"श्रीहर्षः" इत्यस्य संस्करणे भेदः

संस्कृतलेखकसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः १:
==परिचयः==
‘सद्यः परनिर्वृत्तये कान्तासम्मिततयोपदेशयुजे’ इति काव्यस्य ख्यातिः अस्ति। काव्येषु पञ्चमहाकाव्यानि प्रसिद्धानि। पञ्चमहाकाव्येषु अन्यतमस्य [[नैषधीयचरित|नैषधीयचरित]]स्य प्रणेता श्रीहर्षः अस्ति। सः कविः श्रीहीरपण्डितान्मामल्लदेव्यां समजनीति तस्य काव्यस्य प्रतिसर्गस्य समाप्तिश्लोकतः ज्ञायते।
 
::श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
::श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम्।
::तच्चिन्तामणिमन्त्रचिन्तनफले श्रृङ्गारभङ्ग्या महा-
::काव्ये चारुणि नैषधीयचरिते सर्गोऽयमादिर्गतः ।।
 
श्रीहर्षः कन्याकुब्जस्य नृपस्य विजयचन्द्रस्य आस्थानविद्वान् आसीत् । विजयचन्द्रस्य पुत्रस्य जयन्तचन्द्रस्य आस्थाने अपि सः आसीत् इति श्रूयते । तस्य पिता श्रीहरिः । माता मामल्लदेवी । श्रीहर्षः द्वादशशतके आसीत् । तर्कव्याकरणवेदान्तादिषु शास्त्रेषु श्रीहर्षः उद्दामपण्डितः । सर्वाणि अपि पुराणानि सः सम्यक् जानाति स्म ।
 
नायं राजा [[हर्षवर्धनः]]।
पङ्क्तिः २२:
# साहसाङ्कचरितचम्पू
परन्तु ते सर्वे न उपलभ्यन्ते । खण्डनखण्डखाद्यम् इति एकः ग्रन्थः उपलभ्यते । तस्मिन् ग्रन्थे तार्किकमतस्य खण्डनं कृतं दृश्यते ।
 
 
[[वर्गः:संस्कृतकवयः‎]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:संस्कृतलेखकसम्बद्धाः स्टब्स्]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
"https://sa.wikipedia.org/wiki/श्रीहर्षः" इत्यस्माद् प्रतिप्राप्तम्