"सोमनाथः" इत्यस्य संस्करणे भेदः

उद्धरणम्, replaced: == सन्दर्भः == → == उद्धरणम् == using AWB
पङ्क्तिः ५३:
चन्द्रस्थापितम् एतन्मन्दिरं बहुवारं ध्वस्तं जातमस्ति । परन्तु सर्वदा शिवभक्ताः एतस्य पुनर्निर्माणं कृतवन्तः । सर्वप्रथमं [[चन्द्रः]] इदं मन्दिरं स्वर्णेन निर्मापितवान्, यस्य ध्वंसानन्तरं [[रावणः]] रजतेन मन्दिरस्य पुनर्निर्माणं कारितवान्, अस्यापि ध्वंसानन्तरं भगवान् [[विष्णुः]] चन्दनकाष्ठैः अस्य मन्दिरस्य पुनर्निर्माणं कारयामास । तदनन्तरमपि अस्य मन्दिरस्य ध्वंसः, पुनर्निर्माणश्च बहुवारं अभूत् ।[[चित्रम्:OldSom.jpg|thumb|right|200px|<center>'''ध्वस्तं सोमनाथमन्दिरम्'''</center>]] ७२५ तमे वर्षे 'जूनायद' नामकः 'आरब'शासकः एतन्मन्दिरम् अलुण्ठत् अध्वंसत च । ततः ८१५ तमे वर्षे नागभट्टनामकः कश्चन राजा पुनर्निर्माणं कारितवान् । पुनः १०२६ तमे वर्षे 'महमद गजनी' नामकः यवनराजा मन्दिरम् अलुण्ठत् । एषोऽपि मन्दिरं ध्वस्तं कृतवान् परन्तु कथं चेद् असख्यकानां यात्रिकानां वधं कृत्वा, अन्ते मन्दिरं अग्निसात्करोत् । पश्चाद् १०२६-१०४२ मध्ये राजा भीमदेवः पुनर्निर्माणं कारितवान् । १७०६ तमे वर्षे मोगल राजा औरङ्गजेब सोमनाथं अलुण्ठत् अध्वंसत च ।
 
सम्पूर्णे इतिहासे सोमनाथ-मन्दिरस्य बहुवारं नाशः अभवत् । बहवः यवनराजानः, मुगलराजानः च सोमनाथ-मन्दिरस्य सम्पत्तिं लुण्ठितवन्तः ।
 
* सोमनाथस्य प्रथमं मन्दिरं ईसाई-युगस्य प्रारम्भे एव अभवत् इति उच्यते <ref name="http://www.indianholiday.com">{{cite web |title=History of Somnath temple, History of somnath gujarat|url=http://www.indianholiday.com/somnath/history-of-somnath.html|publisher=http://www.indianholiday.com|accessdate=17 March 2015}}</ref>। तदनन्तरं गुजरात-राज्यस्य वल्लभी-प्रदेशस्य मैतृक-राजभिः सोमनाथ-मन्दिरस्य द्वितीयवारं निर्माणं कारितम् आसीत्<ref name="History of Ghazni Mahumud">{{cite web |title=History of Ghazni Mahumud|url=http://www.winentrance.com/general_knowledge/history/mahumud-ghazni.html|publisher=http://www.winentrance.com/|accessdate=17 March 2015}}</ref> ।
* पुनश्च ई. स. ७२५ तमे वर्षे सिन्ध-प्रदेशस्य अरबशासकेन द्वितीयमन्दिरस्य नाशं कर्तुं स्वस्य सैन्यं प्रेषितम् आसीत् ।
* तदनन्तरं ई. स. ८१५ तमे वर्षे प्रतिहार-वंशस्य राज्ञा नागभट्टद्वितीयेन सोमनाथस्य तृतीयमन्दिरस्य रक्तसिकतापाषाणैः निर्माणं कारितम्<ref>{{cite web |title=History of Somnath temple, History of somnath gujarat|urlname="http://www.indianholiday.com"/somnath/history-of-somnath.html|publisher>,<ref name=http://www.indianholiday.com|accessdate=17"Somnath MarchTemple 2015}}</ref>,Gujarat <refHistory">{{cite web |title=Somnath Temple Gujarat History|url= http://trimbakeshwar.in/somnath/Somnath-temple-gujarat-history.aspx |publisher= http://trimbakeshwar.in|accessdate=17 March 2015}}</ref>।
* पुनश्च गजनी-साम्राज्यस्य महमूद इत्याख्येन ई. स. १०२६ तमे वर्षे मन्दिरस्य नाशं कृतम् । तेन [[शिवः|शिवलिङ्गम्]] अपि त्रोटितम् । अतः प्रमुखशिवलिङ्गं पूर्णतया नष्टम् जातम् आसीत् ।
* ई. स. १०२६ तमे वर्षे चतुर्थवारं मालवा-प्रान्तस्य [[परमारवंशः|परमार]]<nowiki/>-वंशस्य राज्ञा भोजेन मन्दिरस्य निर्मार्णं कारितम् । पुनश्च ई. स. १०४२ तमे वर्षे गुजरात-राज्यस्य [[सोलङ्कीवंशः|सोलङ्की]]<nowiki/>-वंशस्य राज्ञा भीमेन अपि अस्य पुनर्निर्माणं कारितम् आसीत् ।
* काष्ठैः मन्दिरस्य निर्माणं कारितम् आसीत् । अतः सोलङ्की-वंशस्य राज्ञा [[कुमारपाल|कुमारपालेन]] पुनः पाषाणैः मन्दिरस्य निर्माणं कारितम् आसीत् ।
* पुनश्च १३०० तमे वर्षे अलफ खान इत्याख्येन राज्ञा मन्दिरं नाशितम् <ref>{{cite web |titlename="Somnath Temple Gujarat History|url= http://trimbakeshwar.in/somnath/Somnath-temple-gujarat-history.aspx |publisher= http://trimbakeshwar.in|accessdate=17 March 2015}}<"/ref> ।
* तदनन्तरं ई. स. १३९४ तमे वर्षे [[गुजरातराज्यम्|गुजरात]]<nowiki/>-राज्ये पुनः [[देहली]]<nowiki/>-साम्राज्यस्य सार्वभौमत्वम् अभवत् । ई. स. १७०६ तमे वर्षे औरङ्गजेब् इत्याख्येन मुगल-राज्ञा मन्दिरस्य नाशः कृतः ।<ref>{{cite web |titlename="History of Ghazni Mahumud|url=http://www.winentrance.com/general_knowledge/history/mahumud-ghazni.html|publisher=http://www.winentrance.com/|accessdate=17 March 2015}}<"/ref>
 
