"कृष्णजन्माष्टमी" इत्यस्य संस्करणे भेदः

format
कृष्णजन्माष्टमी
पङ्क्तिः २०:
[[चित्रम्:Govindashtami.jpg|thumb|150px|right|'''दधिकुम्भभञ्जनस्पर्धा''']]
 
'''श्री[[कृष्णः|कृष्णस्य]]श्रीकृष्णजन्माष्टमी''' ({{IPA audio link|{{PAGENAME}}.wav}} {{IPAc-en|ˈ|k|r|ɹ|S|h|n|ə|dʒ|ə|n|m|aː|S|h|t|ə|m|iː}}) ({{lang-hi|कृष्णाष्टमी}}, {{lang-en|Krishna Janmashtami}}) जन्मोत्सवः कृष्णजन्माष्टमी इति [[कृष्णः|कृष्णस्य]] जन्मोत्सवः आचर्यते । गोकुलाष्टमी, जन्माष्टमी, कृष्णजयन्ती, श्रीजयन्ती इत्यादिभिः बहुभिः नामभिः [[भारतम्|भारतस्य]] सर्वेषु भागेषु आचर्यते एतत् पर्व । सर्ववर्णानाम् आश्रमाणां वर्गाणां जनैः आचर्यमाणं प्रियं पवित्रं च पर्व अस्ति श्रीकृष्णजन्माष्टमी । तद्दिने सर्वत्र पूज्यमानः देवः परमपूज्यः श्रीकृष्णः । एषः श्रीकृष्णः महा[[विष्णुः|विष्णोः]] नवमः अवतारः । अयं मार्त्यलोके अवतीर्णः चेदपि साक्षात् भगवान् एव । '''कृष्णस्तु भगवान् स्वयम्''', '''दशाकृतिकृते कृष्णाय तुभ्यं नमः ईश्वरः परमः [[कृष्णः]]''', कृष्णं वन्दे जगद्गुरुम् इत्यादिभिः वाक्यैः सः अभिप्रायः पुरस्क्रियते ।
 
सः एव आदिपुरुषः, परब्रह्म, पुरुषोत्तमः । [[स्मृतयः|स्मृतिषु]], [[पुराणम्|पुराणेषु]], [[इतिहासः|इतिहासेषु]], [[काव्यम्|काव्येषु]], प्रबन्धेषु च महर्षिभिः, भागवतैः, आचार्यैः, दासश्रेष्ठैः, कविभिः, कीर्तनकारैः एवं सर्वप्रकारकैः अपि स्तुतः देवः श्री[[कृष्णः]] । सः न केवलं देवः अपि तु देवानाम् अपि देवः '''तं देवतानां परमं च दैवतम्''' इति वदन्ति महात्मानः । मनुष्यः इव व्यवहरन् अपि ज्ञान-बल-ऐश्वर्य-वीर्य-शक्ति-तेज-आत्मगुणसम्पन्नः परमपुरुषः । न केवलं मनुष्यमात्रान् अपि तु गो-गोपाल-[[पशुः|पशु]]-[[पक्षी|पक्षि]]-[[वृक्षः|वृक्ष]]-[[वनस्पतयः|वनस्पत्यादीन्]] अपि उद्धृतवान् दयानिधिः । सौन्दर्यनिधिः, कलानिधिः, [[महाभारतम्|महाभारतस्य]] सूत्रधारः, महावीरः, [[धर्मः|धर्मप्रभुः]], धर्मनिरतानां [[पाण्डवाः|पाण्डवानां]] बन्धुः, मित्रं, मन्त्री, दूतः, उपायचतुरः, राजनीतिज्ञः,विद्वान्, द्वैवमानवः, [[भगवद्गीता|गीतोपदेशं]] कृतवान् योगाचार्यः श्री[[कृष्णः]] ।
"https://sa.wikipedia.org/wiki/कृष्णजन्माष्टमी" इत्यस्माद् प्रतिप्राप्तम्