ञा तस्याः दुःखस्य कारणं ज्ञातम् । अनन्तरं राज्ञा कुलदेव्याः प्रसन्नतायै अठ्ठम-तपः कृतः ।
 
तपस्यया कुलदेवी प्रसन्ना जाता । राजा संतानोत्पत्तिविषयिकीं समस्यां कुलदेव्यै उक्तवान् । तदा देव्या उक्तं यत् – “स्वर्गलोकात् एकः देवः अवतरिष्यति । सः एव पुत्रस्वरूपेपुत्रत्वेन सुदर्शनायाः कुक्ष्याः गर्भं प्रविश्यतिप्रवेक्ष्यतिअयंइमं सुसन्देशं श्रुत्वा राज्ञी सुदर्शना प्रफुल्लिता अभवत् । सः पुत्रप्राप्तये प्रतीक्षां कुर्वती आसीत् ।
 
समयान्तरे राज्ञ्या गर्भः धारितःधृतः । नवमासानन्तरं राज्ञी एकं पुत्ररत्नम् अजीजनत् । सः पुत्रः रूपवान् आसीत् । राज्ञा तस्य नाम पुरुषसिंहः इति कृतम् । पुत्रस्य पालनं श्रेष्ठतया अभवत्<ref> तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 64</ref> ।
 
एकदा पुरुषसिंहः अटितुम् उद्यानं गतः । उद्याने विजयनन्दनाचार्येण सह पुरुषसिंहस्य मेलनं जातम् । विजयनन्दनाचार्यस्य प्रवचनं श्रुत्वा पुरुषसिंहः विरक्तः अभवत् । अतः पुरुषसिंहः युवावस्थायांयुवावस्थायाम् एव दीक्षां प्रापत् । अनन्तरं तेन अणगारमुनिः इति नाम परिवर्तितम् । सः उत्कृष्टः तपः, ध्यानं च कृतवान् । अन्ते सः स्वर्गलोकं गतः ।
 
===[[नामकरणसंस्कारः|नामकरणम्]]===
पङ्क्तिः ६४:
नामकरणस्य दिने राज्ञा मेघेन भव्यायोजनं कृतम् आसीत् । तस्मिन् उत्सवे नगरस्य सर्वेषां वर्गाणां जनाः समुपस्थिताः आसन् । नामविषयिक्यां चर्चायां विभिन्नमतानि प्राप्तानि । राज्ञा मेघेन उक्तं यत् – “ यदा अयं बालकः गर्भे आसीत्, तदा राज्ञ्याः मङ्गलावत्याः बौद्धिकक्षमतायां वृद्धिः अभवत् । मङ्गलावती समस्यानां समाधानं सुष्ठुतया, स्पष्टतया च कुर्वती आसीत् । राजकीयविषयेषु अपि सा निपुणा जाता ।
 
अस्मिन् सन्दर्भे राज्ञा एका घटना श्राविता यत् – “केभ्यश्चित् मासेभ्यः पूर्वंपूर्वम् एकः विवादः समुपस्थितः । किन्तु अहं तस्य निर्णयं कर्तुंकर्तुम् असमर्थः आसम् । एकस्य सज्जनस्य पत्नीद्वयम् आसीत् । एकस्याः पत्न्याः एकः पुत्रः आसीत् । अपरायाः सन्ततिः एव नासीत् । किन्तु द्वयोः पत्न्योः परस्परं स्नेहः आसीत् । अतः द्वे पुत्रस्य पालनं कुरुतः स्म । एकस्मिन् दिवसे सज्जनस्य अवसानम् अभवत् । पतेःपत्युः अवसानानन्तरं सम्पत्तेः अधिकाराय द्वे पत्न्यौ कलहं कुर्वन्त्यौकुर्वत्यौ आस्ताम् । निर्दोषः बालकः अपि द्वे माता इति सम्बोधयति स्म । “का तस्य बालकस्य जन्मदात्री अस्ति” इति निर्णयः दुष्करः आसीत् ।
 
कस्मिंश्चित् अज्ञातप्रदेशे तस्य बालकस्य जन्म अभवत् । अतः तस्य विषये नगरजनाः अपि न जानन्ति स्म । सत्यं ज्ञातुं मया महत्प्रयासाः कृताः । किन्तु अहं निष्फलो अभवम् । अनया समस्ययाएतस्मात् कारणात् तस्मिन् दिवसे अहं भोजनं कर्तुंकर्तुम् अपि विलम्बेन गतवान् । तदा मङ्गलावत्या मत् विवादनिर्णयस्य अधिकारः याचितः । मया मङ्गलावत्यै निर्णयाधिकारः प्रदत्तः ।
 
राज्ञ्या मङ्गलावत्या विवादस्य एकः उपायः निष्कासितः । तया द्वे स्त्रियौ उक्ते – “बालकः एकः एव किन्तु भवत्यौ द्वे स्तः । अतः अहम् अस्य बालकस्य द्वौ भागौ कृत्वा भवतीभ्यां दास्यामि । अनेन निर्णयेन एकया स्त्रिया तत्निर्णयः स्वीकृतः । यतः तस्य मनसि बालकस्य मृत्योः चिन्ता एव नासीत् । किन्तु या जन्मदात्री आसीत्, तया तन्निर्णयः नाङ्गीकृतः । तदा मङ्गलावत्या निर्णयः कृतः यत् – बालकः अस्याः एव अस्ति या अङ्गीकर्तुं नेच्छति । इयमेव जन्मदात्री अस्ति । यतः माता स्वस्य पुत्रं मृतस्वरूपेमृतत्वेन दृष्टुं न शक्नोति” <ref> तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 65</ref>।
 
