"नीलकण्ठदीक्षितः" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) removed Category:विषयः वर्धनीयः; added Category:श्टब्स् संस्कृतसम्बद्धाः using HotCat |
संस्कृतलेखकसम्बद्धाः स्टब्स् using AWB |
||
पङ्क्तिः १:
'''नीलकण्ठदीक्षितः''' (Nilakantadixit) ‘नीलकण्ठविजयचम्पूः’ इत्येतं ग्रन्थं रचितवान् अस्ति । एषः प्रसिद्धपण्डितस्य अप्पय्यदीक्षितस्य सहोदरः । एतस्य पितुः नाम नारायणदीक्षितः इति । मातुः नाम भूमिदेवि इति । नीलकण्ठदीक्षितः स्वग्रन्थे वदति - ‘अहम् एतं ग्रन्थं ४७३८ तमे कलिवर्षे (क्रि.श. १६३६) रचितवान्’ इति । अतः एतत् तु स्पष्टं यत् एषः सप्तदशे शतके आसीत् इति ।
नीलकण्ठदीक्षितः मधुरै-पाण्ड्यराजस्य तिरुमलनायकस्य आस्थानपण्डितः आसीत् । एषः महाकाव्यद्वयम्, एकं नाटकं, शतकद्वयं, दर्शनग्रन्थान् च रचितवान् अस्ति । एतस्य ३२ ग्रन्थाः उपलभ्यन्ते ।
समुद्रमथनकथा नीलकण्ठविजये वर्णिता अस्ति । एतस्मिन् ग्रन्थे ५ आश्वासाः सन्ति । काव्योचितप्रतिभा एतस्य कवेः । विडम्बनात्मकचित्रणे एषः निपुणः । मनोहरवर्णनानि एतस्य काव्ये बहूनि । अतः संस्कृतसाहित्ये एतस्य ग्रन्थस्य विशिष्टं स्थानम् अस्ति ।
[[वर्गः:संस्कृतलेखकाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:संस्कृतलेखकसम्बद्धाः स्टब्स्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:न प्राप्तः भाषानुबन्धः]]
|