"एल्लोरागुहाः" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 37 langlinks, now provided by Wikidata on d:q189616
No edit summary
पङ्क्तिः १२:
}}
==पीठिका==
'''एल्लोरा अथवा एलोरा''' इति प्रसिद्धस्य ऐतिहासिकयात्रास्थानस्य मूलं नाम वेरुल इति । एताः गुहाः[[भारतम्|भारतस्य]] [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्ये]] [[औरङ्गाबादमण्डलम्|औरङ्गाबादमण्डले]] सन्ति ।
तासां स्थानीयं नाम ‘[[वेरुललेनी]]’ इति । एल्लोरागुहाः [[राष्ट्रकूटवंशः|राष्ट्रकूटैः]] पञ्चमशतकात् तः दशमशतकयोः मध्यभागे निर्मिताः । ताः शिलाकर्तनशिल्पकलाशैल्याः मूर्तरुपाः सन्ति । एल्लोरायाः पर्वतीये प्रदेशे ३४ छिन्नशिलामन्दिराणां समुच्चयः वर्तते । पुरातनीयस्य मध्ययुगीयस्य च [[भारतम्|भारतस्य]] मुख्यभूतानां [[हिन्दुधर्मः|हिन्दु]] - [[बौद्धदर्शनम्|बौद्ध]] - [[जैनदर्शनम्|जैनमतानां]] प्रतिनिधिरुपाः वर्तन्ते इमाः गुहाः । दाक्षिणात्यकलाशैल्याः अन्तिमस्तरीया परिपूर्णता अत्र द्र्ष्टुं शक्या । मानवमनीषायाः अत्यपूर्वा अभिव्यक्तिः जाता अस्ति अत्र । अत्रत्याः ३४ गुहाः अपि वस्तुतः ‘चरणाद्रि’ नामकस्य शैलस्य लम्बरुपशिलायाः उत्खननपूर्वकं निर्मिताः वर्तन्ते । १२ बौद्धगुहाः (१-१२ गुहाः), ५ जैनगुहाः (३०-३४ गुहाः), १७ अन्यदेवगुहाः (१३-२९ गुह्याः) च एकत्र एव निर्मिताः यत् तत् भारतीयेतिहासस्य धार्मिकसामरस्यं द्योतयति । अत्रत्या अखण्डशिलया उत्खाता महाकैलासगुहा (गुहा-१६) जगत्प्रसिद्धा वर्तते । विविधमतसम्बद्धाः गुहाः एकत्र निर्मिताः यत् तत् भारतीयानां परमतसहिष्णुतायाः प्रत्यक्षम् उदाहरणं वर्तते ।एतेन एव कारणेन १९८३ तमे वर्षे युनेस्कोसंस्थया[[विश्व संस्थानस्य शैक्षणिक, वैज्ञानिक, सांस्कृतिक संस्थानम्|युनेस्को]]संस्थया एल्लोरीयाः गुहाः [[विश्वपारम्परिकस्थल]]त्वेन घोषिताः ।
यथा वर्णचित्राणां विषये [[अजन्तागुहाः|अजन्ता]] प्रसिद्धमस्ति तथा एल्लोरा वास्तुशिल्पविषये प्रसिद्धा अस्ति । अत्र गुहादेवालयाः सन्ति । देवगिरिदुर्गतः ८-१० कि.मी दूरे एल्लोरा अस्ति । पर्वतप्रदेशे सागरस्तरतः ३००० पादोन्नते प्रदेशे पाश्चिमाभिमुखे शिलापर्वते त्रिकिलोमीटरदीर्घः प्रदेशः अस्ति । अत्र ३३ गुहाः सन्ति ।
[[जैनाःजैनमतम्|जैनानां]] तथा [[बौद्धाः|बौद्धानां]] गुहाः प्राचीनाः सन्ति । इतर[[शैवाः]] वैष्णवाः गुहाः । राष्ट्रकूटराजः कृष्णः एताः निर्मितवान् । गुहासु १९ सनातनधर्मीयाः १२ बौद्धधर्मीयाः, ४ जैनधर्मीयाः सन्ति । सर्वधर्मसमन्वयः अत्रत्यः विशेषः ।
षोडशी गुहा कैलासदेवालयः। रमणीयवास्तुशिल्पेन अतीव प्रसिद्धास्ति । एकस्यां शिलायामेव महाद्वारं प्राकारः शिखरं कलशं शिवलिङ्गं च निर्मितवन्तःसन्ति । द्विस्तरीयः द्राविडदेवालयः अपूर्वः सर्वाङ्गसुन्दरः च अस्ति ।
शिलापर्वते २६७ पादमितदीर्घः, १५४ पादमितविस्तृतः, १०७ पादमितगभीरः च शिवालयः कृतः अस्ति । देवालयस्य समीपे स्तम्भद्वयं गजद्वयं च शिलासु निर्मिते स्तः । महाद्वारस्य पार्श्वे श्रीहरेः अवतारलीलाः शिवलीलाः दिक्कालसम्बद्धविषयाः सन्ति ।
"https://sa.wikipedia.org/wiki/एल्लोरागुहाः" इत्यस्माद् प्रतिप्राप्तम्