"सम्भवनाथः" इत्यस्य संस्करणे भेदः

No edit summary
जैनतीर्थङ्कराः using AWB
पङ्क्तिः ५५:
एकस्मिन् जन्मनि कोऽपि महापुरुषः भवितुं न शक्नोति । बहूनां जन्मनां साधनया महापुरुषपदं प्राप्यते । भगवतः सम्भवनाथेन अपि अनेकेषु जन्मसु साधना कृता आसीत् । साधनया मानवीयगुणानां विकासः अभवत् । तत्परिणामेन सः तीर्थङ्करपदं प्रापत् ।
 
पूर्वजन्मनि सम्भवनाथः घातकीखण्डनामकस्य द्वीपस्य ऐरावतक्षेत्रे क्षेमपुरीनगर्याः विपुलवाहननामकः राजा आसीत् <ref> तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 55</ref>। तस्य राज्ये भयङ्करदुष्कालस्य स्थितिः समुद्भूता । तदा राज्ञा स्वस्य अन्नभाण्डाराणि सर्वेभ्यः उद्घाटितानि । भाण्डारेभ्यः कोऽपि जनः अन्नं स्वीकर्तुं शक्नोति स्म ।
 
राज्ञा आदिष्टं यत् – “राज्यस्य कोऽपि जनः बुभुक्षितः मा स्यात्” इति । राज्ञा अन्यस्मात् राज्यात् खाद्यानि आनीतानि । राज्ये यानि विकासकार्याणि प्रचलन्ति आसन्, तेषां कार्याणां गतिविधिः अपि परीक्षिता । राज्ञः एतादृशेन व्यवहारेण प्रजाजनानां मनसि सन्तोषः समुद्भूतः ।
पङ्क्तिः ६९:
पुत्रस्य नामकरणोत्सवे सर्वे कौटुम्बिकाः समुपस्थिताः आसन् । इतः परं राज्यस्य प्रतिष्ठिताः नगरजनाः अपि समुपस्थिताः । उपस्थितैः सर्वैः जनैः बालकाय आशीर्वादाः प्रदत्ताः ।
 
नामविषयिक्यां चर्चायां राजा जितारिः उवाच यत् – “अस्मिन् वर्षे राज्यस्य अर्थागमः सर्वाधिकः वर्तते । अस्मिन् वर्षे सस्यानि अपि राज्यस्येतिहासे सर्वाधिकानि जातानि । मन्ये यत् – अनेन बालकेन एव एतत्सर्वं सम्भवम् अभवत् । अतः अस्य नाम सम्भवनाथः इति योग्यम्” इति । नामचयने सर्वेषां सम्मतिः आसीत् । तदा बालकस्य सम्भवनाथः इति नामकरणम् अभवत् <ref> तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 57</ref>।
 
मुनि श्रीजयानन्द विजय इत्याख्येन विरचिते पुस्तके भिन्नमतं प्राप्यते यत् – “यदा भगवान् गर्भे आसीत्, तदा राज्ये शिम्बाः (मुद्गाः, बीजगुप्तिका, नुद्गाः च ) अधिकमात्रायां समुद्भूताः आसन् । अतः सम्भनाथः इति नाम कृतम् <ref> name="ReferenceA">तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 53</ref>।
 
===[[विवाहसंस्कारः|विवाहः]]===
पङ्क्तिः ७९:
==राज्यम्==
 
युवावस्थायां राजशासने प्राप्ते सत्यपि भगवान् अजितनाथः अनासक्तः आसन् । सः केवलं कर्त्तव्यभावनया एव राज्यस्य सञ्चालनं करोति स्म । तस्य शासनकाले राज्ये सर्वत्र शान्तिः आसीत् । कस्यापि वस्तुनः अभावः नासीत् । प्रजाः अपि सुखेन जीवनं यापयन्ति स्म । चतुर्दिक्षु समृद्धिः दृश्यमाना आसीत् । सम्भवनाथः ४४ लक्षं वर्षाणि पूर्वं यावत् शासनं कृतवान् आसीत् <ref> तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 53<name="ReferenceA"/ref>।
 
===राजत्यागः, दीक्षा च===
पङ्क्तिः ८७:
भोगावलिकर्मणां समाप्त्यनन्तरं भगवता वार्षिकीदानस्य आरम्भः कृतः । सम्पूर्णराज्यस्य जनाः दानं स्वीकर्तुं गच्छन्ति स्म । एकवर्षं यावत् भगवान् सम्भवनाथः दानं कृतवान् आसीत् ।
 
[[मार्गशीर्ष]]<nowiki/>-मासस्य शुक्लपक्षस्य [[पौर्णिमा]]<nowiki/>यां तिथौ एकसहस्रराजभिः, राजकुमारैः च सह सम्भवनाथः सहस्राम्रनामकं वनम् अगच्छत्<ref> तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 47</ref> । तस्मै चतुर्थः मनःपर्यवज्ञानस्य प्राप्तिः अभवत् । प्रत्येकस्मै तीर्थङ्कराय दीक्षया सह चतुर्थः मनःपर्यवज्ञानस्य प्राप्तिर्भवति एव । इदं ज्ञानमुपयुज्य सर्वेषां जीवानां मनोभावाः ज्ञातुं शक्यन्ते ।
 
