"चलच्चित्रम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३२:
 
==चलचित्रदर्शने गुणाः==
चलचित्रदर्शनं विना जीवनं निरर्थकम्। सर्वधर्मान् परित्यज्य सर्वकर्माणि विहाय च चलचित्रपटस्य विलोकनाय सर्वे जनाः गच्छन्त्यहर्निशम्। चलचित्र नाट्याभिनययुक्तं लघुद्रव्यव्ययसाध्यं सर्वप्रथमं मनोरञ्जनस्य साधनम् अस्ति। अस्माकं देशे प्रायः सर्वेषु नगरेषु ग्रामेषु च चलचित्रगृहाणां स्थितिः प्रतीयते। तत्र बहवः नागरिकाः चलचित्रं प्रतिदिनं पश्यन्ति। एकस्मिन् दिवसे प्रायः चलचित्रगृहे चतुः वारं चलचित्रं चाल्यते। अनेन प्रकारेण अतीव लोकप्रियम् एतत् सञ्जातम् भारते मनोरंजनसाधनम्। तत्र मानन्दस्य यां परां कोटिं प्राप्नोति मानवः सा तु अन्यत्र दुर्लभा। अस्य कारणमिदं यत् चलचित्रेषु सर्वेषु नृत्य-गीत-वाद्य-हास्य-अभिनय-संग्रामादयः सर्वेऽपि क्रियाकलापाः यथार्थरूपेण प्रदश्र्यन्ते।प्रदर्श्यन्ते। अनेनैव अद्यत्वे एतत् मंनोरंजनसाधनेषुमनोरञ्जनसाधनेषु महत्त्वपूर्णमहत्त्वपूर्णं सञ्जातम्।
 
यदि चलचित्रस्य प्रयोगः शिक्षाविस्तारप्रसारणे प्रशिक्षणे च क्रियेत तर्हि महान् लाभः भवितुं शक्नोति। अधुना सर्वकारेण अनेन माध्यमेन शिक्षायाः प्रसारः क्रियते। एवमेव सूचनाविभागेषु सूचनायाः प्रसारणार्थम् अपि अस्य साधनस्य उपयोगो भवति। स्वास्थ्यविभागोऽपि अस्मिन् विषये विशेष-प्रयत्नवान् दृश्यते। एतदतिरिक्तं बालानां कृते तु अस्य चलच्चित्रस्य उपयोगिता महती वर्तते। यतोहि ते अपरिपक्वबुद्धयः भवन्ति। अतः , अनेन माध्यमेन अध्ययनविषये तेषां रुचिं अधिकां उत्पादने समर्थाः भवितुं शक्नुमः वयम्। अधुना अस्माकं समाजे प्रौढशिक्षायाः प्रचारः अधिकः क्रियते। अतः अल्पज्ञाः ग्रामवासिनः अनेन माध्यमेन सहजतया शिक्षां अपेक्षितां ग्रहीतुं सक्षमाः सन्ति। अनेन प्रकारेण चलचित्रेण खलु सर्वेर्षा जनानां महान् लाभो भवति।
"https://sa.wikipedia.org/wiki/चलच्चित्रम्" इत्यस्माद् प्रतिप्राप्तम्