"चन्द्रशेखर आजाद" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
(लघु) Reverted 3 edits by 117.196.32.33 (talk) identified as vandalism to last revision by NehalDaveND.
पङ्क्तिः १९:
'''चन्द्रशेखर आजाद''' [[भारतम्|भारतदेशस्य]] स्वातन्त्र्यसम्पादनार्थम् आङ्गलशासनविरुद्धम् आन्दोलनं कृतवान् । स्वातन्त्र्यं मे जीवितम् इति सः अमन्यत । अयं चतुर्विंशे वयसि शत्रुभिः परिवृतः सन् गोलकावेधेन आत्मनैव [[आत्मा|आत्मानं]] मारितवान् क्रान्तिवीरः । चन्द्रशेखरः [[मध्यप्रदेशराज्यम्|मध्यप्रदेशे]] भावराग्रामे षडधिकनवदशशततमे (१९०६) क्रिस्ताब्दे जुलैमासे त्रयोविंशतितमे दिने अजायत । तस्य पिता सीतारामतिवारिः । सः कस्मिंश्चित् उपवने वनपालक आसीत् । माता जगराणीदेवी । १९५६ ख्रीस्‍ताब्‍दस्‍य अकालकारणात् स्‍वपैत्रिकस्‍थानं बदरकां परित्‍यज्‍य मध्‍यप्रदेशस्‍य अलीराजपुररियासते सेवां प्रदत्‍तवान् अनन्‍तरं भावरा ग्रामे न्‍यवसत् । अत्रैव बालचन्‍द्रशेखरस्‍य बाल्‍यकालः अतीतः । आदिवासीप्रदेशे तस्य बाल्‍यकालः व्‍यतीतः । भीलबालकैः सह धनुषाभ्‍यासः सम्‍यकतया कृतः तेन । लक्ष्‍यभेदे सः बाल्‍यकाले एव प्रवीणः अभवत् । बाल्ये एव चन्द्रशेखरः [[संस्कृतम्|संस्कृतभाषामभ्यसितुं]] [[काशी|वाराणसीं]] गत्वा तत्र अध्ययनम् आरभत। तस्मिन्नेव समये सर्वत्र भारते स्वातन्त्र्यान्दोलनं प्रचलितमासीत् । तत्काले क्रूरं जलियन्वालाहत्याप्रकरणं श्रुत्वा उद्विग्नः चन्द्रशेखरः भारतदेशे आङ्गल-शासनम् उन्मूलयितुमैच्छत् । तदानीं [[मोहनदास करमचन्द गान्धी|महात्मागान्धीमहाभागः]] [[लालालजपत रायः|लाललजपतरायः]], [[मदनमोहन मालवीयः|मदनमोहनमालवीयः]] इत्यादयो नेतारः भारतीयस्वातन्त्रान्दोलनस्य धुरीणाः आसन् । तदा वाराणसी क्रान्तिकारिणां केन्‍द्रमासीत् । चन्‍द्रशेखरस्‍य मनसि देशस्‍य बन्‍धनमुक्‍त्‍यर्थं सशस्‍त्रान्‍दोलनमेव वरम् इत्यभासत । मन्‍मथनाथगुप्‍त-प्रणवेश चटर्जी इत्‍ययोः सम्‍पर्के आगतः सः क्रान्तिकारिसमूहस्‍य सदस्‍यतां स्‍वीकृतवान् । क्रान्तिकारिणां संघः '''हिन्‍दुस्‍तान प्रजातन्‍त्र संघ''' इति नाम्‍ना निर्दिश्यते स्‍म ।
==असहकारान्दोलनम्==
[[चित्रम्:Chandrashekharji.jpg|thumb|right|200px|<center>'''चन्द्रशेखर आजाद'''</center>]]तदा आङ्गलशासनकार्येषु भारतीयैः सहकारो न देयः इति धिया [[असहकारान्दोलनम्|असहकारान्दोलनं]] प्रवृत्तम् । तत्काले एकदा वाराणस्यां महती जनयात्रा प्रावर्तत । तस्यां यात्रायां कश्चन धुरीणः त्रिवर्णध्वजं हस्ते गृहीत्वा पुरतः गच्छन्नासीत् । तम् आरक्षकाः अत्यन्तम् अताडयन् । एतत्सर्वं दूरादेव अवलोकयन् बालः चन्द्रशेखरः आरक्षकाणामुपरि पाषाणं प्राक्षिपत् । आरक्षकाः तमनुधावन्तः यत्नेन गृहीत्वा न्यायालयम् अनयन् । तत्र एवं प्रश्नोत्तरमभवत् ।
:न्यायाधीशः - रे बाल ! किं ते नाम ?