दीक्षायाः दिने भगवतः चौविहारषष्ट्याः तपः प्रचलत् आसीत् । भगवान् सम्भवनाथः चतुर्दशवर्षाणि यावत् मुनेः अवस्थायाम् एव भ्रमन् आसीत् । तेन सर्वाणि इन्द्रियाणि जितानि । भ्रामं भ्रामं सः अन्ते पुनः सावत्थीनगरीं सम्प्राप्तवान् ।
 
सावत्थीनगर्यामेव तेन छद्मस्थकालस्य अन्तिमं चातुर्मास्यं कृतम् । आश्विन-मासस्य कृष्णपक्षस्य पञ्चम्यां तिथौ सम्भवनाथेन केवलज्ञानं प्राप्तम्<ref> name="ReferenceB">तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 58</ref> ।
 
इन्द्रादयः देवाः अपि तत्र समुपस्थिताः । सर्वैः देवैः केवलमहोत्सवः आचरितः । यदा जनैः भगवतः सर्वज्ञतायाः सन्देशः प्राप्तः, तदा सर्वे जनाः भगवतः दर्शनार्थम् उद्यानम् आगतवन्तः । भगवान् सम्भवनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविका च) स्थापनाञ्चकार <ref> तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 58<name="ReferenceB"/ref>।
 
===धार्मिकः परिवारः===
 
यदा भगवान् चतुर्विधसङ्घस्य स्थापनां कृतवान्, तदा तेन तस्य धार्मिकपरिवारः अपि सर्जितः <ref> तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 54</ref>।
# १०२ गणधराः
पङ्क्तिः ११४:
भगवान् सम्भवनाथः आर्यजनपदि दीर्घकालं यावत् विचरणं कृतवान् । तस्मिन् अन्तराले भगवता लक्षाधिकानां जनानाम् उद्धारः कृतः । यदा स्वस्य महाप्रयाणस्य ज्ञानम् अभवत्, तदा सम्भवनाथेन सहस्रसाधुभिः सह सम्मेदशिखरे जलान्नत्यागः कृतः । शुक्लध्यानस्य चतुर्थचरणं सम्प्राप्य तेन क्रियामात्रस्य त्यागो विहितः । अन्ते सः सिद्धत्वं प्रापत् ।
 
[[चैत्र]]<nowiki/>-मासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ भगवतः सम्भवनाथस्य निर्वाणम् अभवत्<ref> तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 58<name="ReferenceB"/ref> ।
{{जैनतीर्थङ्करक्रमः|शीर्षकम्=[[जैनतीर्थङ्कराः]] |पूर्वतनः=[[अजितनाथः]] |अग्रिमः=[[अभिनन्दननाथः]]}}
{{जैनतीर्थङ्कराः}}
पङ्क्तिः १२६:
# [[पुराणानि]]
 
== बाह्यसम्पर्कतन्तुः ==
{{commons|Category:Jainism|{{PAGENAME}}}}
 
* [http://hi.bharatdiscovery.org/india/%E0%A4%B8%E0%A4%82%E0%A4%AD%E0%A4%B5%E0%A4%A8%E0%A4%BE%E0%A4%A5 भारत डिस्कवरी - संभवनाथ]
* [http://hindi.webdunia.com/jain-religion/%E0%A4%9A%E0%A5%8C%E0%A4%AC%E0%A5%80%E0%A4%B8-%E0%A4%A4%E0%A5%80%E0%A4%B0%E0%A5%8D%E0%A4%A5%E0%A4%82%E0%A4%95%E0%A4%B0-%E0%A4%94%E0%A4%B0-%E0%A4%89%E0%A4%A8%E0%A4%95%E0%A5%87-%E0%A4%9A%E0%A4%BF%E0%A4%B9%E0%A5%8D%E0%A4%A8-112092100011_1.htm चौबीस तीर्थङ्कर ]
पङ्क्तिः १४०:
* [http://hi.encyclopediaofjainism.com/index.php?title=%E0%A5%A6%E0%A5%A9._%E0%A4%B8%E0%A4%82%E0%A4%AD%E0%A4%B5%E0%A4%A8%E0%A4%BE%E0%A4%A5_%E0%A4%AD%E0%A4%97%E0%A4%B5%E0%A4%BE%E0%A4%A8_%E0%A4%95%E0%A4%BE_%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%9A%E0%A4%AF श्री संभवनाथ भगवान]
 
[[वर्गः:जैनतीर्थङ्कराः]]
{{शिखरं गच्छतु}}
 
[[वर्गः:जैनतीर्थङ्कराः]]
"https://sa.wikipedia.org/wiki/सम्भवनाथः" इत्यस्माद् प्रतिप्राप्तम्