"सुमतिनाथः" इत्यस्य संस्करणे भेदः

No edit summary
जैनतीर्थङ्कराः using AWB
पङ्क्तिः ४३:
==जन्म, परिवारश्च==
 
[[अयोध्या]]<nowiki/>नगर्यां [[वैशाख]]<nowiki/>-मासस्य शुक्लपक्षस्य [[अष्टमी|अष्टम्यां]] तिथौ मध्यरात्रौ [[मघा]]<nowiki/>नक्षत्रे भगवतः सुमतिनाथस्य जन्म अभवत् <ref> name="ReferenceA">तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 65</ref>। सः काश्यपगोत्रीयः आसीत् ।
 
सुमतिनाथस्य पिता मेघः, माता मङ्गलावती च आसीत् । एकस्यां रात्रौ मङ्गलावत्या तीर्थङ्करसंकेतकाः चतुर्दश स्वप्नाः दृष्टाः । स्वप्नशास्त्रिभिः स्वप्नानां फलादेशः उक्तः यत् – “मङ्गलावत्याः कुक्ष्याः एकस्य तीर्थङ्करस्य जन्म भविष्यति” इति । स्वप्नशास्त्रिणां वचनं श्रुत्वा सर्वे प्रसन्नाः अभवन् ।
 
गर्भकालस्य समाप्त्यनन्तरं भगवतः सुमतिनाथस्य जन्म अभवत् । चतुष्षष्टिः इन्द्राः अपि जन्मोत्सवम् आचरितुं समागताः आसन् । राज्ञा मेघेन सम्पूर्णे राज्ये दानं कृतम् । सम्पूर्णे राज्ये पुत्रजन्मनः उत्सवः आचरितः आसीत् ।
 
===पूर्वजन्म===
पङ्क्तिः ५७:
तपस्यया कुलदेवी प्रसन्ना जाता । राजा संतानोत्पत्तिविषयिकीं समस्यां कुलदेव्यै उक्तवान् । तदा देव्या उक्तं यत् – “स्वर्गलोकात् एकः देवः अवतरिष्यति । सः एव पुत्रत्वेन सुदर्शनायाः कुक्ष्याः गर्भं प्रवेक्ष्यति । इमं सुसन्देशं श्रुत्वा राज्ञी सुदर्शना प्रफुल्लिता अभवत् । सः पुत्रप्राप्तये प्रतीक्षां कुर्वती आसीत् ।
 
समयान्तरे राज्ञ्या गर्भः धृतः । नवमासानन्तरं राज्ञी एकं पुत्ररत्नम् अजीजनत् । सः पुत्रः रूपवान् आसीत् । राज्ञा तस्य नाम पुरुषसिंहः इति कृतम् । पुत्रस्य पालनं श्रेष्ठतया अभवत्<ref> तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 64</ref> ।
 
एकदा पुरुषसिंहः अटितुम् उद्यानं गतः । उद्याने विजयनन्दनाचार्येण सह पुरुषसिंहस्य मेलनं जातम् । विजयनन्दनाचार्यस्य प्रवचनं श्रुत्वा पुरुषसिंहः विरक्तः अभवत् । अतः पुरुषसिंहः युवावस्थायाम् एव दीक्षां प्रापत् । अनन्तरं तेन अणगारमुनिः इति नाम परिवर्तितम् । सः उत्कृष्टः तपः, ध्यानं च कृतवान् । अन्ते सः स्वर्गलोकं गतः ।
पङ्क्तिः ६९:
कस्मिंश्चित् अज्ञातप्रदेशे तस्य बालकस्य जन्म अभवत् । अतः तस्य विषये नगरजनाः अपि न जानन्ति स्म । सत्यं ज्ञातुं मया महत्प्रयासाः कृताः । किन्तु अहं निष्फलो अभवम् । एतस्मात् कारणात् तस्मिन् दिवसे अहं भोजनं कर्तुम् अपि विलम्बेन गतवान् । तदा मङ्गलावत्या मत् विवादनिर्णयस्य अधिकारः याचितः । मया मङ्गलावत्यै निर्णयाधिकारः प्रदत्तः ।
 
