"पुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १:
[[चित्रम्:Ashta-Matrika.jpg|thumb|300px| रक्तबीजासुरेण सह योद्धुं प्रस्थिता दुर्गा, मार्कण्डेयपुराणम्]]
पुरा नवं पुराणमिति(पुरापि नवमिति पुराणञ्चेति) व्युत्पत्तिः ।
 
:'''सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।'''
पङ्क्तिः १०:
यदा वेदार्थ: लोकानां बुद्धौ नारोढुं प्रवृत्तस्तदा वेदार्थस्य विवरणरूपेण दृष्टान्तेतिहासाद्यलङ्कारसहितानि पुराणानि विरचितानीति केचन अभिप्रयन्ति । परन्तु वेदेभ्य: पूर्वमेव ब्रह्ममुखान्निस्सृतानीति साम्प्रदायिकास्तिकानामभिप्राय:। तस्मादेव तन्नाम अन्वर्थकञ्च । समाजस्य तात्कालिकस्वरुपबोधनायापि पुराणानां महानुपयोगः पुराणेषु प्राचीनभारतस्येतिहासो निहितः । पुराणोक्तानामितिवृत्तानां प्रामाणिकत्वं शिलालेखादिभिरपि कर्त्तुमारब्धम्, अतो विदेशीया अपि विद्वांसः पुराणे धृतादराः प्रतिभान्ति । इतिहासा यदि राज्ञां वृत्तं प्राधान्येन बोधयन्ति तदा पुराणानि राज्ञां वृत्तैः सह ऋषीणामपि वृत्तं बोधयन्तीति परमोपयोगित्वं पुराणानाम् ।
पुराणानि भौगोलिकसामग्रीमपि प्रस्तुवन्ति । काशीखण्डे काशीपुर्यास्तादृशं विस्तृतं वर्णनं विद्यते येन तस्या मानचित्रमिव पुरत उपतिष्ठते । अन्येष्वपि पुराणेषु तेषां तेषां तीर्थानां तादृशं स्पष्टं वर्णनमुपलभ्यते, येन तत्परिचये सौकर्यमाधीयते । पुराणेषु अतिशयोक्तिपूर्णा शैली समादृता येन लोकास्तानि अविश्वसनीयानि काल्पनिकानि च प्रतियन्ति स्म । तत्र बोद्धव्यमिदं यत् त्रिधा वर्णनं क्रियते –वस्तुतत्त्वकथारुपेण, रुपकद्वारा, अतिशयोक्तिद्वारा च । वस्तुतत्त्वकथा वैज्ञानिकानाम, ते हि वस्तु यथावद् वर्णयन्ति, न किमपि रञ्जनं तत्राचरन्ति । रुपकद्वारा वस्तुकथनप्रणाली वेदेषु व्यवह्रियते, तत्र हि उषः सुन्दरी कृता, वृत्रश्च राजाकृतः । अतिशयोक्तिप्रणाली पुराणेष्वादृता । अस्यां प्रणाल्यां वर्णिता अर्था यथामति विविच्य ग्रहीतव्या भवन्ति । पुराणानां तुलनात्मकमध्ययनं तदन्तस्तले प्रवेशनं च यदि क्रियेत तदा तत्रत्य इतिहासभागः सामाजिकवर्णनारहस्यं च स्पष्टमवभासेत इति विदुषां विचारः ।
वेदा:--प्रभुसंहिता:(राजशासनवत्)।
उदा-सत्यान्न प्रमदितव्यम्। कुशलान्न प्रमदितव्यम्। स्वाध्यायान्न प्रमदितव्यम्।....अन्नं न निन्द्यात्। तद्व्रतम्।
पुराणेतिहासादय:--मित्रसंहिता:(मित्रसलहारूपेण)।
काव्यादय:--कान्तासंहिता:(भार्येवाभिरमयन्ति बोधयन्त:)
 
== [[पुराणलक्षणम् ]]==
"https://sa.wikipedia.org/wiki/पुराणम्" इत्यस्माद् प्रतिप्राप्तम्