"नृसिंहजयन्ती" इत्यस्य संस्करणे भेदः

(लघु) Bot: + {{Interwiki conflict}}
नुमागमभावः using AWB
पङ्क्तिः १३:
 
[[चित्रम्:Narasimha oil colour.jpg|thumb|200px|right|'''हिरण्यकशिपुम् अङ्के संस्थाप्य संहरन् नरसिहः । प्रह्लादः पार्श्वे स्थित्वा पश्यति ।''']]
 
 
भगवतः महा[[विष्णुः|विष्णोः]] पञ्चमः अवतारः एव नृसिंहावतारः । एषः अवतारः [[महाभारतम्|महाभारते]], [[हरिवंशम्|हरिवंशे]], [[विष्णुपुराणम्|विष्णुपुराणे]], [[भागवतम्|श्रीमद्भागवते]], [[शिवपुराणम्|शिवपुराणे]], अध्यात्मशास्त्रेषु [[इतिहासः|इतिहासे]] च वर्णितः अस्ति । सः नृसिंहः त्रिमूर्तिः पर[[ब्रह्मा|ब्रह्मस्वरूपी]] च । नाभिपर्यन्तं ब्रह्मरूपः, कण्ठपर्यन्तं विष्णुरूपः, शिरपर्यन्तं रुद्ररूपः इति उच्यते ।
Line २२ ⟶ २१:
श्रीमद्भागवते नरसिंहावतारः एवं वर्णितः अस्ति –
 
[[वैकुण्ठम्|वैकुण्ठस्य]] द्वारपालकौ [[जयविजयौ]] सनकादिमुनीनां शापकरणतः असुरजन्म प्राप्नुवन्ति । तेषु त्रिषु असुरजन्मसु प्रथमं जन्म एव [[हिरण्याक्षः|हिरण्याक्ष]]-[[हिरण्यकशिपुः|हिरण्यकशिपोः]] । महाविष्णुः [[वराहावतारः|वराहावतारेण]] हिरण्याक्षं संहरति । तेन कुपितः हिरण्यकशिपुः भगवद्भक्तान् सज्जनान् देवान् च बहुधा पीडयितुम् आरब्धवान् । तीक्ष्णं तपः आचर्य '''नरैः वा मृगैः वा, सुरासुरोरगैः वा, ब्रह्मणा सृष्टेन येनकेनापि प्राणिना वा, दिवा वा रात्रौ वा, भूमौ वा आकाशे वा, गृहस्य अन्तः वा बहिः वा, येन केनापि आयुधेन वा मम मृत्युः न सम्भवेत् । सर्वत्रापि मम एकाधिपत्यं च भवेत् ।''' इति ब्रह्मसकाशात् वरं प्राप्नोत् । तस्य वरस्य बलेन लोककण्टकः सञ्जातः । हिरण्यकशिपोः पुत्रः [[प्रल्हादः|प्रह्लादः]] । राज्ञः आज्ञानुगुणं [[शुक्राचार्यः|शुक्राचार्यस्य]] शिष्याः तम् असुरसिद्धान्तं बोधितवन्तः । पित्रा यदा प्रश्नः कृतः तदा सः '''“विष्णुभक्तिरेव श्रेष्ठा”''' इत्यवदत् । पुनः पुनः पृष्टे सति तदेव उत्तरं प्राप्य कुपितः हिरण्यकशिपुः पुत्रं प्रह्लादं संहर्तुम् आदिष्टवान् । तदनुगुणं दैत्यभटाः तं शूलादि आयुधैः, विषसर्पैः, दिग्गजैः, अभिचारक्रियाभिः इत्यादिभिः बहुविधोपायैः मारयितुं प्रयत्नम् अकुर्वन् । किन्तु ते तस्मिन् कर्मणि सफलाः नाभवन् । तदा क्रुद्धः हिरण्यकशिपुः सन्ध्यासमये प्रह्लादं सभाम् आहूय सर्वेषां पुरतः खड्गपाणिः सन् '''“कुत्र अस्ति भवतः विष्णुः ? भवता सर्वव्यापी इति उच्यमानः सः अस्मिन् स्तम्भे अपि अस्ति वा ? यदि अत्र सः न दृश्यते तर्हि भवन्तम् अत्रैव मारयामि”''' इति वदन् [[स्तम्भः|स्तम्भं]] मुष्ट्या अताडयत् । तदा तस्मात् स्तम्भात् भीकरं गर्जनं श्रुतम् । ततः कण्ठपर्यन्तं नररूपः तदुपरि [[सिंहः|सिंहरूपः]] च उग्रमूर्तिः नृसिंहः आविर्भूतः ।
 
:'''सत्यं विधातुं निजभृत्यभाषितम् ।'''
Line २९ ⟶ २८:
:'''स्तम्भे सभायां न मृगं न मानुषम् ॥'''
 
तत्रैव तं हिरण्यकशिपुं सभायाः देहल्याम् उपविश्य (गृहस्य अन्तः अपि न बहिः अपि न) नखैः तस्य [[उदरम्|उदरं]] विदार्य (केनापि आयुधेन न) समहरत् । सन्ध्याकालः दिनम् अपि न रात्रिः अपि न । नृसिंहः मनुष्यः अपि न पाणिरपि न, ब्रह्मसृष्टिरपि न ।
 
सृष्टेः आरम्भे ब्रह्मा एतत् व्रतम् आचर्य एव सृष्टिकार्यम् आरब्धवान् इति । रुद्रदेवः अपि एतत् व्रतम् आचर्य [[त्रिपुरासुरः|त्रिपुरासुर]]संहारस्य सामर्थ्यं प्राप्नोत् इति । अस्य व्रतस्य महत्त्वं ब्रह्म-शिवादिभिः स्वयं नृसिंहेन अपि वर्णयितुं न शक्यते इति वदन्ति शास्त्राणि ।
 
{{Interwiki conflict}}
 
[[वर्गः:जयन्त्युत्सवाः]]
पङ्क्तिः ३९:
 
[[new:नख:]]
{{Interwiki conflict}}
"https://sa.wikipedia.org/wiki/नृसिंहजयन्ती" इत्यस्माद् प्रतिप्राप्तम्