===लुण्ठकः “महमद”===
पङ्क्तिः ७६:
कोडीनार-प्रदेशानन्तरं मार्गे कोऽपि तेन सह युद्धं कर्तुं समर्थः नासीत् । यदा सः [[गीर]]<nowiki/>-प्रदेशस्य सीमां प्राप्तवान् आसीत्, तदा गीर-प्रदेशस्य आदिवासिजनैः तेन सह युद्धं कृतम् । तस्मिन् युद्धे महमद-इत्याख्यस्य बहवः सैनिकाः मृताः ।
 
१०२६ तमस्य वर्षस्य [[जनवरी]]<nowiki/>-मासे महमद सोमनाथ प्रभास-नगरं प्राप्तवान् आसीत् <ref>{{cite web |titlename="History of Ghazni Mahumud|url=http://www.winentrance.com/general_knowledge/history/mahumud-ghazni.html|publisher=http://www.winentrance.com/|accessdate=17 March 2015}}<"/ref>।। साम्प्रतं प्रभास-नगरं सोमनाथ इति नाम्ना ज्ञायते । यदा सः सोमनाथ-नगरं प्राप्तवान् आसीत्, तदा सोमनाथमन्दिरस्य रक्षणार्थं सैन्यम् एव नासीत् । यतो हि [[भारतवर्षम्|भारतवर्षे]] तस्य मन्दिरस्य प्रतिष्ठा आसीत् यत् - कोपि भारतीयराजा तस्य मन्दिरस्य हानिं न कुर्यात् ।
 
यदा महमद इत्ययं स्वस्य सैन्येन सह सोमनाथ-मन्दिरं प्राप्तवान्, तदा तत्रत्यैः क्षत्रियैः लघुसैन्यं रचितम् । क्षत्रियाः लघुसैन्येन एव युद्धम् अकुर्वन् । तद्युद्धं आदिनम् अभवत् । रात्रौ युद्धस्य विरामः अभवत् । अपरे दिने प्रातःकाले पुनः महमद इत्याख्येन आक्रमणं कृतम् । तावत्पर्यन्तं रा’नवघण इत्याख्यः राजा सोमनाथ-मन्दिरस्य रक्षणार्थं प्राप्तवान् आसीत् ।
पङ्क्तिः ८४:
यदा रक्षकाः आनन्दोत्सवम् आमनन्तः आसन्, तस्मिन् समये महमद-इत्यनेन सहसा एव रक्षकेषु आक्रमणं कृतम् । तस्मिन् आक्रमणे बहवः रक्षकाः मृताः ।
 
तदनन्तरं तेन मन्दिरस्य नाशं कृत्वा सोमनाथ-महादेवस्य लिङ्गं परिखण्डितम् <ref>{{cite web |titlename="History of Ghazni Mahumud|url=http://www.winentrance.com/general_knowledge/history/mahumud-ghazni.html|publisher=http://www.winentrance.com/|accessdate=17 March 2015}}<"/ref>। यदा लिङ्गं खण्डितं जातं, तदा लिङ्गस्य अधस्तात् बहूनि रत्नानि, द्रव्यानि च प्राप्तानि अभवन् । तेषां द्रव्याणां तुलना अपि अशक्या । तस्मिन् युद्धे पञ्चाशत्सहस्रं भारतीयसैनिकाः हताः ।
 
