"सुब्रह्मण्यषष्ठी" इत्यस्य संस्करणे भेदः

(लघु) Bot: + {{Interwiki conflict}}
No edit summary
पङ्क्तिः १:
{{हिन्दूधर्मः}}
[[मार्गशीर्षमासः|मार्गशीर्षमासे]] शुक्लपक्षे षष्ठ्यां तिथौ आचर्यते एतत् पर्व । अस्य पर्वणः शास्त्रीयं नाम अस्ति '''“स्कन्दषष्ठी”''' '''(सुब्रह्मण्यषष्ठी}''' इति । यद्यपि एतत् षष्ठ्यामेव आचर्यमाणं पर्व तथापि तत्पूर्वतिथिः युक्ता चेत् श्रेष्ठम् इति मन्यते ।
:'''[[कृष्णजन्माष्टमी|कृष्णाष्टमी]] स्कन्दषष्ठी [[महाशिवरात्रिः|शिवरात्रिश्चतुर्दशी]] ।'''
:'''एताः पूर्वयुताः कार्याः तिथ्यन्ते पारणं भवेत् ॥''' इति अस्ति भृगुवचनम् ।
 
तद्दिने [[भानुवासरः]] वैधृतियोगः च अस्ति चेत अत्यन्तं प्रशस्तं दिनं तत् । एतादृशः योगः भवति चेत सा “चम्पाषष्ठी” इति उच्यते । अस्य पूर्वदिनं पञ्चमी अपि स्कन्दस्य[[स्कन्दपुराणम्|स्कन्द]]स्य प्रशस्तं दिनमेव । अस्मिन् षष्ठीदिने स्कन्दः [[तारकासुरः|तारकासुरस्य]] संहारम् अकरोत् । पञ्चम्यां तिथौ स्कन्द[[देवसेना|देवसेनयोः]] विवाहः सञ्जातः । [[सुब्रह्मण्यः|स्कन्दः]] श्रीयोगम् अप्राप्नोत् च । अतः पञ्चमी षष्ठी चेति दिनद्वयमपि स्कन्दपूजार्थं प्रशस्तमेव इति वदति [[महाभारतम्]] ।
 
[[चित्रम्:Murugan by Raja Ravi Varma.jpg|thumb|250px|right|'''वल्लिदेवसेनसहितः मयूरवाहनः सुब्रह्मण्यः''']]
"https://sa.wikipedia.org/wiki/सुब्रह्मण्यषष्ठी" इत्यस्माद् प्रतिप्राप्तम्