"चन्द्रप्रभुः" इत्यस्य संस्करणे भेदः

No edit summary
जैनतीर्थङ्कराः using AWB
पङ्क्तिः ४१:
'''चन्द्रप्रभुः ({{IPA audio link|{{PAGENAME}}.ogg}} {{IPAc-en|ˈ|x|ə|n|d|r|ə|p|r|ə|b|h|ʊ|h|ʊ}}) ('''{{Lang-hi|चन्द्रप्रभु}}, {{Lang-en|Chandraprabhu}}) [[जैनधर्मः|जैनधर्म]]<nowiki/>स्य चतुर्विंशत्यां [[जैनतीर्थङ्कराः|तीर्थङ्करेषु]] अष्टमः तीर्थङ्करः अस्ति । भगवतः चन्द्रप्रभोः [[वर्णः]] [[श्वेतः]] आसीत् । जैनधर्मानुसारं भगवतः चिह्नं [[चन्द्रः]] अस्ति ।
 
कौमारावस्थायां चन्द्रप्रभोः शरीरस्य औन्नत्यं सार्धशतं (१५०) धनुर्मात्रात्मकम् आसीत्<ref> name="ReferenceA">तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 64</ref> । भगवतः धार्मिकपरिवारे “विजय” इत्याख्यः यक्षः, “भूकुटि” इत्याख्या शासनदेवी च आसीत् ।
 
==जन्म, परिवारश्च==
पङ्क्तिः ४७:
चन्द्रपुरीनाम्न्यां नगर्यां [[मार्गशीर्ष]]<nowiki/>-मासस्य कृष्णपक्षस्य [[एकादशी|एकादश्यां]] तिथौ [[अनुराधा]]<nowiki/>-नक्षत्रे भगवतः चन्द्रप्रभोः जन्म अभवत् ।
 
चन्द्रप्रभोः पितुः नाम महासेनः, मातुः नाम लक्ष्मणा च आसीत् । महासेनः चन्द्रपुरीनगर्याः राजा आसीत् । महासेनः श्रेष्ठः राजा आसीत् । तस्य शासनकाले प्रजा सुखेन जीवति स्म । एकदा [[फाल्गुन]]<nowiki/>-मासस्य कृष्णपक्षस्य [[पञ्चमी|पञ्चम्यां]] तिथौ अनुराधा-नक्षत्रे रात्रौ लक्ष्मणा तीर्थङ्करत्वसूचकान् चतुर्दश स्वप्नान् दृष्टवती । राजा, राज्ञी च अतीव प्रसन्नौ अभवताम् । तौ स्वप्नानां फलं न जानीतः स्म । तथापि स्वप्नान् दृष्ट्वा राज्ञी आनन्दिता जाता ।
 
आगामिदिवसे राजा स्वप्नशास्त्रिणः आवाहितवान् । स्वप्नशास्त्रिभिः चतुर्दशस्वप्नानां फलम् उक्तम् यत् – “कस्यचित् तीर्थङ्करस्य जन्म भविष्यति इति सूच्यते" । स्वप्नानां फलादेशं श्रुत्वा राजा, राज्ञी च प्रफुल्लितौ अभवताम् । राज्ये आनन्दस्य वातावरणम् अभवत् । शुभसमाचारं प्राप्य राज्ञा सम्पूर्णे राज्ये दानं प्रदत्तम् ।
पङ्क्तिः ५९:
घातकी-खण्डद्वीपे पूर्वविदेहक्षेत्रे मङ्गलावतीविजये रत्नसञ्चया-नगरी आसीत् । तस्याः नगर्याः राजा पद्मनाभः आसीत् । पद्मनाभः एव भगवतः चन्द्रप्रभोः पूर्वजन्म आसीत् । तस्यां नगर्यां साधूनाम् गमनागमनं निरन्तरं भवति स्म । अतः बहवः धर्मगुरवः तस्यां नगर्यां प्रवचनानि कुर्वन्ति स्म ।
 
धर्मगुरवः जनान् प्रेरयन्ति स्म । तेन जनाः धर्ममार्गे कार्यरताः भवन्ति स्म । राजा अपि युगन्धरमुनेः दीक्षां प्राप्तवान् । ततः परं तेन उत्तराधिकारिणे राज्यस्य दायित्वं प्रदत्तम् । अनन्तरं सः साधनायां रतः अभवत् । तेन साधनायाः तीर्थङ्करगोत्रस्य बन्धनं कृतम् । तस्य सर्वेषां कर्मणां नाशः अभवत् । एकमासं यावत् अनशनं कृत्वा सः स्वर्गलोकं प्रस्थितवान् ।
 
