"क्रोधाद्भवति सम्मोहः..." इत्यस्य संस्करणे भेदः

0
गीतोपदेशः, replaced: |गीतोपदेशः → |<center>'''गीतोपदेशः'''</center> using AWB
पङ्क्तिः १८:
== श्लोकः ==
 
[[File:Bhagvad Gita.jpg|thumb|right|300px|<center>'''गीतोपदेशः'''</center>]]
:'''क्रोधावति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।'''
:'''स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ ६३ ॥'''
पङ्क्तिः ५९:
 
== भावर्थः ==
'क्रोधाद्भवति सम्मोहः' – क्रोधे सति सम्मोहः (मूढता) भवति । सम्मोहात् स्मृतिभ्रष्टता जायते । स्मृतिभ्रष्टतायां सत्यां बुद्धिनाशः सञ्जायते . बुद्धिनाशात् मनुष्यस्य पतनं भवति । क्रोधात् सम्मोहः (मूढता) सञ्जायते, परन्तु वास्तव्येन कामात्, क्रोधात्, लोभात्, ममतायाः च सम्मोहः समुद्भवति । यथा – कामनायाः यः सम्मोहः जायते, सः विवेकशक्तिं नाशयति । क्रोधात् यः सम्मोहः समुद्भवति सः वर्तनव्यवहारं नाशयति । लोभात् समुद्भूतः सम्मोहः सत्यासत्ययोः, धर्माधर्मयोः विचारं नाशयति । ममतायाः समुद्भूतात् सम्मोहात् पक्षपातः जायते ।
 
यदि काम-क्रोध-लोभ-ममताभ्यः सम्मोहः जायते, तर्हि भगवता किमर्थं केवलं क्रोधस्य एव उल्लेखः सम्मोहोद्भवस्य कारणत्वेन कृतः । यदि सर्वेषां कामादीनाम् अध्ययनं क्रियते, तर्हि ज्ञायते यत्, सर्वेषु स्वसुखोपभोस्य, स्वार्थवृत्तिः च प्रबलता भवति । अतः क्रोधात् यः सम्मोहः सञ्जायते सः काम-लोभ-ममतादिभ्यः समुद्भूतात् सम्मोहात् भयङ्करः भवति । अतः अत्र भगवता केवलं क्रोधस्यैव सम्मोहोद्भवकारणत्वेन उल्लेखः कृतः ।
 
'सम्मोहात्स्मृतिविभ्रमः' – मूढतायाः कारणेन स्मृतिनाशः भवति । अर्थात् शास्त्रेषूक्ताः आदेशाः, सद्विचारैः उद्भूताः सङ्कल्पाः च स्मृतिविभ्रमत्वात् विस्मृताः भवन्ति । यथा – शास्त्रेषूक्तम् अस्ति यत्, भोजनान्ते विषं वारि इति । सद्विचारैः ज्ञातं यत्, नित्यं प्रातःकाले व्यायामः कर्तव्यः इति । परन्तु स्मृतिविभ्रमात् एतादृशानि सद्कार्याणि विस्मृतानि भवन्ति ।
 
'स्मृतिभ्रंशाद्बुद्धिनाशो' – स्मृतिनष्टे सति बुद्धौ स्थितः विवेकः अपि लुप्तः भवति अर्थात् मनुष्ये नवीनां विचाराणां चिन्तनाय शक्तिरेव न भवति ।
'बुद्धिनाशात्प्रणश्यति' – विवेकलुप्ते सति मनुष्यः पतितः भवति । तस्मात् पतनात् रक्षणाय सर्वैः साधकैः भगवत्पराणयैः अनिवार्येण भवितव्यम् ।
 
== मर्मः ==
 
अग्रिमश्लोके, अस्मिन् श्लोके च विषयचिन्तनमात्रेण क्रमेण रागः, कामना, क्रोधः, सम्मोहः, स्मृतिनाशः, बुद्धिनाशः पतनक्रमः भगवता उपस्थापितः । तस्य पतनक्रमस्य विवेचने कदाचित् दीर्घकालः भवति, परन्तु मनुष्यस्य पतनक्रियायाः काले सः क्रमः अतीव शीघ्रं चक्रं पूर्णं करोति ।
 
==शाङ्करभाष्यम्==
पङ्क्तिः ७८:
तावदॆव हि पुरुषॊ यावदन्तःकरणं तदीयं कार्याकार्यविषयविवॆकयॊग्यं तदयॊग्यत्वॆ नष्ट एव पुरुषॊ भवति । अतः तस्यान्तःकरणस्य बॆद्धॆर्नाशात् प्रणशयति पुरुषार्थायॊग्यॊ भवतीत्यर्थः ॥६३॥
 
=== भाष्यार्थः ===
 
क्रोधात् सम्मोहः अर्थात् कर्तव्याकर्तव्यविषकस्य अविवेकस्य उद्भवः । यतः क्रोधी मनुष्यः मोहितः सन् गुरुं (ज्येष्ठानां) प्रति अपि अपशब्दानाम् उपयोगं करोति । मोहात् स्मृतेः विभ्रमो जायते अर्थात् शास्त्रैः, आचार्यैः च येभ्यः उपदिष्टेभ्यः संस्कारेभ्यः स्मृतिः उद्भवति स्म, तेषां संस्काराणाम् अनुगुणं कार्यं कर्तुम् अवरसे प्राप्ते सत्यपि उपदेसानुगणं कार्यं न भवति ।
 
एवं स्मृतिविभ्रमे सति बुद्धिनाशो जायते । अन्तःकरणे कार्याकार्ययोः विवेचनयोग्यतायाः नाश एव बुद्धिनाशः उच्यते । बुद्धिनाशत्वात् मनुष्यः नष्टो भवति । यतो हि सः तावत्पर्यन्तं मनुष्यः अस्ति, यावत्पर्यन्तं तस्य अन्तःकरणं कार्याकार्ययोः विवेचने समर्थम् अस्ति । कार्याकार्ययोः विवेचनायाम् असमर्थः मनुष्यः नष्टप्रायः भवति । अर्थात् तस्मिन् मनुष्यतायाः हीनता भवति इति । एवं मनुष्यस्य अन्तःकरणस्य विवेकशक्तरूपिण्याः बुद्धेः नाशे पुरुषः नष्टो भवति । अर्थात् सः पुरुषार्थेभ्यः अयोग्यः सिद्ध्यति ।
"https://sa.wikipedia.org/wiki/क्रोधाद्भवति_सम्मोहः..." इत्यस्माद् प्रतिप्राप्तम्