"चोळवंशः" इत्यस्य संस्करणे भेदः

(लघु) added Category:Stubs using HotCat
भारतेतिहाससम्बद्धाः स्टब्स् using AWB
पङ्क्तिः १:
[[चित्रम्:Rajendra map new.svg|thumb|चोळसाम्राज्यमानचित्रम्]]
[[भारतम्|भारतस्य]] दक्षिणदिशि आसन् चोळानां, [[पाण्ड्याः|पाण्ड्यानां]], [[चेराः|चेराणां]] च राज्यानि । उत्तरभारते विद्यमानानि महासाम्राज्याणि पश्चिमतः तथा मध्य-एषियातः निरन्तरं जातानाम् आक्रमणानां कारणतः शिथिलानि अभवन् । तदा भारतस्य कलायाः तथा [[भारतीयसंस्कृतिः|संस्कृतेः]] च केन्द्रं फलवत्याः इण्डो-[[गङ्गा|गङ्गा]]प्रस्थभूमितः दक्षिणदिशि अपसृतम् । तावत् पर्यन्तम् एतानि राज्यानि प्रबलानि न आसन् । परस्परं कलहं कुर्वन्ति स्म । तदनन्तरं क्रमशः एते प्रबलाः अभवन् । कालान्तरे आग्नेय-एषियायाम् अपि राज्यस्थापनम् अकुर्वन् । दक्षिणे ९-१२ शतके महासाम्राज्यम् आसीत् चोळसाम्राज्यम् । पूर्वतनसाम्राज्यानि इव एते अपि [[भारतम्|भारते]] प्रख्यातानि स्मारकाणि निर्मितवन्तः । भारतस्य दक्षिणभागस्य अन्तिमभागे एतेषां साम्राज्यम् आसीत् इति कारणतः एते [[श्रीलङ्का|श्रीलङ्कायाः]] शासनम् अपि अकुर्वन् । आग्नेय-एष्या-संस्कृतिः एतेभ्यः प्रभाविता अभवत् । एतेषां नौसैन्यम् अत्यन्तं बलयुतम् आसीत् इत्यनेन श्रीलङ्कायाः उपरि, बङ्गालकोल्लि-उपरि च नियन्त्रणम् आसीत् एतेषाम् । एतत् साम्राज्यं शिष्टवान् [[राजराजचोळः]] भारतस्य सर्वोत्तमेषु सम्राजेषु अन्यतमः इति परिगण्यते ।
 
 
[[वर्गः:साम्राज्यानि‎]]
[[वर्गः:Stubsभारतेतिहाससम्बद्धाः स्टब्स्]]
"https://sa.wikipedia.org/wiki/चोळवंशः" इत्यस्माद् प्रतिप्राप्तम्