"अग्निः" इत्यस्य संस्करणे भेदः

परिष्कारः
पङ्क्तिः १०७:
===विविधानि नामानि===
*'''गृहपतिः''' – ’त्वमग्ने गृहपतिस्त्वं होता नो अध्वरे’ (७-१६-५) – अयं प्रत्येकस्मिन् गृहे अपि वसति । स्वस्थाने निवसन्नेव सर्वैः सह अपि भवति । ’अप्रोषिवान् गृहपतिर्महान् असि’ (८-६०-१९) । अयं मानवानाम् अतिथिः । अयं प्रतिगृहम् अतिथिः अस्ति (१०-९१-२) । दीप्तज्वालायुक्तं सर्वज्ञम् एनम् अग्निदेवं गार्हपत्याग्निरूपेण याजकाः अतिथिमिव पूजयन्ति (५-८-२) । अयं मानवानां समीपबन्धुः (६-१५-१) । अयं कुटुम्बे पूर्वारभ्य सदैव विद्यते इत्यतः अनेन सह पुरातनं सख्यमस्ति । पूर्वजैः पूजितः महात्मा अयम् ।
*'''हव्यवाहः''' – अयं हविः स्वीकरोति, अपि च अन्यदेवतानां कृते नयति । अग्निना हविः आनीयते चेदेव तर्हि अन्यदेवताः प्रीताः भवन्ति अन्यथा ते न सन्तुष्यन्ति - ’न ऋते त्वदमृता मादयन्ति’ (७-११-६) । अयं देवताः यज्ञमण्डपं प्रति आनयति (३-१४-२)
*'''ऋत्विक्, पुरोहितः, होता''' – अयं देवतानां मानवानाञ्च पुरोहितः । ऋत्विजां सर्वाणि कार्याणि अनेन निरूह्यते इत्यतः अयम् अध्वर्युः, ब्रह्मन्, होतृ, अध्वर्युश्च । स्वीयदैवशक्त्या यज्ञनिर्वहणाय साहाय्यम् आचरति अयम् । अग्निः पुरोहितः इव ऋषिः अपि अस्ति । (९-६६-२०) ’त्वमग्ने प्रथमो अङ्गिरा ऋषिः’ (१-३१-१) ’ऋषिः श्रेष्ठः समिध्यसे’ (३-२१-३) इति एतं स्तुतवन्तः । स्वस्य प्रज्ञाबलेन एव अयं सर्वं ज्ञातुं शक्तः – ’कविः काव्येनासि विश्ववित्’ (१०-९१-३) कविक्रुतुः, विश्ववेदः इत्येतानि विशेषणानि तस्य सर्वज्ञत्वं सूचयन्ति ।
*'''रक्षोहन्''' - अग्निदेवः असुरध्वंसं कृत्वा मानवान् पोषयति । अतः अयं रक्षोहन् । स्वीयविस्तृततेजसा दीप्यमानः अग्निदेवः कर्मानुष्ठानेषु विघ्नम् आचरतः शत्रून् राक्षसान् च नाशयति इति एते मन्त्राः सूचयन्ति –
पङ्क्तिः १८५:
एवं सर्वं जनयित्वा, रक्षन् पोषयन् अयं देवः सर्वशक्तः करुणालुश्च । सर्वधारकः, सर्वपोषकः अयम् । अनेन एव वयम् अस्तित्वं प्राप्नुमः । विश्वम् अग्नेः रूपम् । अयं सर्वत्र विद्यते । वृक्षे, जले, शिलाखण्डे, समस्तजीवेषु च अयं गूढतया प्रकाशते ।
’अनेन जीवेनात्मना अनुप्रविश्य नामरूपे व्याकरवाणि’ इति उपनिषत् सुन्दरं विवृणोति अस्य सर्वव्यापकत्वम् अनुप्रवेशञ्च ।
एवम् अग्निदेवस्य स्तुस्तुतिः अनुपमरीत्या कृता अस्ति ऋग्वेदे ।
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/अग्निः" इत्यस्माद् प्रतिप्राप्तम्