====प्रतिगमनम्====
पङ्क्तिः १०८:
महमद इत्यनेन यावती सम्पत्तिः लुण्ठिता, तस्य अतिशयोक्तिपूर्णं वर्णनं कृतम् अस्ति । अस्य प्रसङ्गानुसारं बहुभिः यवनलेखकैः स्वस्य लेखेषु वर्णनं कृतम् अस्ति । किन्तु तद्वर्णनं अतिशयोक्तिपूर्णम्, अविश्वसनीयं च वर्तते ।
 
यतो हि तेषां लेखेषु यद्वर्णितम् अस्ति तस्मिन् केवलं – “रक्षकाः मन्दिरस्य रक्षणार्थं युद्धं कृतवन्तः । पञ्चसहस्रं रक्षकाः हुतात्मनः अभवन्” इत्यादि सर्वं वर्णनं सत्यं वर्तते । अन्यं सर्वम् अतिशयोक्तिपूर्णम् अविश्वसनीयं च वर्णनं वर्तते ।
 
ये इतिहासस्य लेखकाः आसन्, तैः अपि अस्य प्रसङ्गस्य उल्लेखः कुत्रापि न कृतः । [[हेमचन्द्राचार्यः|हेमचन्द्राचार्य]]<nowiki/>तः सोमेश्वरपर्यन्तं सर्वे लेखकाः अस्य प्रसङ्गस्य विषये किमपि न लिखितवन्तः ।
 
महमद इत्याख्यस्य ‘अल् उत्ली’ इति नामकेन लेखाधिकारिणा (Secretary) ई. स. १०३१ तमे वर्षे खिताब इयमीनी इति लिखितम् आसीत् । तस्मिन् अपि तेन अस्य प्रसङ्गस्य विषये किमपि न वर्णितम् ।
 
अक् गार्डीझी इत्याख्यः एकः अरब-भाषायाः लेखकः आसीत् । ई. स. १०४९ तः १०५२ वर्षपर्यन्तं अल् गार्डीझी इत्याख्येन झइन् उल् अखबार इति नामकं पुस्तकं लिखितम् आसीत् । तस्मिन् पुस्तके तेन एव अस्य प्रसङ्गस्य सर्वप्रथमः उल्लेखः कृतः आसीत् ।
 
अतः "सोमनाथस्य नाशस्य प्रसङ्गः एव न अभवत्" इति नास्ति इति स्पष्टं भवति । किन्तु प्रसङ्गस्य द्विशतं वर्षाणि यावत् यवनलेखकैः ये लेखाः लिखिताः । तेषु लेखेषु अतिशयोक्तियुताः बहवः लेखाः सन्ति । ते लेखाः सम्यक्तया परिशीलनीयाः भवन्ति ।
पङ्क्तिः १२२:
यः जनः अन्यधर्मस्य कलात्मकभवनानां नाशे, लुण्ठने, युद्धे, स्त्रीणाम् अपहरणे इत्यादिषु नीचकार्येषु एव स्वस्य धर्मः इति कथयति, तेन इस्लाम-धर्मस्य सर्वे नियमाः उल्लङ्घिताः ।
 
महमद इत्याख्येन मथुरा-नगरस्य केशवदेवस्य मन्दिरस्य नाशः कृतः आसीत् । अतः यः स्थापत्यप्रेमी भवति, सः एतावत् कार्यं कथं कर्तुं शक्नोति ?
 
महमद इत्याख्यस्य ‘अल् उत्ली’ इति नामकेन लेखाधिकारिणा (Secretary) मन्दिरस्य विषये उक्तं यत् – “इदं मन्दिरं समृद्धं आसीत् । सर्वोत्कृष्टाः निर्मातारः अपि २०० वर्षेषु अपि एतावत् सुन्दरं कार्यं कर्तुं न शक्नुवन्ति” ।
पङ्क्तिः २०७:
http://www.mapsofindia.com/gujarat/temples/somnath-temple.html
 
== उद्धरणम् ==
== सन्दर्भः ==
{{reflist}}
 
{{शिखरं गच्छतु}}
 
[[वर्गः:द्वादश ज्योतिर्लिङ्गानि]]
Line २१४ ⟶ २१६:
[[वर्गः:गुजरातस्य तीर्थक्षेत्राणि]]
[[वर्गः:हिन्दुदेवालयाः]]
{{शिखरं गच्छतु}}
"https://sa.wikipedia.org/wiki/सोमनाथः" इत्यस्माद् प्रतिप्राप्तम्