"सीता" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
(विरचय्य)
No edit summary
 
 
सीतायाः पात्रं रामायणपात्रप्रपञ्चे विशिष्टं स्थानं भजते ।अयोनिजा। अयोनिजा '''सीता''' [[रामः।श्रीरामचन्द्रस्यरामः|श्रीरामचन्द्रस्य]] धर्मपत्नी । [[जनकः।जनकजनकः|जनक]]महाराजस्य पुत्री । [[कुशः।कुशकुशः|कुश]][[लवः।लवलवः|लव]]योः माता ।
 
== जननम् ==
 
== वनगमनम् ==
सीतायाः विवाहानन्तरं दशरथः यदा श्रीरामस्य राज्याभिषेकं कर्तुम् उद्युक्तः । तदा मन्थरायाः कौटिल्यात् कैकेयी रामस्य वनगमनार्थम् आग्रहं कृतवती । तदा पितृवाक्यं परिपालयितुं रामः वनं गन्तुमुद्युक्तः । तदा सीतापि रामेण सह वनं प्रति गन्तुं सिद्धा । परं रामः निराकृतवान् । तथापि राम एव परमं दैवतम् इति मत्वा सीता रामेण सह वनं गन्तुम् आग्रहं कृतवती ।रामः। रामः अङ्गीकृतवान् ।सीता। सीता रामेण सह वनं गतवती। कष्टमपि सुखं मत्वा रामेण सह वनवासमकरोत् ।
 
== सीतापहरणम् ==
वनवाससन्दर्भे पञ्चवट्यां राम[[लक्ष्मणः।लक्ष्मणलक्ष्मणः|लक्ष्मण]]सीतादयः कुटीरे उषितवन्तौ । तदा रावणस्यानुजा [[शूर्पणखा]] प्रच्छन्नवेषेण युवतीवेषं धृत्वा रामस्य सकाशमागत्य तं परिणेतुं वाञ्छति ।परं। परं मर्यादापुरुषोत्तमः रामः तामवगत्य तस्याः नासाच्छेदमकरोत् । सा प्रकरणमेनम् अग्रजस्य रावणस्य सकाशे निवेदयति ।क्रुद्धः। क्रुद्धः रावणः प्रतीकारं साधयितुं चिन्तितवान् । मातुलस्य मारीचस्य साहाय्यं च प्राप्तवान् । [[मारीचः]] सुवर्णहरिणरूपं धृत्वा कुटीरप्रान्ते अटन् आसीत् । हेममृगं दृष्ट्वा सीता तं प्राप्तुम् इष्टवती । रामस्य समीपे तं मृगम् आनेतुं सूचयति ।परन्तु। परन्तु रामः तस्य मृगस्य कापट्यं ज्ञात्वा सीतां वारयति । परं सीता हठेन तं मृगम् आनेतुं वदति ।सीतायाः आग्रहं सोढुम् अशक्तः रामः कुटिरे सीतायाः रक्षणार्थं लक्ष्मणं नियोज्य तं मृगमनुसृत्य गतवान् । किञ्चित्समयानन्तरं 'हा लक्ष्मण! हा सीते!'इति चीत्कारध्वनिः श्रूयते ।तदा। तदा भीता सीता रामस्यैव ध्वनिरयम् इति मत्वा तस्य रक्षणार्थं लक्ष्मणं गन्तुं सूचयति । किन्तु इदं कापट्यम् इति लक्ष्मणः सीतायै कथयति ।तदा। तदा लक्ष्मणः सीतायाम् अनुरक्तः सन् इत्थं कथयतीति मत्वा सीता तं भर्त्सयति । तदा अगतिकगत्या लक्ष्मणः सीतायाः रक्षणार्थं कुटीरस्य पुरतः रेखाः विरचय्य तदतिरिच्य बहिः मा आगच्छतु इति उक्त्वा ध्वनिमनुसृत्य गतवान् । तदा प्रच्छन्नवेषेण सन्यासीरूपं धृत्वा भिक्षाटनं कुर्वन् रावणः कुटीरस्य समीपमागतवान् ।सीता। सीता भिक्षां दातुं कुटीरात् बहिरागता ।तदा। तदा कापट्येन रावणः सीताम् अपहृत्य पुष्पकविमाने लङ्कां प्रति नीत्वा अशोकवने स्थापितवान् ।
 
== सीतायाः पातिव्रत्यम् ==
[[चित्रम्:Sita Mughal ca1600.jpg।right।200px।thumb।मुघल् चित्रकलायाम् अग्निप्रवेशं कुर्वती सीता, ca. 1600</small>]]
सीता पतिव्रतासु अन्यतमा ।रावणेन। रावणेन सीतायाः अपहरणानन्तरमपि अशोकवने सीता रामध्याने एव मग्ना आसीत् । रावणः बहुवारं सीतायाः सकाशं गच्छति चेदपि सीता तस्य मुखमपि न पश्यति । रावणवधानन्तरं अग्निप्रवेशेन स्वस्याः पातिव्रत्यं लोकमुखाय दर्शयति ।
:::::::::[[अहल्या]] [[द्रौपदी]] सीता [[तारा]] [[मण्डोदरी]] तथा ।
:::::::::पञ्चकं ना स्मरेन्नित्यं महापातकनाशनम् ।।
२,६५६

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/322488" इत्यस्माद् प्रतिप्राप्तम्