"चलच्चित्रम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११:
'''यजुर्वेदादभिनयान् रसानाथर्वणादपि॥ (नाट्यशास्त्रम्) '''
 
इन्द्रध्वज-महोत्सवं पुरस्कृत्य इदं प्रथमतया भारतभूभागे अभिनयो जातम्। अत: इदं वेदतुल्यमेव। रूपकं तु दृश्यकाव्येष्वन्तर्भवति। श्रव्यकाव्य-शिक्षणे श्रवणेन्द्रियमेव कार्यं करोति। दृश्यकाव्यशिक्षणसमये श्रवणेन्द्रियं चक्षुरिन्द्रियं उभे अपि कार्यं कुरुतः। अतः श्रव्यकाव्यापेक्षया दृश्यकाव्यस्यैव अत्यधिकं प्रामुख्यम् अस्ति। नाटकस्य संस्कृते विशिष्टं स्थानं वर्त्तते। छात्राः अपि रूपकाध्ययने अहमहमिकतां प्रदर्शयन्त्येव।
इन्द्रध्वज-महोत्सवं पुरस्कृत्य इदं प्रथमतया भारतभूभागे अभिनयो जातम्। अत:
 
'''नाटकम्''' शब्दोऽयं ‘नट्'धातोः निष्पन्नो वर्तते यस्यार्थास्सन्ति-नृत्यम्, अभिनयः, अनुकरणञ्च। लोके विद्यमानानां इतिवृत्तानां घटनानां वा चित्रणमेव नाटकम्। कालिदासेन उक्तम्‘‘नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम्।'' चलचित्रे चतुर्विधः अभिनयो भवति,
*1.सात्विकः,
*2.आङ्गिकः,
*3.वाचिकः,
*4.आहार्यश्चेति। आचार्यभरतः मानवानां मनोरंजनार्थं श्रवणसुखदस्झ नयनाभिरामस्य चलचित्रस्य उपदेशः प्रदत्तः। यथा नाट्यशास्त्रे भरतेन लिखितम्– <br />
'''दुःखार्तानां श्रमार्तानां शोकार्तानां तपस्विनाम्।<br />
'''विश्रामजननं लोके नाटयमेतद् भविष्यति। (नाटयशास्त्रम्) ।'''<br />
 
==आधुनिकं चलच्चित्रम्==
प्रारम्भिकं समये नाट्यस्य अस्य अभिनेयैः जनैः अनेकैः मञ्चैः क्रियते स्म समाजे, किन्तु अस्मिन् वैज्ञानिकयुगे अस्य खलु नाटकस्य अभिनयः चलचित्रमाध्यमेन क्रियते। मनोरञ्जनकरं च वर्तते। -
 
यदि वयं चलचित्रस्य आविष्कारविषये दृष्टिनिपेक्षं कुर्मः, तर्हि ज्ञायते यत् सर्वप्रथमं 1889 ईस्वीये वर्षे श्रीमता एडसिस-महाभागेन अमेरिकादेशे मूकचलचित्रस्य आविष्कारः कृतः आसीत्। भारतेऽपि 1912 ईस्वीये वर्षे मूकचलचित्रस्य सफलतया निर्माणं सञ्जातम्। तदानीं चित्रेषु वाण्यभावो दृश्यते स्म, केवलं सङ्केतेनैव सर्वाणि पात्राणि स्व-अभिप्रायं प्रकटयन्ति स्म। तदनन्तरं अनेकेषां वैज्ञानिकानां प्रयासेन मूकचलचित्रे ध्वनिरपि संयोजिता ।
भारतवर्षे एतत् 1923 ईस्वीये वर्षे विनिर्मितम् आसीत्।
उक्तानि-
#चलचित्र मनोरञ्जनपूर्वक महदुपकारकम् उपदेशम् अपि
#विश्रान्तिजनकम्-दुःखार्तानां श्रमात्तानां, शोकार्तानां, तपस्विनां कृते विश्रान्तिकल्पनम्।
#जनानां मनोरंजकम्। दैनन्दिन-श्रमिक-कार्मिक-कर्षक-जीवने श्रान्ताः जनाः मानसिक आनन्दं प्राप्नुवन्ति। मनोरंजनस्य साधनेषु नाटकं लोकप्रियम् अस्ति। छात्राणां शिक्षणाय -जनानां उपदेशाय च रूपकस्य प्रयोगो भवति। महाकविकालिदासेन । मालविकाग्निमित्रे कथितम्–प्रयोगप्रधानं हि नाट्यशास्त्र-रूपक-प्रयोगप्रधाना कला भवति।
 
 
"https://sa.wikipedia.org/wiki/चलच्चित्रम्" इत्यस्माद् प्रतिप्राप्तम्