"समावर्तनसंस्कारः" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १०:
'''वेदस्याध्ययनं हीदं तच्च कार्यं महत्स्मृतम् ।'''
</poem>
वेदमनूच्याचार्यः अन्तेवासिनम् अनुशास्ति । सत्यं वद । धर्मं चर । स्वाध्यायान्मा प्रमदः । आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः । सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् । कुशलान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् ।<br />
 
स्वाध्याय प्रवचनाभ्यां न प्रमदितव्यम् । देवपितृकार्याभ्यां न प्रमदितव्यम् । मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव । यान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि । यान्यस्माकं सुचरितानि तानि त्वया उपास्यानि नो इतराणी । ये केचास्मच्छ्रेयांसो ब्राह्मणाः । तेषां त्वया आसनेन प्रश्वसितव्यम् । श्रद्धया देयम् । अश्रद्धया अदेयम् । श्रिया देयम् । ह्रिया देयम् । भिया देयम् । संविदा देयम् । अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः । अथाभ्याख्यातेषु ये तत्र ब्राह्मणाः संमार्शिनः । युक्ताः आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् । तथा तेषु वर्तेथाः । एष आदेशः एष उपदेशः । एषा वेदोपनिषत् तदनुशासनम् । एवमुपासितव्यम् । एवं चैतदुपास्यम् । <br />
 
इति । [[तैत्तिरीयोपनिषत्]] । द्वितीयः अनुवाकः । <br />
पङ्क्तिः २३:
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:हिन्दुसंस्काराः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/समावर्तनसंस्कारः" इत्यस्माद् प्रतिप्राप्तम्