"वैश्विकस्थितिसूचकपद्धतिः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
'''वैश्विकस्थितिसूचकपद्धतिः''' (Global Positioning System (GPS)) इत्येषा जागतिकस्थाननिर्णयोपेता दिक्सूचीव्यवस्था विद्यते । कृतकोपग्रहैः प्राप्यमाणां सूचनाम् उपयुज्य प्रतिग्राहियन्त्राणि स्वीयं स्थानं वेगं दिशां च निश्चिन्वन्ति । सर्वेषु अपि ऋतुषु भूमौ भूमेः समीपे वा यत्र चतुर्णां तदधिकानां वैश्विकस्थितिसूचकोपग्रहाणाम् अनवरुद्धपरिधौ विद्यते चेत् तत्रत्यं स्थानं समयञ्च निर्दुष्टं ज्ञापयति इयं व्यवस्था ।<ref>{{cite web | url=http://www.loc.gov/rr/scitech/mysteries/global.html | title=जि पि एस् इति किम् ? | accessdate=3 अप्रैल 2014}}</ref> इयं व्यवस्था आप्रपञ्चे सेनायाः, नागरिकाणां वाणिज्योद्यमीनाञ्च सामर्थ्यम् अवर्धयत । इयं व्यवस्था अमेरिकादेशस्य प्रशासनेन निरूह्यते । वैश्विकस्थितिसूचकपद्धतेः प्रतिग्राहियन्त्रयुतेन केनापि इयं व्यवस्था निश्शुल्कं प्राप्तुं शक्या ।
 
[[चित्रम्file:ConstellationGPS.gif|thumb|150px|frame|भ्रमन्तीं भूमिं परितः २४ वैश्विकस्थितिसूचकोपग्रहाणां सञ्चारः]]
 
वैश्विकस्थितिसूचकव्यवस्था अमेरिकादेशस्य सेनाविभागेन अभिवृद्धा व्यवस्था । अस्याः अधिकृतं नाम विद्यते ''न्याव्स्टार् जिपिएस्'' इति । अस्याः निर्वहणं नियन्त्रणं च अमेरिकादेशस्थायाः वायुसेनायाः । अस्याः निर्वहणाय (उपग्रहपरिवर्तनं संशोधनम् अभिवृद्धिः इत्येतेषां निमित्तम्) ७५० यु एस् डालर्मितः व्ययः क्रियमाणः विद्यते । इयं व्यवस्था मूलतया अमेरिकादेशस्य सैनिकानाम् उपयोगाय विनिर्मितः चेदपि जगति सार्वजनिकोपयोगाय निश्शुल्कं प्रदत्ता वर्तते ।
 
[[चित्रम्:|thumb|150px|Navstar-2 वैश्विकस्थितिसूचकोपग्रहः ]]
 
इयं व्यवस्था दिक्सूचीरूपेणमात्रं न अपि तु भूचित्रनिर्माणाय, सर्वेक्षणकार्याय, वाणिज्यवैज्ञानिककार्येभ्यः च उपयुज्यते । निर्दुष्टसमयावगमाय अपि अस्य उपयोगः क्रियते ।
"https://sa.wikipedia.org/wiki/वैश्विकस्थितिसूचकपद्धतिः" इत्यस्माद् प्रतिप्राप्तम्