राज्ञ्या मङ्गलावत्या विवादस्य एकः उपायः निष्कासितः । तया द्वे स्त्रियौ उक्ते – “बालकः एकः एव किन्तु भवत्यौ द्वे स्तः । अतः अहम् अस्य बालकस्य द्वौ भागौ कृत्वा भवतीभ्यां दास्यामि । अनेन निर्णयेन एकया स्त्रिया तत्निर्णयः स्वीकृतः । यतः तस्य मनसि बालकस्य मृत्योः चिन्ता एव नासीत् । किन्तु या जन्मदात्री आसीत्, तया तन्निर्णयः नाङ्गीकृतः । तदा मङ्गलावत्या निर्णयः कृतः यत् – बालकः अस्याः एव अस्ति या अङ्गीकर्तुं नेच्छति । इयमेव जन्मदात्री अस्ति । यतः माता स्वस्य पुत्रं मृतत्वेन दृष्टुं न शक्नोति” <ref> तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 65<name="ReferenceA"/ref>।
 
यदा मया (राजा मेघः) अयं निर्णयः श्रुतः, तदा मङ्गलावत्याः कुशलतायाः अहं चकितो अभवम् । अतः मया ज्ञातं यत् – अयं गर्भस्थस्य शिशोः एव प्रभावः वर्तते”।
 
अन्ते राज्ञा मेघेन बालकस्य सुमतिकुमारः इति नाम विचारितम् । सर्वे जनाः अपि अनेन नाम्ना सन्तुष्टाः आसन् ।
 
===[[विवाहसंस्कारः|विवाहः]]===
 
यदा सुमतिकुमारः विवाहावस्थायां प्राविशत्, तदा राजा मेघः अनेकाभिः सुकन्याभिः सह तस्य विवाहं कारितवान् । भोगावलिकर्मणाम् आरम्भात् एव सुमतिकुमारः पञ्चेन्द्रियसुखानाम् उपभोगं कुर्वन् आसीत् । राज्ञा मेघेन सुसमयं निश्चित्य राजकुमारस्य सुमतेः राज्याभिषेकः कृतः आसीत् । ततः परं सः निवृत्तिं सम्प्राप्य साधनायै निर्गतवान् आसीत् <ref> तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 67</ref>।
 
==राज्यम्==
 
सुमतिकुमारः राज्यस्य उचितं सञ्चालनं कुर्वन् आसीत् । प्रजाजनानां मनसि राज्ञे आस्था आसीत् । जनाः सुमतिकुमारस्य प्रत्येकम् आदेशं स्वीकुर्वन्ति स्म । शासनव्यवस्था अपि सुष्ठुतया चलन्ती आसीत् ।
 
भोगावलीकर्माणि क्षीणानि जातानि । अनन्तरं लोकान्तिकदेवाः आगताः । देवानाम् अवबोधनेन राज्ञा सुमतिनाथेन वार्षिकीदानस्य प्रारम्भः कृतः । सः एकवर्षं यावत् दानं कृतवान् । सः जनेभ्यः सन्तुष्टिपूर्वकं दानं करोति स्म । वार्षिकीदानानन्तरं सुमतिनाथेन दीक्षायै राज्यं त्यक्तम् ।
पङ्क्तिः ८७:
===राजत्यागः, दीक्षा च===
 
भगवता [[अयोध्या]]<nowiki/>-नगर्यां [[वैशाख]]<nowiki/>-मासस्य शुक्लपक्षस्य [[नवमी|नवम्यां]] तिथौ [[मघा]]<nowiki/>-नक्षत्रे सहस्त्रजनैः सह दीक्षा अङ्गीकृता । आगामिदिने विजयपुरस्य राज्ञः पद्मनः गृहे भगवता सुमतिनाथेन प्रथमं भोजनं गृहीतम् आसीत् <ref name="ReferenceB">तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 68</ref>। सुमतिनाथः सर्वं त्यक्त्वा वैराग्यं प्रापत् ।
 
