"चलच्चित्रम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २५:
 
यदि वयं चलचित्रस्य आविष्कारविषये दृष्टिनिपेक्षं कुर्मः, तर्हि ज्ञायते यत् सर्वप्रथमं 1889 ईस्वीये वर्षे श्रीमता एडसिस-महाभागेन अमेरिकादेशे मूकचलचित्रस्य आविष्कारः कृतः आसीत्। भारतेऽपि 1912 ईस्वीये वर्षे मूकचलचित्रस्य सफलतया निर्माणं सञ्जातम्। तदानीं चित्रेषु वाण्यभावो दृश्यते स्म, केवलं सङ्केतेनैव सर्वाणि पात्राणि स्व-अभिप्रायं प्रकटयन्ति स्म। तदनन्तरं अनेकेषां वैज्ञानिकानां प्रयासेन मूकचलचित्रे ध्वनिरपि संयोजिता । भारतवर्षे एतत् 1923 ईस्वीये वर्षे विनिर्मितम् आसीत् ।
==चलच्चित्रस्य प्रयोजनानि==
रूपकशास्त्रे भरतमुनिना रूपकस्य त्रिणी प्रयोजनानि उक्तानि-
#'''हितोपदेशजनकम्''' - चलचित्र मनोरञ्जनपूर्वक महदुपकारकम् उपदेशम् अपि
#'''विश्रान्तिजनकम्''' - दुःखार्तानां श्रमात्तानां, शोकार्तानां, तपस्विनां कृते विश्रान्तिकल्पनम्।
#''' विनोदजनकम् ''' - जनानां मनोरंजकम् । दैनन्दिन-श्रमिक-कार्मिक-कर्षक-जीवने श्रान्ताः जनाः मानसिक आनन्दं प्राप्नुवन्ति। मनोरंजनस्य साधनेषु नाटकं लोकप्रियम् अस्ति। छात्राणां शिक्षणाय -जनानां उपदेशाय च रूपकस्य प्रयोगो भवति। महाकविकालिदासेन । मालविकाग्निमित्रे कथितम्–प्रयोगप्रधानं हि नाट्यशास्त्र-रूपक-प्रयोगप्रधाना कला भवति ।
 
==चलचित्रदर्शने गुणाः==
चलचित्रदर्शनं विना जीवनं निरर्थकम्। सर्वधर्मान् परित्यज्य सर्वकर्माणि विहाय च चलचित्रपटस्य विलोकनाय सर्वे जनाः गच्छन्त्यहर्निशम्। चलचित्र नाट्याभिनययुक्तं लघुद्रव्यव्ययसाध्यं सर्वप्रथमं मनोरञ्जनस्य साधनम् अस्ति। अस्माकं देशे प्रायः सर्वेषु नगरेषु ग्रामेषु च चलचित्रगृहाणां स्थितिः प्रतीयते। तत्र बहवः नागरिकाः चलचित्रं प्रतिदिनं पश्यन्ति। एकस्मिन् दिवसे प्रायः चलचित्रगृहे चतुः वारं चलचित्रं चाल्यते। अनेन प्रकारेण अतीव लोकप्रियम् एतत् सञ्जातम् भारते मनोरंजनसाधनम्। तत्र मानन्दस्य यां परां कोटिं प्राप्नोति मानवः सा तु अन्यत्र दुर्लभा। अस्य कारणमिदं यत् चलचित्रेषु सर्वेषु नृत्य-गीत-वाद्य-हास्य-अभिनय-संग्रामादयः सर्वेऽपि क्रियाकलापाः यथार्थरूपेण प्रदश्र्यन्ते। अनेनैव अद्यत्वे एतत् मंनोरंजनसाधनेषु महत्त्वपूर्ण सञ्जातम्।
 
यदि चलचित्रस्य प्रयोगः शिक्षाविस्तारप्रसारणे प्रशिक्षणे च क्रियेत तर्हि महान् लाभः भवितुं शक्नोति। अधुना सर्वकारेण अनेन माध्यमेन शिक्षायाः प्रसारः क्रियते। एवमेव सूचनाविभागेषु सूचनायाः प्रसारणार्थम् अपि अस्य साधनस्य उपयोगो भवति। स्वास्थ्यविभागोऽपि अस्मिन् विषये विशेष-प्रयत्नवान् दृश्यते। एतदतिरिक्तं बालानां कृते तु अस्य चलच्चित्रस्य उपयोगिता महती वर्तते। यतोहि ते अपरिपक्वबुद्धयः भवन्ति। अतः , अनेन माध्यमेन अध्ययनविषये तेषां रुचिं अधिकां उत्पादने समर्थाः भवितुं शक्नुमः वयम्। अधुना अस्माकं समाजे प्रौढशिक्षायाः प्रचारः अधिकः क्रियते। अतः अल्पज्ञाः ग्रामवासिनः अनेन माध्यमेन सहजतया शिक्षां अपेक्षितां ग्रहीतुं सक्षमाः सन्ति। अनेन प्रकारेण चलचित्रेण खलु सर्वेर्षा जनानां महान् लाभो भवति।
==चलचित्रदर्शने दोषाः==
यत्र बहवो गुणाः सन्ति तत्रैव तेषां मध्ये दुर्गुणाः अपि तिष्ठन्ति। यथेदं चित्रपटदर्शनं अश्लीलात्मकवर्णनकथानकदृश्यैः बालान् युवकांश्च वासनावासितान्त:करणान् करोति। तत्र गत्वा युवक-युवतयश्च विशेषतः दुर्गुणमेव गृह्णन्ति। कोचित् जनाः अधिकं धनार्जनं करणाय चलचित्रगृहेषु अश्लीलचित्राणां प्रदर्शनं कुर्वन्ति। तेषु चित्रेषु बहूनि तु नग्नानि एव भवति। ईदृशानि लज्जाकराणि चित्राणि अवलोक्य अस्माकं देशस्य निर्मातारः युवकाः कुमार्गगामिनः भवन्ति। ईदृशान् दृश्यान् विलोक्य अल्पमतिबालका: चरित्रभ्रष्टा: जायन्ते ।
 
==प्रभावाः==
श्रवणापेक्षया प्रत्यक्षदर्शनेन मानवानां हृत्पटले अधिकः प्रभावः भवति। अनेन प्रकारेण दर्शं दर्श चलचित्रपटमल्पज्ञाः ग्रामीणा अपि विशेषज्ञा भवितुं शक्नुवन्ति। बालानां शिक्षणेऽपि अस्य महानुपयोगः। तान् शिक्षासबन्धीनि दृश्यानि दर्शयित्वा पठनविषये तेषां रुचिमधिकां कर्तुं शक्यते। विज्ञापनानि तेषामेव माध्यमेन सफलानि भवन्ति। पत्र-पत्रिकादयोऽपि चलचित्रसन्देशं चित्रपटं च समाश्रित्य स्वकीयमाकर्षणं च वर्धयन्ति। चलचित्रभवनान संख्या तीव्रवेगेन वर्धते। भारते सहस्रसंख्यकानि चलचित्राणि निर्मितानि सन्ति। चलचित्रैः जनाः प्रसन्नतां ज्ञानञ्चाप्नुवन्ति। इदं सर्वं सदपि चलचित्रे महन्ति दूषणानि
 
 
"https://sa.wikipedia.org/wiki/चलच्चित्रम्" इत्यस्माद् प्रतिप्राप्तम्