===[[नामकरणसंस्कारः|नामकरणम्]]===
पङ्क्तिः ७१:
===[[विवाहसंस्कारः|विवाहः]]===
 
चन्द्रप्रभुः त्रिज्ञानधारी (मतिः, श्रुतः, अवधिः) आसीत् । चन्द्रप्रभोः मनसि गुरुकुलीयायाः दीक्षायाः अपेक्षा नासीत् । यतः कोऽपि तीर्थङ्करः गुरुकुले अध्ययनं न करोति । सर्वे तीर्थङ्कराः त्रिज्ञानधारिणः भवन्ति ।
 
लक्ष्मणया श्रेष्ठतया चन्द्रप्रभोः पालनं कृतम् । समयान्तरे भगवतः चन्द्रप्रभोः बाल्यावस्था, किशोरावस्था च व्यतीता । अनन्तरं राजा महासेनः राजकन्याभिः सह चन्द्रप्रभोः विवाहम् अकारयत् । विवाहानन्तरं राज्ञः महासेनस्य मनसि राज्यात् निवृत्तेः विचारः आगतः । अतः सः चन्द्रप्रभोः राज्याभिषेकं कृतवान्, चन्द्रप्रभवे राज्यस्य दायित्वं च प्रदत्तवान् । ततः परं प्रतिष्ठसेनः दीक्षां प्रापत् ।
 
==राज्यम्==
पङ्क्तिः ९७:
===धार्मिकः परिवारः===
 
यदा भगवान् चन्द्रप्रभुः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा चन्द्रप्रभुना धार्मिकपरिवारस्य अपि रचना कृता<ref> तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 80</ref>।
# ९५ गणधराः
पङ्क्तिः ११४:
यदा भगवान् चन्द्रप्रभुः स्वस्य निर्वाणसमयं ज्ञातवान्, तदा सः सहस्रसाधुभिः सह सम्मेदशिखरं गतवान् । तत्र सः अनशनञ्चकार । तेन पुनः तपस्या, साधना च कृता । अनन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वेषां कर्मणां नाशः अभवत् । तेन सः सिद्धत्वं प्रापत् ।
 
तत्पश्चात् अनशनान्ते [[भाद्रपद]]<nowiki/>-मासस्य कृष्णपक्षस्य सप्तम्यां तिथौ [[श्रवण]]<nowiki/>-नक्षत्रे सम्मेदशिखरे भगवतः चन्द्रप्रभोः निर्वाणम् अभवत् । भगवता सह बहवः मुनयः अपि मोक्षं प्रापन् <ref> तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 64<name="ReferenceA"/ref>।
 
चन्द्रप्रभुणा कौमारावस्थायां सार्धद्विलक्षवर्षाणां, राज्ये सार्धषड्लक्षवर्षाणां, दीक्षायां चतुर्विंशतिपूर्वाङ्गं च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने दशलक्षं वर्षाणि भुक्तानि <ref> तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 64<name="ReferenceA"/ref>।
{{जैनतीर्थङ्करक्रमः|शीर्षकम्=[[जैनतीर्थङ्कराः]] |पूर्वतनः=[[सुपार्श्वनाथः]] |अग्रिमः=[[सुविधिनाथः]]}}
{{जैनतीर्थङ्कराः}}
पङ्क्तिः १२८:
# [[पुराणानि]]
 
== बाह्यसम्पर्कतन्तुः ==
{{commons|Category:Jainism|{{PAGENAME}}}}
 
* [http://hi.bharatdiscovery.org/india/%E0%A4%9A%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AD भारत डिस्कवरी - चन्द्रप्रभु]
* [http://hindi.webdunia.com/jain-religion/%E0%A4%9A%E0%A5%8C%E0%A4%AC%E0%A5%80%E0%A4%B8-%E0%A4%A4%E0%A5%80%E0%A4%B0%E0%A5%8D%E0%A4%A5%E0%A4%82%E0%A4%95%E0%A4%B0-%E0%A4%94%E0%A4%B0-%E0%A4%89%E0%A4%A8%E0%A4%95%E0%A5%87-%E0%A4%9A%E0%A4%BF%E0%A4%B9%E0%A5%8D%E0%A4%A8-112092100011_1.htm चौबीस तीर्थङ्कर ]
पङ्क्तिः १४३:
* [http://hi.encyclopediaofjainism.com/index.php?title=%E0%A5%A6%E0%A5%AE._%E0%A4%9A%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AD_%E0%A4%AD%E0%A4%97%E0%A4%B5%E0%A4%BE%E0%A4%A8_%E0%A4%95%E0%A4%BE_%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%9A%E0%A4%AF चन्द्रप्रभु भगवान का परिचय]
 
[[वर्गः:जैनतीर्थङ्कराः]]
{{शिखरं गच्छतु}}
 
[[वर्गः:जैनतीर्थङ्कराः]]
"https://sa.wikipedia.org/wiki/चन्द्रप्रभुः" इत्यस्माद् प्रतिप्राप्तम्