"केदारनाथः" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः ६१:
| footnotes =
}}
[[File:Kedarnath 2.jpg|thumb|'''केदारनथमन्दिरम्''']]
नरनारायणमन्दिरस्य गोपुरं स्वर्णनिर्मितमस्ति । ४५ पादपरिमितोन्नतप्रदेशे गर्भगृहे सिंहासनस्योपरि शालग्रामशिलायाः पूर्वाभिमुखः श्रीनारायणविग्रहः अस्ति । योगमुद्रास्थितः किरीटधारी पद्मासनस्थः बदरीनाथः अस्ति। अस्मिन् स्थाने स्थितं शिवक्षेत्रं ब्रह्मकपालनाम्ना निर्दिश्यते । [[वेदव्यासः|वेदव्यासमहर्षिः]] अत्र स्थितवान् । श्री [[शङ्कराचार्यः]] अत्रैव स्थित्वा भाष्यग्रन्थान् रचितवान् । श्रीमन्मध्वाचार्यः बदरीनाथे एव समाधिस्थः अभवत् इति जनानां विश्वासः । महर्षिः श्री [[वेदव्यासः]] [[महाभारतम्]] अत्रैव रचितवान् [[गणपतिः]] अत्रैव तत् लिखितवान् इति विश्वासः। वेदव्यासेन अष्टादशपुराणानि अपि अत्रैव प्रणीतानि । बदरिकाश्रमतः अष्टकिलोमीटरमिेते दूरे ४०० पादपरिमितोन्नतात् स्थानात् पतता जलेन सुन्दरजलपातः निर्मितः। अस्य नाम वसुधारा जलपातः इति । [[हृषीकेशः|हृषीकेशतः]] रुद्रप्रयागपर्यन्तम् आगत्य अग्रे '''केदारनाथक्षेत्रं''' गन्तुं शक्यते । एतत् हृषीकेशतः २४० किलोमीटरमिेते दूरेऽस्ति । सर्वतः हिमाच्छादितानि गिरिशिखराणि सन्ति । '''केदारनाथप्रदेशं''' रुद्रहिमालयः इति कथयन्ति । सुमेरुपर्वतः गन्धमादनगिरिः च अस्यैव भागौ स्तः । '''केदारनाथक्षेत्रं''' [[द्वादश ज्योतिर्लिङ्गानि|द्वादशज्योतिलिङ्गक्षेत्रेषु]] अन्यतमम् अस्ति । नरनारायणानां प्रार्थनया [[शिवः]] अत्र ज्योतिर्लिङ्गरूपेण स्थितवान् इति [[शिवपुराणम्|शिवपुराणे]] अस्ति । एतत् हैन्दवानां परमपवित्रं श्रद्धाकेन्द्रम् । केदारनाथस्य समीपे मन्दाकिनीनद्याः उद्गमस्थानमस्ति । '''केदारनाथस्य''' क्षेत्रं सागरस्तरतः ११७०० पादपरिमितौन्नत्ये स्थले अस्ति । केदारनाथमन्दिरे बृहच्छिला एव शिवलिङ्गमिति आराध्यते। [[गौरीकुण्डः]] इति पवित्रजलवापी अस्ति । श्री[[शङ्कराचार्यः]] केदारनाथक्षेत्रे कैवल्यम् अवाप्नोत् । एतत् स्थलं भक्ताना यात्रास्थलं , प्रकृतिप्रियाणां साहसप्रियाणाम् एतत् प्रियं दर्शनीयस्थानम् ।
|