"महात्मा गान्धी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २९:
==जन्म==
 
गान्धिवंशीया बनियाख्यवैश्यवर्णाः । तेऽमी पुरास्तोकानापणान्प्रतिष्ठाप्य वाणिज्यं कुर्वते स्मेति प्रतिभाति । किन्त्वस्मत्तातमारभ्यैते त्रिपौरुषपर्यन्तं काठियावाडदेशस्य कतिपयसंस्थानेषु प्रधानसचिवा बभूवुः । ओतागान्ध्यपराख्येनोत्तमचन्दगान्धिनाखण्डितवादिना भाव्यम् । तस्यास्य पोरबन्दरसंस्थाने प्रधानपदमारूढस्य क्वचित्कूटनीतिवशात्तत्संस्थानं परित्यज्य [[जूनागढ|जूनागढसंस्थान]] आश्रयः समन्वेषणीयोऽभूत् । तदा तत्रत्यनवाबप्रभोरयं सव्यहस्तेन सभाजनं चकार । तत्प्रेक्षकेण केनचित्पुरुषेण तावदविनीतवर्तनस्य हेतुं पृष्टः स प्रत्याह इतः पूर्वमेव मम दक्षिणो हस्तः पोरबन्दरसंस्थानस्य वशवर्ती भवतीति ॥
 
मृतजानिरोतागान्धिद्वितीयां भार्यामुवाह । अस्य प्रथमभार्यायां चत्वारः पुत्रा द्वितीयायां च द्वौ बभूवुः । एते भिन्नोदरा इति बाल्य नाहमवेदम् । न च तद्वृत्ततो वा प्रकाशितम् । षण्णामेषां करमचन्द गान्धी कबागान्ध्यपराख्यः पञ्चमः । तुलसीदासगान्धिश्चरमः । द्वावेतौ भ्रातरौ पोरबन्दरसंस्थाने क्रमशः प्रधानसचिवावभूताम् । कबागान्धिर्हि मे पिता । स च राजास्थानिकन्यायसभायां सदस्योऽभूत् । सा सभा साम्प्रतं न विद्यते । पुरा खलु सा राज्ञश्च तद्वंश्यानां च विवादव्यवस्थापनाय प्रतिष्ठापिता भूत्या गौरवास्पदमासीत् । अपि च मे तातः कियन्तं कालं [[राजकोट|राजकोटसंस्थाने]] क्वचिद्वाङ्कानेरसंस्थाने च प्रधानसाचिव्यमकोरत् । अस्य निर्याणकाले राजकोटसंस्थानाद्विश्रान्तिवेतनं लभ्यते स्म ॥
 
कबागान्धिरनुक्रमेण चतस्रो भार्या उदवहत् । द्वयोर्द्वयोर्दवे दुहितरौ चरमायां पूतलीबाईनाम्न्यामेका पुत्री त्रयः पुत्राश्च समजायन्त । एतेषामहमेवान्तिमः ॥ मम पिता कुटुम्बवत्सलः सत्यप्रियः शूर उदारश्च । परन्तु क्रोधनः । मनाग्विषयासक्त इत्यपि वक्तव्यम् । स किल व्यतिक्रान्तचत्वारिंशद्वत्सरोऽपि चतुर्थी भार्यामुपायस्त । किन्त्वयमुत्कोचादिलोभपरवशो नाभूत् । यथा स्वकुटुम्बे तथा बहिरप्ययं निष्पक्षपातीति प्रथां सम्पादितवान् । अस्य राजनिष्ठा सर्वलोकविदिताभवत् । कदाचिदयं निजस्वामिनो राजकोटप्रभोष्ठाकूराह्वयस्य कृतापमानं 'असिस्टेण्ट्र पोलिटिकल् एजेण्ट्’ इति व्यपदिश्यमानराजकीयप्रतिनिधिं प्रत्यवतस्थे । क्रुद्धेन तेन प्रतिनिधिना क्षमामभ्यर्थयस्वेति कबा गान्धी समादिष्टोऽपि न तथाकर्तुं प्रत्यपद्यत । ततस्तेन कतिपयहोराकालपर्यन्तमसाववष्टभ्य स्थापितोऽभवत् । परन्तु वज्रकठोरमनस्कतामस्यावबुध्य स राजकीयप्रतिनिधिर्विमुच्यतामयमित्यादिदेश ॥
"https://sa.wikipedia.org/wiki/महात्मा_गान्धी" इत्यस्माद् प्रतिप्राप्तम्