"शालिकनाथः" इत्यस्य संस्करणे भेदः

==शालिकनाथः== प्रभाकरमतानुगामिनां मध्ये शिष्य... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०४:३३, ३ नवेम्बर् २०१५ इत्यस्य संस्करणं

शालिकनाथः

प्रभाकरमतानुगामिनां मध्ये शिष्यमूर्धन्योऽयं शालिकनाथः।

देशः

कुसुमाञ्जलिकारेण उदयनाचार्येण ‘गौडमीमांसकः’ उद्धृतः। गौडमीमांसकशालिकनाथयोरभिन्नता च वरदराजाचार्यः ‘बोधिनी’ इति टीकायां वदति। ततश्च गौडदेशवासी अयमिति सिद्ध्यति।

कालः

नवमशतकोत्पन्नेन वाचस्पतिमिश्रेण शालिकनाथविरचितात् ‘ऋजुविमलापञ्चिका’ इति व्याख्यानग्रन्थात् बहूनि वचनानि उद्धृतानि। तेन च मिश्रात् प्राचीनोऽयमिति सिद्ध्यति। शालिकनाथश्च मण्डनमिश्रवचनान्युद्धृतवान्। ततश्च मण्डनात् अर्वाचीनत्वमस्य सिद्ध्यति। एवञ्च नवमशतकात्प्राक् अयमुत्पन्नः इति वक्तुं शक्यते।

कृतिः

महाभागेनानेन पञ्चिकात्रयं लिखितम्− १) ऋजुविमलापञ्चिका− प्रभाकरविरचितबृहतीग्रन्थमधिकृत्य टीकेयं रचिता। २) दीपशिखा− लघ्वीव्याख्यानस्य टीकेयम्। ३) प्रकरणपञ्चिका− स्वतन्त्रोऽयं प्रभाकरसम्प्रदायमतपोषकः प्रकरणग्रन्थः। ग्रन्थेऽस्मिन् स्वाध्यायविधिः, पञ्चप्रमाणानि, आत्मविचारः, वाक्यार्थावगमः इत्यादिविषया विस्तरेण चर्चिताः।

"https://sa.wikipedia.org/w/index.php?title=शालिकनाथः&oldid=322140" इत्यस्माद् प्रतिप्राप्तम्