:चन्द्रशेखरः -आजादः (स्वातन्त्र्यम्)
:न्यायाधीशः- कस्ते पिता ?
:चन्द्रशेखरः-स्वाभिमानः ।
:न्यायाधीशः - किं वासस्थानम् ?
:चन्द्रशेखरः -कारागृहम् ।
बालकेन दत्तमेवंविधं वीरोचितम् उत्तरं श्रुत्वा तत्रत्याः सर्वे जनाः तमभ्यनन्दयन् । आजाद् इत्येव तमाह्वयन् । ततः प्रभृति चन्द्रशेखर- 'आजाद' इत्येव सः प्रथितः । वस्तुतः आजाद् इत्यस्य हिन्दीभाषायां स्वातन्त्र्यमित्यर्थः । एतादृशेन उत्तरेण क्रुद्धो न्यायाधीशः आजादस्य वेत्रताडनदण्डनम् आदिशत् । आजादस्तु प्रतिताडनं महान्तं क्लेशमनुभवन् अपि 'वन्दे मातरं’, 'जयतु गान्धीमहोदयः’ इत्यादि उद्घोषणं नात्यजत् । तदारभ्य सः स्वातन्त्र्यान्दोलने प्रधानं भागं वहन्नेव अभ्यवर्धत ।
 
==स्वातन्त्र्यान्दोलनम्==
एकदा आङ्ग्लशासनविरुद्धं भित्तिपत्रस्थापनं सर्वत्र प्राचलत् । स्वातन्त्र्यान्दोलने प्रविष्टाः सर्वे सदस्याः अन्यान्यस्थानेषु भित्तिपत्रस्थापने व्यापृताः । चतुरः आजादस्तु आरक्षकस्थानेऽपि तत्स्थापयितुम् ऐच्छत् । एकं भित्तिपत्रं स्वीकृत्य उभयतः निर्यासलेपं कृत्वा पृष्ठे धृत्वा आरक्षकस्थानमगच्छत् । तत्र स्तम्भसमीपे स्थित्वा केनचिदारक्षकपुरुषेण कुशलवार्तालापं कुर्वन्नेव तदविदितं, स्तम्भे पृष्ठं निपीडय भित्तिपत्रं तत्र लग्नमकरोत् । ततः संलापं परिसमापितवान् इव आरक्षकम् आमन्त्र्य क्वापि अगच्छत् । पथिकजनाः आरक्षकस्थानेऽपि भित्तिपत्रं पश्यन्तः विस्मिताः अभवन् ।
Line ३० ⟶ ३५:
 
==प्राणार्पणम्==
वञ्चकाः केचन गुप्तवेषाछ्छन्नाः सन्तः आजादसेनां प्रविश्य सर्वं रह्स्यम् आरक्षकेभ्यः आवेदयन् । एकदा आजादः [[इलाहाबाद|अलहाबाद्-नगरे]] आल्फेड्-उद्याने कुत्रचित् मित्रेण साकं सम्भाषमाण आसीत् । तदा वीरभद्रतिवारिनाम्ना वञ्चकेन बोधिताः आरक्षकाः झटित्येव तं परिवार्यं ग्रहीतुं प्रवृत्ताः । अशीतिसंख्याकानां तेषां मध्ये एकाकी आजादः चक्रव्यूहप्रविष्टः अभिमन्युः इव शौर्येण अयुध्यत । समाप्तप्रायासु गोलिकासु अन्तिमया एकया सः आत्मानं मारयित्वा भारतमातरं निजरुधिरेण अभ्यषिञ्चत् , स्वीयम् 'आजाद्’ नाम च सार्थकम् अकरोत् ।
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/चन्द्रशेखर_आजाद" इत्यस्माद् प्रतिप्राप्तम्