"कुमारिलभट्टः" इत्यस्य संस्करणे भेदः

=
पङ्क्तिः ३:
‘अवादिषं वेदविघातदक्षैस्तन्नाशकं जेतुमबुध्यमानः।
तदीयसिद्धान्तरहस्यवार्धीन् निषेध्यबोधाद्धि निषेध्यबाधः॥’ <ref>शङ्करदिग्विजये, ७.९३।</ref>इति।</poem>
===देशः===
 
केचन भट्टेत्युपाधिमाश्रित्य दाक्षिणात्योऽयमिति वदन्ति। तन्न चारु। श्रूयते यत् भट्टाः आदौ उत्तरभारते आसीत्, ते च परं दक्षिणदेशमानीताः। अतः तस्य उत्तरभारतीयत्वमेव स्वीकर्तुं युक्तम्। आनन्दगिरिणाप्युदितं− ‘भट्टाचार्याख्यो द्विजवरः कश्चित् उदग्देशात् समागत्य दुष्टमतावलम्बिनो बौद्धान् जैनान् असंख्यातान्निर्जित्यनिर्भयो वर्तते।’ इति। एतेनापि तस्य उत्तरदेशीयत्वं समर्थितं भवति।
 
===कालः===
 
शङ्कराचार्येण सह कुमारिलभट्टस्य साक्षात्कारः कुमारिलभट्टस्य अन्तिमसमये त्रिवेणीतटे जातः इति इतिहासप्रसिद्धः। अतः अष्टमनवमशतकोत्पन्नात् शङ्करात्‌ प्राचीनस्यास्य सप्तमशतकोत्पन्नत्वं स्वीकर्तुं युक्तम्। गजाननमहोदयः अपि ६२०-७०० ख्रीष्टाब्दः कुमारिलस्य कालः इति वक्ति। डा. गंगासागररायमहोदयोऽपि ‘श्लोकवार्तिकम्’ इति ग्रन्थस्य प्रास्ताविके मीमांसकशिरोमणेरस्य सप्तमशतकोत्पन्नत्वमुद्घोषयति− ‘श्रीकुमारिलभट्टपादाः सप्तमशताब्द्यां शङ्कराचार्यसमकालिकाः स्कन्दावतारत्वेन प्रसिद्धा अभूवन्।’<ref>गंगासागररायसम्पादितं श्लोकवार्तिकम्(प्रास्ताविकम्), पृष्ठम्- १०।</ref>
 
===कृतिः===
 
भट्टकुमारिलेन शाबरभाष्यस्य व्याख्यानं चक्रे। तच्च ‘वार्तिकम्’ इति नाम्ना प्रसिद्धिमगात्। शाबरभाष्योपरि ग्रन्थत्रयं तेन व्यरचि−
 
====१) श्लोकवार्तिकम्====
 
अनुष्टुप्छन्दसा प्रथमाध्यायस्य प्रथमपादस्थभाष्यमर्थात् तर्कपादस्थभाष्यमाश्रित्य श्लोकाकारेण ग्रन्थोऽयं निरमायि। श्लोकाकारेण निबन्धनात् ‘श्लोकवार्तिकम्’ इति शीर्षकमिति सुधियः। ग्रन्थेऽस्मिन् ३०९९ श्लोका विलसन्ति।
 
====२) तन्त्रवार्तिकम्====
 
प्रथमाध्यायस्य द्वितीयपादमारभ्य तृतीयाध्यायान्तं यावत् विरचितं मीमांसाभाष्यमधिकृत्य गद्यपद्यमयमिमं ग्रन्थं विरचयामास कुमारिलः। केचन कथयन्ति यत् द्वितीयपादमारभ्य तृतीयाध्यायस्य तृतीयपादं यावत् स्थितं भाष्यमादाय ग्रन्थमिमं निर्मितवान्।
 
====३) टुप्टीका====
 
तृतीयाध्यायात् द्वादशाध्यायपर्यन्तं रचितस्य भाष्यस्य गद्यपद्यात्मिकेयं टिप्पणी। ग्रन्थस्यास्य अनुष्टुप्छन्दोवद् अतिसंक्षिप्ताक्षरतया तादृशार्थसूचकम् ‘अनुष्टुप्टीका’ इति नाम वदन्तो जना अनुष्टुप्टीकेति नाम्नोऽपि संक्षिप्ताक्षरतां सम्पादयितुमिव ‘टुप्टीका’ इति व्यवहर्तुं प्रारब्धवन्तः इति तत्त्वविदो वदन्ति। एषैव च ‘लघुवार्तिकम्’ इति नाम्नापि सम्प्रदाये प्रसिद्धम्।
"https://sa.wikipedia.org/wiki/कुमारिलभट्टः" इत्यस्माद् प्रतिप्राप्तम्