"युरेनस्-ग्रहः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २८:
}}
 
'''युरेनस्'''(Uranus) कश्चन ग्रहः। युरेनस् ग्रहः '''अरुण:''' इति, कुत्रचित् '''इन्द्रः''' इति च उल्लिखितः दृश्यते । युरेनस्-ग्रहस्य अन्य नामः '''हर्षलः''' इति । अस्माकं सौरमण्डले सूर्यात् सप्तमः बृहत्तमः ग्रहः अयम्। अस्य ग्रहस्य अन्वेषणं [[१७८१]] तमे वर्षे विलियं हर्षेल् कृतवान्। अस्य ग्रहस्य वातावरणे जलजनकम्, हीलियम्, मिथैन् इत्येतेषां संयोगः दृश्यते इत्यतः अस्य वर्णः भवति हरित् । एतं ग्रहं परितः वर्णमयैः लघुभागैः युक्तानि लघ्वाकारकाणि नव वृत्तानि दृश्यन्ते। बाह्यवृत्तानां विस्तारः १,००,००० कि मी अपेक्षया अधिकः भवति। अस्य ग्रहस्य पञ्च उपग्रहाः सन्ति - '''मिराण्डा एरिमल् आन्द्रियल् तिटानिया ओबेरान्''' च। अस्य ग्रहस्य विस्तारः ३२,००० मैल्-परिमितम्। स्वस्य परिभ्रमणाय अयं ग्रहः १६ घण्टात्मकं कालं स्वीकरोति। [[सूर्यः|सूर्यं]] परितः भ्रमणाय ८४.०१ वर्षं स्वीकरोति। [[जर्मनी|जर्मन्]] देशीय खगोलज्ञः '''बोड् ग्रीक्''' पुराणैः चितमेकं नाम स्थापितवान्। अस्य ग्रहाय अयं [[शनिः|शनेः]] पितुः नाम युरेनस् इति स्थापितवान्। युरेनस् नाम्नैव प्रसिद्धिं प्राप्तवान्। अस्य संशोधनानन्तरं ’सर् विलियं हर्षेल्’ आस्थानस्य ज्योतिष्कः अभूत्। अनन्तरम् युरेनस् ग्रहस्य [[चन्द्रः|चन्द्रौ]] आविष्कारं कृतवान्।
==युरेनस् ग्रहस्य गात्रम्==
अयं ग्रहः [[भूमिः|भूमेः]] अपेक्षया विशेष दूरवृत्ते अस्तीत्यतः अस्य विषये विशिष्टज्ञानम् अप्राप्तम्। अयं (गात्रे) बृहत् कायविशिष्टः, दृष्टिगोचरश्च आसीत् , तथापि अस्माकं दृष्टिपथे नागतः। [[सूर्यः|सूर्यात् प्रायः]] १,७८१,९००,००० मैलु अन्तरे अस्ति। [[गुरुग्रहः|गुरुसूर्ययोः]] दूरस्यापेक्षया द्विगुणित दूरे [[शनिः|शनिग्रहः]] अस्ति। अस्य द्विगुणित दूरे युरेनस् अस्ति इति। अस्य अदूर विदूरयोः स्थानयोः व्यत्यासः एव १९९ मिलिय मैलुपरिमितमस्ति। अस्य पथः प्रायः शुद्धवृत्तोऽस्तीति वक्तुं शक्यते। ईदृश बृहत् पथे एकवारं परिक्रमणं कर्तुं ८४ वर्षाणि ६ मासाः अपेक्षन्ते इति। कष्टकरोयं पथः,(सञ्चारस्य दीर्घावदित्वात्) एकस्य जीवमाने ज्ञातुं नशक्यते इत्यतः पूर्विकानां दृष्टिपथे नागतम् इति। [[भूमिः|भूमेः]] अपेक्षया गात्रे ५९ भागः आधिक्यमस्य इति। अधिकभागश्चेदपि भारे [[भूमिः|भूमेः]] अपेक्षया केवलं १४.९ भागः भारः अधिकमस्य भवति। [[गुरुग्रहः|गुरु]]-[[शनिः|शनिग्रहवत्]] युरेनस् ग्रहोऽपि एकं अनिलगोलकः भवति इति ऊहा। अस्य गोलकस्य व्यासः ३१,९०० मैलुपरिमितं भवति। इदृश बृहत् कायः अतीव वेगेन स्वपथे परिक्रमति इत्यतः अस्य ध्रुवयोः मध्यभागः पीनः दृश्यते इति। अस्य ग्रहाय एकवारं स्वाक्षे पथे परिक्रमणं कर्तुं १० घन्टाः ४९ निमेषाः अपेक्षन्ते।
"https://sa.wikipedia.org/wiki/युरेनस्-ग्रहः" इत्यस्माद् प्रतिप्राप्तम्