यदा मया (राजा मेघः) अयं निर्णयः श्रुतः, तदा मङ्गलावत्याः कुशलतायाः अहं चकितो अभवम् । अतः मया ज्ञातं यत् – अयं गर्भस्थस्य शिशोः एव प्रभावः वर्तते”।
पङ्क्तिः ७६:
===[[विवाहसंस्कारः|विवाहः]]===
 
यदा सुमतिकुमारः विवाहावस्थायां प्राविशत्, तदा राजा मेघः अनेकाभिः सुकन्याभिः सह तस्य विवाहं कारितवान् । भोगावलिकर्मणाम् आरम्भात् एव सुमतिकुमारः पञ्चेन्द्रियसुखानाम् उपभोगं कुर्वन् आसीत् । राज्ञा मेघेन सुसमयं निश्चित्य राजकुमारस्य सुमतेः राज्याभिषेकंराज्याभिषेकः कृतम्कृतः आसीत् । ततः परं सः निवृत्तिं सम्प्राप्य साधनायै निर्गतवान् आसीत् <ref> तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 67</ref>।
 
==राज्यम्==
 
सुमतिकुमारः राज्यस्य उचितं सञ्चालनं कुर्वन् आसीत् । प्रजाजनानां मनसि राज्ञे आस्था आसीत् । जनाः सुमतिकुमारस्य प्रत्येकंप्रत्येकम् आदेशं स्वीकुर्वन्ति स्म । शासनव्यवस्था अपि सुष्ठुतया चलन्ती आसीत् ।
 
भोगावलीकर्माणि क्षीणानि जातानि । अनन्तरं लोकान्तिकदेवाः आगताः । देवानाम् अवबोधनेन राज्ञा सुमतिनाथेन वार्षिकीदानस्य प्रारम्भः कृतः । सः एकवर्षं यावत् दानं कृतवान् । सः जनेभ्यः सन्तुष्टिपूर्वकं दानं करोति स्म । वार्षिकीदानानन्तरं सुमतिनाथेन दीक्षायै राज्यं त्यक्तम् ।
पङ्क्तिः ८६:
===राजत्यागः, दीक्षा च===
 
भगवता [[अयोध्या]]<nowiki/>-नगर्यां [[वैशाख]]<nowiki/>-मासस्य शुक्लपक्षस्य [[नवमी|नवम्यां]] तिथौ [[मघा]]<nowiki/>-नक्षत्रे सहस्त्रजनैः सह दीक्षा अङ्गीकृता । आगामीदिनेआगामिदिने विजयपुरस्य राज्ञः पद्मनः गृहे भगवता सुमतिनाथेन प्रथमं भोजनं गृहीतम् आसीत् <ref>तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 68</ref>। सुमतिनाथः सर्वं त्याज्यत्यक्त्वा साधनायांवैराग्यं रतः अभवत्प्रापत्
 
विंशतिवर्षंविंशतिवर्षाणि यावत् भगवान् सुमतिनाथः छद्मस्थकाले उत्कृष्टसाधनां कुर्वन् विचरति स्म । सः विचरणं कृत्वा पुनः अयोध्यानगरींअयोध्यानगरीम् सप्रापत्अप्रापत् । [[चैत्र]]<nowiki/>-मासस्य शुक्लपक्षस्य [[एकादशी|एकादश्यां]] तिथौ [[मघा]]<nowiki/>-नक्षत्रे भगवान् सुमतिनाथः केवलज्ञानं प्राप्तवान् । तस्मिन् दिने लोकान्तिकदेवाः, चतुष्षष्ठीचतुष्षष्टिः [[इन्द्रः|इन्द्राः]] च समुपस्थिताः अभवन् । भगवता तीर्थस्य स्थापना अपि कृता । जनैः अपि स्वशक्त्यानुसारंशक्त्यनुसारं व्रतोपवासाः अङ्गीकृताः ।
 
===धार्मिकः परिवारः===
पङ्क्तिः ११०:
[[चैत्र]]<nowiki/>-मासस्य शुक्लपक्षस्य [[नवमी|नवम्यां]] तिथौ [[पुनर्वसु]]<nowiki/>-नक्षत्रे सम्मेदशिखरे भगवतः सुमतिनाथस्य निर्वाणम् अभवत् । भगवता सह बहवः मुनयः अपि मोक्षं प्रापन् <ref> तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 58</ref>।
 
सुमतिनाथेन कौमारावस्थायां दशलक्षं वर्षाणांदशलक्षवर्षाणां, राज्ये एकोनत्रिंशत् लक्षं वर्षाणांएकोनत्रिंशल्लक्षवर्षाणां, दीक्षायां द्वादशपूर्वाङ्गःद्वादशपूर्वाङ्गं च आयुः भुक्तःभुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने चत्वारिंशत् लक्षं वर्षाणिचत्वारिंशल्लक्षवर्षाणि भुक्तानि आसन् <ref> तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 59</ref>।
{{जैनतीर्थङ्करक्रमः|शीर्षकम्=[[जैनतीर्थङ्कराः]] |पूर्वतनः=[[अभिनन्दननाथः]] |अग्रिमः=[[पद्मप्रभुः]]}}
{{जैनतीर्थङ्कराः}}
"https://sa.wikipedia.org/wiki/सुमतिनाथः" इत्यस्माद् प्रतिप्राप्तम्