विंशतिवर्षाणि यावत् भगवान् सुमतिनाथः छद्मस्थकाले उत्कृष्टसाधनां कुर्वन् विचरति स्म । सः विचरणं कृत्वा पुनः अयोध्यानगरीम् अप्रापत् । [[चैत्र]]<nowiki/>-मासस्य शुक्लपक्षस्य [[एकादशी|एकादश्यां]] तिथौ [[मघा]]<nowiki/>-नक्षत्रे भगवान् सुमतिनाथः केवलज्ञानं प्राप्तवान् । तस्मिन् दिने लोकान्तिकदेवाः, चतुष्षष्टिः [[इन्द्रः|इन्द्राः]] च समुपस्थिताः अभवन् । भगवता तीर्थस्य स्थापना अपि कृता । जनैः अपि शक्त्यनुसारं व्रतोपवासाः अङ्गीकृताः ।
पङ्क्तिः ९३:
===धार्मिकः परिवारः===
 
यदा भगवान् सुमतिनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा सुमतिनाथेन धार्मिकपरिवारस्य अपि रचना कृता<ref> तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 68<name="ReferenceB"/ref>।
# १०० गणधराः
# १३,००० केवलज्ञानिनः
पङ्क्तिः १०७:
==निर्वाणम्==
 
यदा भगवता सुमतिनाथेन निर्वाणसमयः ज्ञातः, तदा सः सहस्रसाधुभिः सह सम्मेदशिखरं गतवान् । तत्र सः एकमासं यावत् अनशनञ्चकार । एकमासानन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वाणि कर्माणि नष्टानि जातानि । अनन्तरं सः सिद्धत्वं प्रापत् ।
 
[[चैत्र]]<nowiki/>-मासस्य शुक्लपक्षस्य [[नवमी|नवम्यां]] तिथौ [[पुनर्वसु]]<nowiki/>-नक्षत्रे सम्मेदशिखरे भगवतः सुमतिनाथस्य निर्वाणम् अभवत् । भगवता सह बहवः मुनयः अपि मोक्षं प्रापन् <ref> तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 58</ref>।
 
सुमतिनाथेन कौमारावस्थायां दशलक्षवर्षाणां, राज्ये एकोनत्रिंशल्लक्षवर्षाणां, दीक्षायां द्वादशपूर्वाङ्गं च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने चत्वारिंशल्लक्षवर्षाणि भुक्तानि आसन् <ref> तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 59</ref>।
{{जैनतीर्थङ्करक्रमः|शीर्षकम्=[[जैनतीर्थङ्कराः]] |पूर्वतनः=[[अभिनन्दननाथः]] |अग्रिमः=[[पद्मप्रभुः]]}}
{{जैनतीर्थङ्कराः}}
पङ्क्तिः १२३:
# [[पुराणानि]]
 
== बाह्यसम्पर्कतन्तुः ==
{{commons|Category:Jainism|{{PAGENAME}}}}
 
* [http://hi.bharatdiscovery.org/india/%E0%A4%B8%E0%A5%81%E0%A4%AE%E0%A4%A4%E0%A4%BF%E0%A4%A8%E0%A4%BE%E0%A4%A5 भारत डिस्कवरी - सुमतिनाथ]
* [http://hindi.webdunia.com/jain-religion/%E0%A4%9A%E0%A5%8C%E0%A4%AC%E0%A5%80%E0%A4%B8-%E0%A4%A4%E0%A5%80%E0%A4%B0%E0%A5%8D%E0%A4%A5%E0%A4%82%E0%A4%95%E0%A4%B0-%E0%A4%94%E0%A4%B0-%E0%A4%89%E0%A4%A8%E0%A4%95%E0%A5%87-%E0%A4%9A%E0%A4%BF%E0%A4%B9%E0%A5%8D%E0%A4%A8-112092100011_1.htm चौबीस तीर्थङ्कर ]
पङ्क्तिः १३८:
* [http://hi.encyclopediaofjainism.com/index.php?title=%E0%A5%A6%E0%A5%AB._%E0%A4%B8%E0%A5%81%E0%A4%AE%E0%A4%A4%E0%A4%BF%E0%A4%A8%E0%A4%BE%E0%A4%A5_%E0%A4%AD%E0%A4%97%E0%A4%B5%E0%A4%BE%E0%A4%A8_%E0%A4%95%E0%A4%BE_%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%9A%E0%A4%AF सुमतिनाथ भगवान का परिचय]
 
[[वर्गः:जैनतीर्थङ्कराः]]
{{शिखरं गच्छतु}}
 
[[वर्गः:जैनतीर्थङ्कराः]]
"https://sa.wikipedia.org/wiki/सुमतिनाथः" इत्यस्माद् प्रतिप्राप्तम्