"ग्वालियर् दुर्गम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
[[File:Gwalior-Teli-ka-Mandir.jpg|thumb|300px|right| तेली का मन्दिर]]
 
एतद् दुर्गं भारतीयदुर्गेषु[[भारतम्|भारतीय]]दुर्गेषु सुभद्रम् इति ख्यातम् अस्ति । कण्ठहारस्था मुक्तामणिः इति वर्णितवन्तः । [[आग्रा]]नगरस्य समीपे एव [[ग्वालियर|ग्वालियर]]-नगरमस्ति । दुर्ग-देवालय-सरोवर-भवनानां कारणात् एतत् नगरं प्रसिद्धं जातम् अस्ति । दुर्गस्य सहस्रवर्षानां प्राचीनम् इतिहासः अस्ति । पूर्वं [[हूणाः|हूण-वंशीयाः]] अत्र शासनं कृतवन्तः ।
दुर्गस्य त्रयः पार्श्वभागाः पर्वतप्रदेशे सन्ति । [[इस्लाम्-मतम्|मुस्लिम-राजा]] [[इल्तमषः|इल्तमिश्]] इत्याख्यः अत्र शासनं कृतवान् । ई. ११९८ तमे वर्षे एतद् दुर्गं तोमरराजपूतवंशीयानां वंशे आगतम् । इदं दुर्गं प्रशासनकेन्द्रमपि आसीत् ।
 
==मानमन्दिरम्==
पङ्क्तिः ११:
==दुर्गस्य महाद्वाराणि==
 
दुर्गं प्रवेष्टुम् उर्वाही-द्वारेण अथवा अलङ्गीर-द्वारेण आगन्तव्यं भवति । मानसिंहराजगृहमेव दुर्गस्य प्रवेशद्वारमिवास्ति । अलङ्गीरद्वारम् ई १६६० तमे वर्षे निर्मितम्। एतत् [[औरङ्गजेबः|औरङ्गजेब]] इत्याख्यस्य द्वारमिति प्रसिद्धमस्ति । राजगृहे अनेकानि द्वाराणि सन्ति ।
द्वितीयं द्वारं मानसिंहस्य कनिष्ठपितृव्यस्य बादलसिंहस्य स्मरणार्थं बादलघर इत्यस्ति । चतुर्थं गणेशद्वारमस्ति ।
 
==दुर्गे दर्शनीयानि इतरस्थानानि==
 
कीर्तिमन्दिरं जहाङ्गीरराजगृहं[[जहाङ्गीर|जहाङ्गीर]]राजगृहं, शाह जहां राजगृहं, तेली का मन्दिर दुर्गे दर्शनीयानि सन्ति । दुर्गस्य पूर्वभागे सासबहूमन्दिरं ११ शतके निर्मितम् अस्ति । अत्र [[विष्णुः]] आराध्यः अस्ति । एतानि गुर्जरदेशस्य [[प्रतिहाराः|प्रतिहारैः]] निर्मितानि सन्ति ।
लष्कर-प्रदेशे विद्यमानं जयविलास-भवनम् अतीव सुन्दरम् अस्ति । अत्र स्फटिकशिलया सोपानानि अट्टाः च निर्मिताः सन्ति । विशालाः द्वात्रिंशत्(३२)प्रकोष्ठाः अत्र सन्ति । राजगृहस्य भोजनोत्पीठिकायां रजतस्य धूमशकटानि सन्ति । दुर्गतः प्राचीनग्रामः नवनगरं च दृश्यन्ते । दुर्गे जैनतीर्थङ्कराणाम् अदिनाथ-नेमिनाथादीनां विग्रहाः सन्ति ।
ग्वालियर् दुर्गं ३० पादमितोन्नतं २ कि.मी दीर्घं चास्ति । ई. १८०९ तमे वर्षे निर्मितं जलविलासराजगृहम् इदानीं वस्तुसङ्ग्रहालयः अस्ति । पूर्वं सिन्धियावंशीयानां राजगृहमासीत् । मोतिमहल-राजगृहस्य वस्तुसङ्ग्रहालयः दर्शनीयः अस्ति । एतेषु अपूर्वाणि सुन्दराणि वस्तूनि सन्ति ।
"https://sa.wikipedia.org/wiki/ग्वालियर्_दुर्गम्" इत्यस्माद् प्रतिप्राप्तम्