"कविः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
'''कविः''' दार्शनिकः भवति । काव्यस्य प्रणेता भवति । [[वाल्मीकिः|वालमिकिः]] आदिकविः इति प्रसिद्धः । जयन्तु ते सुकृतिनो रससिद्धाः कवीश्वराः। नास्ति एषां यशः काये जरामरणजं भयम्॥ इति उक्तिः प्रसिद्धा एव ।
 
एकदा वृद्धो विद्वान् पृष्ठः - “कान् ग्रन्थान् पठित्वा एतादृशं ज्ञानं प्रप्यते भवता” इति । सोऽपि विद्वान् “मेघे माघे गतं वयः” इति प्रत्यवदत्। अर्थात् कालिदासस्य[[कालिदासः|कालिदास]]स्य मेघदूतखण्डकाव्यं[[मेघदूतम्|मेघदूत]]खण्डकाव्यं तथा माघस्य[[माघ|माघ]]स्य शिशुपालवधमहाकाव्यं[[शिशुपालवधम्|शिशुपालवध]]महाकाव्यं च पठनेन तस्य सम्पूर्णवयः समाप्तम्। तस्य ज्ञानं च तावेव ग्रन्थौ पठित्वा वर्धितम्।
कालिदाससदृशं हि गण्यते माघः पण्डितैः। अस्ति च अपरा उक्तिः माघस्य प्रशस्तिप्रकटने।
 
उपमा कालिदासस्य भारवेरर्थगौरवम्[[भारविः|भारवे]]रर्थगौरवम्
[[दण्डी|दण्डिनः]] पदलालित्यं माघे सन्ति त्रयो गुणाः ।
 
कालिदासस्य उपमाप्रयोगे कौशलं, भारवेः अर्थगौरवं तथा कवेः दण्डिनः पदलालित्यं च इति एते त्रयः विद्यन्ते माघे इति श्लोकार्थः । ये अपरिमितागणितगुणाः कालिदासभारविदण्डिषु विद्यन्ते ते सर्वे गुणाः एकत्र सन्ति माघे।
पङ्क्तिः ११:
कविकुलकमलदिवाकरमहाकविमाघस्य पितुः नाम दत्तकः आसीत्। पितामहस्य नाम सुप्रभदेवः तथा च अयं राज्ञः श्रीवर्मलस्य धर्मसचिवः आसीत् । महाकविमाघस्य जन्म गुजरातप्रदेशस्य ‘श्रीमाल’ इति नगरे अभवत्। महाकविमाघस्य स्वचरितकविवंशवर्णनात् एतत् हि ज्ञायते ।
अनेन कविना प्रणीतं शिशुपालवधं नाम महाकाव्यं महाभारतस्य सभापर्वताधारेण अस्ति। इदं विंशस्सर्गयुक्तं महाकाव्यम् । युधिष्ठिरेण कृते राजसूययज्ञे कस्य प्रथमपूजा कर्तव्या इति चर्चायां, सहदेवेन भगवतः श्रीकृष्णस्यैव प्रथमपूजा इति उच्यते । एतत् तु सर्वैः सभाङ्गनैः अङ्गीक्रियते। परन्तु तत्रत्यः शिशुपालः एतन्नाङ्गीकरोत्। सः शिशुपालः भगवन्तं श्रीकृष्णं निन्दितवान् । सभायामुपस्थिताः सर्वे ताः निन्दाः असहमानाः स्वीयान् अस्त्रान् स्वीकुर्वन्। एतान् सर्वान् दृष्ट्वा अन्ते भगवान् श्रीकृष्णः स्वयं शिशुपालं हन्ति।
[[भासः|भासः]]
 
संस्कृतसाहित्ये कवेः भासस्य प्रशस्तिप्रकटने कालिदासादि कवीनां प्रशंसापूर्वकवचनान्येव साधु। अलमतिप्रसङ्गेन। कालिदासः स्वस्य मालवाग्निमित्रनाटकस्य[[मालविकाग्निमित्रम्|मालविकाग्निमित्र]]नाटकस्य प्रस्तावनायां कविभासमधिकृत्य एवं वर्णयति-
 
‘प्रथितयशसां भाससौमिल्लकविपुत्रादीनां प्रबन्धानतिक्रम्य वर्तमानकवेः कालिदासस्य क्रियायां कथं परिषदोऽस्याः बहुमानः। ‘
पङ्क्तिः १९:
अत्र वर्ण्यमाणानां भाससौमिल्लकविपुत्रादीनां त्रयाणां कवीनां मध्ये कविभासस्यैव प्रथमं स्थानं दत्तं कविश्रेष्ठैः कालिदासैः ।
 
‘बाणोच्छिष्टं जगत् सर्वमिति’ यशसा विख्यातेन [[बाणभट्टः|बाणभट्टेन]] ‘हर्षचरितस्य’ प्रस्तावनायां भासविषये एवं आलिख्यते-
 
‘सूत्रधारकृतारम्भैः नाटकैर्बहुभूमिकैः ।
"https://sa.wikipedia.org/wiki/कविः" इत्यस्माद् प्रतिप्राप्तम्