"चरकः" इत्यस्य संस्करणे भेदः

श्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ३:
(कालः – क्रि. पू. ३२०)
 
अयं '''चरकः''' (Charaka) वैद्यविज्ञानस्य आचार्यः इत्येव सुप्रसिद्धः । चरकस्य जन्मकालः वा मातापित्रोः विषयः वा न ज्ञायते । बौद्धराजस्य [[कानिष्कः|कानिष्कस्य]] आस्थाने क्रि. पू. ३२० अवधौ आस्थानवैद्यः आसीत् अयं चरकः इति विषयः केवलं ज्ञातः अस्ति । अयं चरकः साक्षात् आदिशेषस्य अवतारः इत्येव तदानीन्तने काले प्रतीतिः आसीत् । आचार्यः [[सुश्रुतः]] इव आचार्यः चरकः अपि चिकित्सायाः विधानानि (क्रमान्) "वैद्यसंहितायां” निरूपितवान् अस्ति । स च ग्रन्थः वैद्यजगति अद्यापि उपयुज्यतेउपयुज्य । आचार्यः चरकः तावत् पर्यन्तं विद्यमानं वैद्यज्ञानम् अष्टसु भागेषु विभज्य '''“अष्टाङ्ग – आयुर्वेदः”''' इति नामकरणम् अपि अकरोत् । [[कर्णः|कर्ण]]सम्बद्धाः, [[नेत्रम्|नेत्र]]सम्बद्धाः, [[नासिका]]सम्बद्धाः, [[मुखम्|मुख]]सम्बद्धाः, [[कण्ठः|कण्ठ]]सम्बद्धाः च रोगाः तथा शस्त्रचिकित्सा, विषविज्ञानं, मनश्चिकित्सा, बालानां रोगाणां चिकित्सा, पुनरुज्जीवनं, वैद्यविज्ञानं, पौरुषीकरणम् इत्येते एव तेन कृताः अष्ट विभागाः ।
 
अयम् आचार्यः चरकः २५ विधान् ज्वरान्, [[उदरम्|उदरस्य]] बहुविधान् शोथान्, [[कामला|कामलारोगं]], मूत्रसम्बद्धान् रोगान्, [[मधुमेहः|मधुमेहं]], [[कुष्ठरोगः|कुष्ठरोगं]], श्वासकोशस्य क्षयरोगं, [[हृदयम्|हृदय]]सम्बद्धान् रोगान् च वर्णितवान् अस्ति । यथा वेदना न ज्ञायेत तथा करणस्य औषधीयस्य द्रवांशस्य विषयम् अपि सः ग्रन्थे प्रस्तुतवान् अस्ति । पञ्चशताधिकानाम् (५००) औषधीयसस्यानां प्रयोजनं, तेषां चिकित्साविधानं, प्रणिजन्यानां वस्तूनां निर्माणं, तथा च [[खनिजम्|खनिजानां]] विषये अपि आचार्यः चरकः जानाति स्म । तानि सर्वाणि बलवर्धकानि, शामकानि, विरेचकानि, शुद्धिकारकाणि, वमनकारकाणि, कमोद्दीपकानि इति विभक्तवान् अपि । अनेकविधान् विषप्रयोगान्, विषहारिणाम् उपयोगम् अपि जानाति स्म आचार्यः चरकः । सः स्वीये ग्रन्थे पथ्यविषयं, शुद्धवायुविषयं, [[सूर्यः|सूर्यस्य]] प्रकाशस्य विषयं, भाष्पप्रयोगं, स्वच्छतां च पौनःपुन्येन लिखितवान् अस्ति । सार्वजनिकानां चिकित्सालयानां, प्रसूतिचिकित्सालयस्य, बालानं चिकित्सालयस्य च रचनायाः तथा निर्वहणस्य अपि ज्ञानम् आसीत् अस्य चरकस्य ।
"https://sa.wikipedia.org/wiki/चरकः" इत्यस्माद् प्रतिप्राप्तम्