"सायणः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १४:
तैत्तिरीयसंहिता (कृष्णयजुर्वेदस्य), ऋग्वेदसंहिता, सामवेदसंहिता, काण्वसंहिता (शुक्लयजुर्वेदस्य), अथर्ववेदसंहिता । २. ब्राह्मणारण्यकभाष्याणि –कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणं, कृष्णयजुर्वेदीय तैत्तिरीयारण्यकं, ऋग्वेदीयैतरेयब्राह्मणं, ऎतरेयारण्यकञ्चेति, सामवेदीय – ताण्ड्यब्राह्मणं, षड्विशब्राह्मणं, सामविदानब्राह्मणं, आर्षेयब्राह्मणं, देवताध्यायब्राह्मणं, उपनिषद् ब्राह्मणं, संहितोपनिषद्ब्राह्मणं वंशब्राह्मणञ्च, अथर्ववेदीयभाष्यम् ।
सायणाचार्यस्य समयः :- सायणावार्यकृतवेदभाष्याणां बहिरंगान्तरङ्गसाधनैः तस्य समयस्य निर्द्धारणं कर्त्तुं शक्यते । सायणाचार्यः बुक्कमहीपतेः राजसभायामासीत्तथा च तदादेशेनैव सः वेदं लिखितुं प्रयत्नं चकार इति तदीयभाष्यादेव ज्ञायते । यथा ऋग्भाष्यपुष्पिकायां –“ इति श्रीमद्राजाधिराजपरमेश्वर – वैदिकमार्गप्रवर्तक- श्रीवीरबुक्कसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीयवेदार्थप्रकाशे ऋक्संहिताभाष्ये प्रथमाष्टके प्रथमोऽध्यायः” । इति । तस्मात् ज्ञायते यत् सायणाचार्यं बुक्कमहाराजस्य (१३६४ ई. तः १३७८ ई. यावत्) समकालिन आसीत् । तथा च सायणाचार्यः हरिहरस्य राजसभायामपि मन्त्रिकार्यं सम्पादितवान् इति ज्ञायते । अतः समग्ररूपेण अस्माभिः वक्तुं शक्यते यत् अस्य समयः त्रयोदशशतक ईशवीयसमय आसीत् ।
 
सायण-भाष्यस्य विशेषा: -
* १ अल्पाक्षरा परं स्पष्टा भाषा
* २ प्रसादगुणयुक्ता भाषा
* ३ अप्रचलितशब्दानां वर्जनम्
* ४ पूर्वोत्तरपक्षयुता रचना
* ५ संवादरूपा शैली
* ६ समर्पका: दृष्टान्ता:
 
सायणाचार्येण रचिता: ग्रन्था:-
* १ वेदार्थप्रकाश:
* २ सुभाषितसुधानिधि:
* ३ प्रायश्चित्तसुधानिधि:
* ४ पुरुषार्थसुधानिधि:
* ५ आयुर्वेदसुधानिधि:
* ६ यज्ञतन्र्ससुधानिधि:
* ७ माधवीया धातुवृत्ति:
 
 
 
"https://sa.wikipedia.org/wiki/सायणः" इत्यस्माद् प्रतिप्राप्तम्